________________
२२
10
प्रबन्धकोशे शिलादित्य इति ख्यातः सुराष्ट्राराष्ट्रभास्करः।
लेभे सूर्याद्वरं वाहं परचक्रोपमईकम् ॥२०॥ निजां खसारं स ददौ भृगुक्षेत्रमहीभुजे । असूत सा सुतं दिव्यतेजसं दिव्यलक्षणम् ॥ २१ ॥
शत्रुञ्जये गिरौ चैत्योद्धारमारचयच्च सः। श्रेणिकादिश्रावकाणां श्रेणावात्मानमानयत् ॥ २२॥ 5 कदाचिदागतास्तत्र बौद्धास्तर्कमदोद्धराः । ते शिलादित्यमगदन्-सन्ति श्वेताम्बरा इमे ॥ २३ ॥ वादे जयन्ति यद्यमांस्तदैते सन्तु नीवृति । वयं यदि जयामोऽमूंस्तदा गन्तव्यमेतकैः ॥ २४ ॥ दैवयोगाजितं बौद्धैः सर्वे श्वेतम्बराः पुनः । विदेशमाशिश्रियिरे पुनः कालबलार्थिनः ॥ २५ ॥ शिलादित्यनृपो बौद्धान् प्रपूजयति भक्तितः । शत्रुञ्जये च ऋषभस्तैर्बुद्धीकृत्य पूजितः ॥ २६ ॥ ६३०) इतश्च सा शिलादित्यभगिनी भर्तृमृत्युतः।
विरक्ता व्रतमादत्त सुस्थिताचार्यसन्निधौ ॥ २७॥ अष्टवर्ष निजं बालमपि व्रतमजिग्रहत् । सामाचारीमपि प्राज्ञं किञ्चित्किश्चिदजिज्ञपत् ॥ २८ ॥
एकदा मातरं साध्वीं सोऽपृच्छदभिमानवान् ।
अल्पः कथं नः सङ्घोऽयं प्रागप्यल्पोऽभवत्कथम् ॥ २९॥ साऽप्युदश्रुरभाषिष्ट-वत्स! किं वच्मि पापिनी । श्रीश्वेताम्बरसङ्घोऽभूदु भूयानपि पुरे पुरे ॥३०॥ 15 तादृक्प्रभावनावीरसूरीन्द्राभावतः परैः । खसात्कृतः शिलादित्यो भूपालो मातुलस्तव ॥ ३१ ॥ तीर्थ शत्रुञ्जयाह यद्विदितं मोक्षकारणम् । श्वेताम्बराभावतस्तद्वौद्धैर्भूतैरिवाश्रितम् ॥ ३२ ॥ विदेशवासिनः श्वेताम्बराः खण्डितडम्बराः। क्षिपन्ति निहतौजस्काः कालं कचन केचन ॥३३॥ इति श्रुत्वाऽकुपद्वालस्तथागतभटान् प्रति । प्रतिज्ञा च चकारोः प्राडम्भोधरध्वनिः ॥ ३४ ॥ नोन्मूलयामि चेद्वौद्धान् नदीरय इव दुमान् । तदा भवामि सर्वज्ञध्वंसपातकभाजनम् ॥ ३५॥ 20 इत्युक्त्वाऽम्बां समापृच्छय बालःकालानलद्युतिः। मल्लनामा' गिरिं गत्वा तेपे तीव्रतरं तपः॥३६॥ आसन्नग्रामभैक्षेण पारणं च चकार सः। दिनैः कतिपयैस्तच्च जज्ञौ शासनदेवता ॥ ३७॥
भूत्वा व्योमनि साऽवादीत्-केमिष्टाः १, सोऽपि बालकः।
तच्छुत्वाऽऽख्यत्सानुभवं 'वल्ला' इति खदत्तदृक् ॥ ३८॥ षण्मास्यन्ते पुनः सोचे खस्था 'केन सहे' त्यथ । बालर्षिरप्यभाषिष्ट 'समं घृतगुडैः शुभैः ॥३९॥ 25 अवधारणशक्त्या तं योग्यं शासनदेवता । प्रत्यक्षा न्यगदद्वत्स! भूयाः परमतापहः ॥४०॥ नयचक्रस्य तस्य पुस्तकं लाहि मानद !। वाणी सेत्स्यति ते सम्यक कुतर्कोरगजाङ्गुली ॥४१॥ भूमौ मुमोच तं तर्कपुस्तकं बालको मुनिः। प्रमादः सुलभस्तत्र वयोलीलाविशेषतः॥ ४२ ॥ रुष्टा शासनदेव्यूचे विहिताशातना त्वया । सान्निध्यं ते विधाताऽस्मि प्रत्यक्षीभविता न तु ॥४॥ तं लब्ध्वा पुस्तकं मल्लवादी देदीप्यते स्म सः। शस्त्रं पाशुपतमिव मध्यमः पाण्डुनन्दनः ॥ ४४ ॥ 80 आगत्य वलभीद्रङ्गं सुराष्ट्राराष्ट्रभूषणम् । शिलादित्यं युगप्रान्तादित्यातिरुवाच सः॥ ४५ ॥
- 1A राष्ट्र। 2 CD बाढं। 3 A नास्ति पदमेतत् । 4 A भक्ततः। 5 B स्वसात्कृत्य। 6 AP निहिती० । 7A मल्लनाम।
Jain Education Intemational
ation Intermational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org