________________
15
हरिभद्रसूरिप्रबन्धः। अपरः कपलिकापाणिनष्टः । हंसस्य शिरश्छित्त्वा राज्ञे दर्शितं तैः । तेनापि गुरवे दत्तम् । गुरुराह-किमनेन कपलिकामानायय । गता भटाः। रात्रौ चित्रकूटे प्राकारकपाटयोर्दत्तयोस्तदासने सुप्तस्य परमहंसस्य शिरश्छित्त्वा तैस्तत्रार्पितम् । तेषां बौद्धानां तत्सूरेश्च सन्तोषः। प्रातः श्रीहरिभद्रसूरिभिः शिष्यकबन्धो दृष्टः । कोपः । तैलकटाहाः कारिताः । अग्निना तापितं सैलम् । १४४० बौद्धा होतुं खे आकृष्टाः [*शकुनिकारूपेण पतन्ति ] । गुरुभिवृत्तान्तो ज्ञातः । [*प्रतियोधाय] साधू प्रहितौ । ताभ्यां गाथा दत्ताः
५६. गुणसेण-अग्गिसम्मा सीहा-णंदा य तह पिया-पुत्ता । सिहि-जालिणि माइ-सुया, धण-धणसिरिमो य पइ-भजा ॥४॥ ५७. जय-विजया य सहोयर धरणो लच्छी य तह पई भजा । सेण-विसेणा पित्तिय-उत्ता जम्मंमि सत्तमए ॥५॥ ५८. गुणचन्द-वाणवंतर-समराइच-गिरिसेण पाणो उ । एगस्स तओ मुक्खोऽणंतो बीयस्स संसारो ॥ ६॥ ५९. जह जलइ जलउ लोए कुसत्थपवणाहओ कसायग्गी । तं चुजं जं जिणवयणअमियसित्तो वि पजलइ ॥ ७॥ 10 बोधः । शान्तिः। १४४० ग्रन्थाः प्रायश्चित्तपदे कृताः । चित्रकूटतलहट्टिकास्थेन तैलवणिजा प्रतयः कारिताः। तत्प्रथमं याकिनीधर्मसूनुरिति हारिभद्रग्रन्थेष्वन्तेऽभूत् । १४४० पुनर्भवविरहान्तता। 'गुणसेणअग्गिसम्मा' इत्यादिगाथात्रयप्रतिबद्धं समरादित्यचरित्रं नव्यं शास्त्रं क्षमावल्लीबिजं कृतम् । १०० शतक-पश्चाशत्-षोडशक-अष्टक-पञ्चलिङ्गी-अनेकान्तजयपताका-न्यायावतारवृत्ति-पञ्चवस्तुक-पञ्चसूत्रक-श्रावकमज्ञप्ति-नाणायत्तकप्रभृतीनि हारिभद्राणि ।
६३४) अत्रान्तरे श्रीमालपुरे कोऽपि धनी श्रेष्ठी जैनश्चतुर्मासके सपरिकरो देवतायतनं व्रजन् सिद्धाख्यं राजपुत्रं द्यूतकारयुवानं देयकनकपदे निर्दयै तकारैर्गर्तायां निक्षिप्तं कृपया तद्देयं दत्त्वा अमोचयत् । गृहमानीयाभोजयत् । अपाठयत् । सर्वकार्याध्यक्षमकरोत् । पर्यणाययत् । माता मागप्यासीत् । पृथग' गृहमण्डनिका । श्रेष्ठिप्रसादाद्धनम् । सिद्धो रात्रावतिकाले एति, लेख्यकलेखलेखनपरवशत्वात् । श्वश्रू लुषे अतिनिर्विण्णे अतिजागरणात् । वध्वा श्वश्रूरक्ता-मातः !20 पुत्रं तथा बोधय, यथा निशि सकाले एति । मात्रा उक्तः सः-वत्स! निशि शीघ्रमेहि । 'यः कालज्ञः स सर्वज्ञः'। सिद्धः प्राह-मातः! येन खामिनाऽहं सर्वखदानेन जीवितव्यदानेन च समुद्भुतस्तदादेशं कथं न कुर्वे । तोष्णीक्येन स्थिता माता। अन्यदाऽऽलोचितं श्वश्रू-लुषार अस्य चिरादागतस्य निशि द्वारं नोद्घाटयिष्यावः। द्वितीयरात्रावतिचिराद् द्वारमागतः स कटकं खटखटापयति । ते तु न ब्रूतः । तेन क्रुद्धेन गदितम्-किमिति द्वार नोद्घाटयेथे ? 125 ताभ्यां मन्त्रितपूर्विणीभ्यामुक्तम्-पत्रेदानी द्वाराणि उद्घाटितानि भवन्ति, तत्र व्रज। तछुत्वा कुद्धश्चतुष्पथं गतः। तत्रोद्घाटे हट्टे उपविष्टान् सूरिमन्त्रस्मरणपरान् श्रीहरिभद्रान्दृष्टवान् । सान्द्रचन्द्रिके नभसि देशना । बोधः । व्रतम् । सर्वविद्यता। दिव्यं कवित्वम् । हंसपरमहंसवद् विशेषतर्काम् जिघृक्षुबौद्धान्तिकं जिगमिषुर्गुरुमवादीत्-प्रेषयत बौद्धपार्थे । गुरुभिर्गदितम्तत्र मागाः। मनापरावर्ती भावी । स ऊचे-युगान्तेऽपि नैवं स्यात् । पुनर्गुरवः प्रोचुः-तत्र गतः 80 परावर्त्यसे चेत् तदा अस्मद्दत्तं वेषमत्रागत्यास्मभ्यं ददीथाः। ऊरीचक्रे । स गतस्तत्र पठितुं
* P पुस्तक एवैतद् वाक्यं लभ्यते। 10 ज्ञापितः। 2 A क्षितं । 3P पृथग् गृहेऽस्थात् । मात्रा प्रियया च समं स गृहमण्डनिका। 4 P .धनं बभूव । 5A पारवश्यात् । 6C चिरेण । 7 B खटापयति । 8P व्रतं जगृहे। 9 B तर्कानाजिपुचः।
४ प्र.को.
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only