________________
बप्पट्टिसूरिप्रबन्धः। ततो गुरवो डूंबाउधीग्राम जग्मुः । बालस्य पितरौ वन्दितुमागतौ । गुरुभिरालापितौ-पुत्रा भवन्ति भूयांसोऽपि। किं तैः संसारावकरकृमिभिः । अयं तु युवयोः पुत्रो व्रतमीहते । दीयता नः । गृयतां धर्मः । 'नष्टं मृतं सहन्ते हि पितरो निजतनयम् ।' श्लाघ्योऽयं भवं निस्तितीषुः । पितृभ्यामुक्तम्-भगवन् ! अयमेक एव नः कुलतन्तुः। कथं दातुं शक्यते ? । तावता सविधस्थेन सूरपालेन गदितम्-अहं चारित्रं गृह्णाम्येव । ६१. यतः-सा बुद्धिर्विलयं प्रयातु कुलिशं तत्र श्रुते पात्यताम् , वल्गन्तः प्रविशन्तु ते हुतभुजि ज्वालाकराले गुणाः ।
यैः सर्वैः शरदेन्दुकुन्दविशदैः प्राप्तैरपि प्राप्यते, भूयोऽप्यत्र पुरन्धिरन्ध्रनरककोडाधिवासव्यथा ॥१॥ ततो ज्ञाततन्निश्चयाभ्यां तन्मातरपितृभ्यां जल्पितम्-भगवन् ! गृहाण पात्रमेतत् । परं 'बप्पभहिः' इति नामास्य कर्तव्यम् । गुरुभिर्भणितम्-एवमस्तु। कोऽत्र दोषः। पुण्यवन्तौ युवाम् । ययोरयं लाभः सम्पन्नः । बप्प-भट्टी आपृच्छय सूरपालं गृहीत्वा सिद्धसेनाचार्या मोढेरकं गताः । 10
६२. शताष्टके वत्सराणां गते विक्रमकालतः । सप्ताधिके राधशुक्लतृतीयादिवसे गुरौ ॥२॥ दीक्षा दत्ता। बप्पभहिः' इति नाम विश्ववल्लभं जुघुषे । सङ्घप्रार्थनया तत्र चतुर्मासकं कृतम् । ६३६) अन्यदा बहिर्भूमि गतस्य बप्पभट्टेर्महतीं वृष्टिमतनिष्ट घनः । कापि देवकुले स्थितः सः। तत्र देवकुले महाबुधः कोऽपि पुमान् समागतः। तत्र देवकुले प्रशस्तिकाव्यानि रसाढ्यानि गम्भीरार्थानि तेन वप्पभटिपार्थाद्व्याख्यापितानि । ततः स बप्पभट्टिना समं वसतिमायातः। गुरु-15 भिगशीभिरभिनन्दितः। आम्नायं स प्रष्टः। ततोऽसौ जगाद-भगवन! कन्यकब्ज
गोपालगिरिदुर्गनगरे यशोवर्मनृपतेः सुयशादेवीकुर्तिजन्मा नन्दनोऽहम् ।यौवने च निरर्गलं धनं लीलया व्ययन पित्रा कुपितेन शिक्षितः-वत्स! धनार्जकस्य कृच्छ्रमस्थानव्ययी पुत्रो न वेत्ति तातस्य । मितव्ययो भव । ततोऽहं कोपादिहागमम् । गुरुवोऽप्यूचुः-किं ते नाम?। तेनापि खटिकया भुवि लिखित्वा दर्शितम्-'आम' इति । महाजनाचारपरंपरेदशी 'स्वनाम नामाददते न साधवः। 20 तस्यौनत्येन गुरवो हृष्टाः । चिन्तितं च तैः-पूर्व श्रीरामसैन्ये दृष्टोऽसौ पाण्मासिकः शिशुः।
६३. पीलवृक्षमहाजाल्या वस्त्रान्दोलकैमास्थितः । अचल[या]छायया च पुण्यपुरुषो निर्णीतः ॥३॥ ततस्तजननी वन्यफलानि विचिन्वानाऽस्माभिर्भणिता-वत्से ! का त्वम् । किं च ते कुलम् ।। [*साऽवादीत् निजं कुलम्] अहं राजपुत्री कन्यकुब्जेशयशोवर्मपत्नी सुयशा नाम । अहमस्मिन्मते गर्भस्थे सति दृढकार्मणवशीकतधवया कृतप्रमाणयाऽकत्ययेव करया सपन्या: मिथ्या परपुरुषदोषमारोप्य गृहान्निष्कासिता। अभिमानेन श्वशुरकुल-पितृकुले हित्वा भ्रमन्तीह समागता वन्यवृत्त्या जीवामि। बालंच पालयामि । इदं श्रुत्वाऽस्माभिः सा उक्ता-वत्से! अस्मचैत्यं समागच्छ। खं वत्सं प्रवर्द्धय" । तया तथा कृतम् । सपन्यपि बहुसपत्नीकृतमारणप्रयोगै"र्ममार। ततो विशिष्टपुरुषैः कन्यकुब्जेशो यशोवर्मा विज्ञप्तः-देव! सुयशा राज्ञी निर्दोषाऽपि तदा देवेन सपत्नीवचसा निष्कासिता सा प्रत्यानीयते। राज्ञा सा स्वसौधमानायिता सपुत्रा 30 गौरविता च।
1A कृतिभिः। 2 P नास्ति । 3 A श्रुतः। 4 B महाबोधः। 5 C यशोधर्मः। 6 P सुयशो। 7 'कुक्षि' नास्ति। 8CP यौवनेन। 9 PC सैन्ये ग्रामे। 10P महाजल्यां। 11 P वस्नदोलक०। 12 BC वा तव। * PC भाद” एवैष पाठः। 13 PC यस्कृतः। 14 C वर्धय। 15 PC प्रयोगेण ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
For Private & Personal use only