________________
२६
प्रबन्धकोशे लग्नः । सुघटितैस्तत्कुतः परावर्तितं मनः । तद्दीक्षा ललौ । वेषं दातुमुपश्रीहरिभद्रं ययौ । तैरप्यागच्छन् जटितः। [P तैरप्यागच्छन्नावर्जितः वादं कुर्वन्वादेन जितः । बौद्धाचार्यस्य बौद्धवेषं दातुं गतः । तेनापि बोधितः। पुनरागत उपश्रीहरिभद्रं श्वेताम्बरवेषं दातुम् । पुनर्वादेन जिता*1] एवं वेषद्वयप्रदानेन एहिरेयाहिराः २१ कृताः। द्वाविंशवेलायां गुरुमिश्चिन्तितम्5माऽस्य वराकस्य आयुःक्षयेण मिथ्यादृष्टित्वे मृतस्य दीर्घभवभ्रमणं भू[यात् । पुराऽपि २१ वारं' वादर्जितोऽसौ। अधुना वादेनालम् । 'ललितविस्तराख्या' चैत्यवन्दनावृत्तिः सतर्का कृता । तदा गमे पुस्तिकां पादपीठे मुक्त्वा गुरवो बहिरगुः । तत्पुस्तिकापरामर्शाबोधः सम्यक् । ततस्तुष्टो निश्चलमनाः प्राह
६०. नमोऽस्तु हरिभद्राय तस्मै प्रवरसूरये । मदर्थं निर्मिता येन वृत्तिललितविस्तरा ॥ ८॥ 10 ततो मिथ्यात्वनिर्विण्णेन सिद्धर्षिणा १६ सहस्रा 'उपमितिभवप्रपञ्चा' कथाऽरचि श्रीमाले सिद्धिमण्डपे । सा च सरखत्या साध्व्याऽशोधि । समये श्रीहरिभद्रसूरयोऽपि सोऽपि अनशनेन सुरलोकमवापन् ।
॥ इति श्रीहरिभद्रसूरिप्रबन्धः ॥ ८॥
९. अथ श्रीबप्पभटिसूरिप्रबन्धः । 15६३५) गूर्जरदेशे पाडलापुरनगरे जितशत्रू राजा राज्यं करोति स्म । तत्र श्रीसिद्धसेननामा
सूरीश्वरोऽस्ति स्म । स मोढेरपुरे महास्थाने श्रीमहावीरनमस्करणाय गतः।श्रीमहावीरं नत्वा तीर्थोपवासं कृत्वा रात्रावात्मारामरतो योगनिद्रया स्थितः सन् खमं ददर्श । यथा-केसरिकिशोरको देवगृहोपरि क्रीडति । खमं लब्ध्वाऽजागरीत् । माङ्गल्यस्तवनान्यपाठीत् । प्रातश्चैत्यं गतः। तत्र षड्वार्षिको बाल एको बालांशुमालिसमद्युतिराजगाम । सूरिणा पृष्टः-भो अर्भक! कस्त्वम् ? 20 कुत आगतः । तेनोक्तम्-पश्चालदेशे हूंबाउधीग्रामे बप्पाख्यः क्षत्रियः। तस्य भटि म सधर्म
चारिणी । तयोः 'सूरपालो नाम पुत्रोऽहम् । मत्तातस्य बहवो भुजबलगर्विताः प्रचुरपरिच्छदार शत्रवः सन्ति । तान्सर्वान्हन्तुमहं सन्नह्य चलन्नासम् । पित्रा निषिद्धः-वत्स! बालस्त्वम्, नास्मै कर्मणे प्रगल्भसे । अलमुद्योगेन । ततोऽहं क्रुद्धः । किमनेन निरभिमानेन पित्रापि, यः स्वयमरीन्न हन्ति मामपि नन्तं निवारयति । अपमानेन मातापितरावनापृच्छयात्र समागतः। 25 सूरिणा चिन्तितम्-अहो दिव्यं रत्नम् ! । न मानवमात्रोऽयम् । 'तेजसां हि न वयः समीक्ष्यते।' इति विमृश्य बाल आलेपे-वत्सक! अस्माकं पार्श्वे तिष्ठ, निजगृहाधिकसुखेन । बालेनोक्तम्महान्प्रसादः । स्वस्थानमानीतः । सङ्घो हृष्टस्तद्रूपविलोकनेन । दृष्टयस्तृप्तिं न 'मन्वते । पाठयित्वा विलोकितः। एकाहेन श्लोकसहस्रमध्यगीष्ट । गुरवस्तुतुषुः । 'रत्नानि पुण्यप्रचयप्राप्यानि। धन्या वयम् । तेन बालेनाप्यल्पदिनैर्लक्षण-तर्क-साहित्यादीनि भूयांसि शास्त्राणि पर्यशीलिषत ।
* एषा कोष्टकगता पंक्तिः केवलं P पुस्तके दृश्यतेऽतः प्रक्षिप्तप्राया चेयम् । 1 P वारान् । 2 P वादे जितो। 3P समजनि। 4 B सिद्धिऋषिणा। 5 P पाटला। 6 B अत्र। 7 B सुर०। 8 B मन्यन्ते; P तन्वते। 90 तुतुष्ट; D दृष्टाः; P तुष्टयुः।
www.jainelibrary.org
For Private & Personal Use Only
Jain Education Intemational
For Private & Personal Use Only