Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 49
________________ २६ प्रबन्धकोशे लग्नः । सुघटितैस्तत्कुतः परावर्तितं मनः । तद्दीक्षा ललौ । वेषं दातुमुपश्रीहरिभद्रं ययौ । तैरप्यागच्छन् जटितः। [P तैरप्यागच्छन्नावर्जितः वादं कुर्वन्वादेन जितः । बौद्धाचार्यस्य बौद्धवेषं दातुं गतः । तेनापि बोधितः। पुनरागत उपश्रीहरिभद्रं श्वेताम्बरवेषं दातुम् । पुनर्वादेन जिता*1] एवं वेषद्वयप्रदानेन एहिरेयाहिराः २१ कृताः। द्वाविंशवेलायां गुरुमिश्चिन्तितम्5माऽस्य वराकस्य आयुःक्षयेण मिथ्यादृष्टित्वे मृतस्य दीर्घभवभ्रमणं भू[यात् । पुराऽपि २१ वारं' वादर्जितोऽसौ। अधुना वादेनालम् । 'ललितविस्तराख्या' चैत्यवन्दनावृत्तिः सतर्का कृता । तदा गमे पुस्तिकां पादपीठे मुक्त्वा गुरवो बहिरगुः । तत्पुस्तिकापरामर्शाबोधः सम्यक् । ततस्तुष्टो निश्चलमनाः प्राह ६०. नमोऽस्तु हरिभद्राय तस्मै प्रवरसूरये । मदर्थं निर्मिता येन वृत्तिललितविस्तरा ॥ ८॥ 10 ततो मिथ्यात्वनिर्विण्णेन सिद्धर्षिणा १६ सहस्रा 'उपमितिभवप्रपञ्चा' कथाऽरचि श्रीमाले सिद्धिमण्डपे । सा च सरखत्या साध्व्याऽशोधि । समये श्रीहरिभद्रसूरयोऽपि सोऽपि अनशनेन सुरलोकमवापन् । ॥ इति श्रीहरिभद्रसूरिप्रबन्धः ॥ ८॥ ९. अथ श्रीबप्पभटिसूरिप्रबन्धः । 15६३५) गूर्जरदेशे पाडलापुरनगरे जितशत्रू राजा राज्यं करोति स्म । तत्र श्रीसिद्धसेननामा सूरीश्वरोऽस्ति स्म । स मोढेरपुरे महास्थाने श्रीमहावीरनमस्करणाय गतः।श्रीमहावीरं नत्वा तीर्थोपवासं कृत्वा रात्रावात्मारामरतो योगनिद्रया स्थितः सन् खमं ददर्श । यथा-केसरिकिशोरको देवगृहोपरि क्रीडति । खमं लब्ध्वाऽजागरीत् । माङ्गल्यस्तवनान्यपाठीत् । प्रातश्चैत्यं गतः। तत्र षड्वार्षिको बाल एको बालांशुमालिसमद्युतिराजगाम । सूरिणा पृष्टः-भो अर्भक! कस्त्वम् ? 20 कुत आगतः । तेनोक्तम्-पश्चालदेशे हूंबाउधीग्रामे बप्पाख्यः क्षत्रियः। तस्य भटि म सधर्म चारिणी । तयोः 'सूरपालो नाम पुत्रोऽहम् । मत्तातस्य बहवो भुजबलगर्विताः प्रचुरपरिच्छदार शत्रवः सन्ति । तान्सर्वान्हन्तुमहं सन्नह्य चलन्नासम् । पित्रा निषिद्धः-वत्स! बालस्त्वम्, नास्मै कर्मणे प्रगल्भसे । अलमुद्योगेन । ततोऽहं क्रुद्धः । किमनेन निरभिमानेन पित्रापि, यः स्वयमरीन्न हन्ति मामपि नन्तं निवारयति । अपमानेन मातापितरावनापृच्छयात्र समागतः। 25 सूरिणा चिन्तितम्-अहो दिव्यं रत्नम् ! । न मानवमात्रोऽयम् । 'तेजसां हि न वयः समीक्ष्यते।' इति विमृश्य बाल आलेपे-वत्सक! अस्माकं पार्श्वे तिष्ठ, निजगृहाधिकसुखेन । बालेनोक्तम्महान्प्रसादः । स्वस्थानमानीतः । सङ्घो हृष्टस्तद्रूपविलोकनेन । दृष्टयस्तृप्तिं न 'मन्वते । पाठयित्वा विलोकितः। एकाहेन श्लोकसहस्रमध्यगीष्ट । गुरवस्तुतुषुः । 'रत्नानि पुण्यप्रचयप्राप्यानि। धन्या वयम् । तेन बालेनाप्यल्पदिनैर्लक्षण-तर्क-साहित्यादीनि भूयांसि शास्त्राणि पर्यशीलिषत । * एषा कोष्टकगता पंक्तिः केवलं P पुस्तके दृश्यतेऽतः प्रक्षिप्तप्राया चेयम् । 1 P वारान् । 2 P वादे जितो। 3P समजनि। 4 B सिद्धिऋषिणा। 5 P पाटला। 6 B अत्र। 7 B सुर०। 8 B मन्यन्ते; P तन्वते। 90 तुतुष्ट; D दृष्टाः; P तुष्टयुः। www.jainelibrary.org For Private & Personal Use Only Jain Education Intemational For Private & Personal Use Only

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176