Book Title: Prabandh kosha Author(s): Rajshekharsuri, Jinvijay Publisher: Singhi Jain GyanpithPage 53
________________ प्रबन्धकोशे अन्यदा शुद्धान्ते प्रम्लानवदनां वल्लभां दृष्ट्वा प्रभोः पुरो गाथाद्धं राजाऽऽह७०. अजवि सा परितप्पइ कमलमुही अत्तणो पमाएण । समस्येयम् । प्रभुः स्माह पढमविबुद्धेण तए जीसे पच्छाइयं अंगं ॥१०॥ 5 राजा आत्मसंवादाच्चमत्कृतः । अन्यदा मियां पदे पदे मन्दं मन्दं सञ्चरन्तीं दृष्ट्वा गाथार्द्ध राजा जगाद ७१. बाला चंकमंती पए पए कीस कुणइ मुहभंग । सूरिराह नूणं रमणपएसे मेहलिया छिदई नहपंतिं ॥ ११ ॥ 10 इदं श्रुत्वा राजा मुखं निश्वासहतदर्पणसमं दधे-अमी मदन्तःपुरे कृतविप्लवा इति धिया । सचाचायः क्षणार्द्धनावगतम् । चिन्तितं च-अहो विद्यागुणोऽपि दोषतां गतः!। ____७२. जलधेरपि कल्लोलाश्चापलानि कपेरपि । शक्यन्ते यत्नतो रोद्धं न पुनः प्रभुचेतसः ॥ १२ ॥ रात्रौ सूरिः संघमप्यनापुच्छ्य राजद्वारकपाटसम्पुटतटे काव्यमेकं लिखित्वा पुरावहिर्ययौ । तद्यथा15 ७३. यामः स्वस्ति तवास्तु रोहणगिरे ! मत्तः स्थितिप्रच्युता, वर्तिष्यन्त इमे कथं कथमिति स्वप्नेऽपि मैवं कृथाः । श्रीमंस्ते मणयो वयं यदि भवल्लब्धप्रतिष्ठास्तदा, ते शृङ्गारपरायणाः क्षितिभुजो मौलौ करिष्यन्ति नः ॥१३॥ ७४. [*अस्मान् विचित्रवपुषश्चिरपृष्ठलग्नान् किं वा विमुञ्चसि विभो ! यदि वा विमुञ्च । हा हन्त ! केकिवर ! हानिरियं तवैव भूपालमूर्द्धनि पुनर्भविता स्थितिनः ॥१४॥ ७५. *हंस जिहिं गय तिहिं गया महिमण्डणा हवंति । छेहु तांह सरोवरह जं हंसे मुच्चंति ॥ १५॥] 20६३८) दिनैः कतिपयैगौंडदेशान्तर्विहरन् लक्षणावतीनाम्याः पुरों बहिरारामे समवात्सीत् । तत्र पुरि धर्मो नाम राजा । स च गुणज्ञः। तस्य सभायां वाक्पतिनामा कविराजोऽस्ति । तेन सूरीणामागमनं लोकादवगतम् । ज्ञापितश्च राजा । राज्ञा प्रवेशमहः कारितः। पूर्मध्येऽसौ' सौधोपान्ते गुरुस्तुङ्गगृहे स्थितः' । राजा नित्यं वन्दते । कवयो जिता रञ्जिताश्च । प्रभावना: प्रैधते स्म । यशश्च कुन्दशुभ्रम् । ['राजा प्रोचे25 ७६. अदृष्टे दर्शनोत्कण्ठा दृष्टे विरहभीरुता । दृष्टेन वाप्यदृष्टेन भवता नाप्यते सुखम् ॥ १६ ॥ निर्बन्धे सूरिराह-आमश्चेत्स्वयमायास्यति तदा वयं यास्यामो नान्यथा-इति प्रतिज्ञाय स्थापिताः पुण्यलाभं कुर्वन्ति ।] __इतश्च यदा बप्पष्टिः कृतविहारः प्रातः श्रीआमपार्श्व नायातस्तदा तेन सर्वत्रावलोकितो न लब्धः। राजा जातो विलक्षः। 'यामः स्वस्ति तवास्तु' इत्यादि काव्यं दृष्टम् । अक्षराण्युपल30क्षितानि । ध्रुवं स मां मुक्त्वा कापि गत एवेति निर्णीतम् । अन्यदा बहिर्गतेन राज्ञा "महाभुजङ्गमो दृष्टः । तं मुखे धृत्वा वाससाऽऽच्छाद्य सौधं गतः। कविवृन्दाय समस्यामर्पितवान् 1 BG छिनइ; PC छिवइ। 2P मनापृ०। * एतत्पद्यद्वयं P पुस्तके एवोपलभ्यते, नान्यत्र । 3 P नगर्याः । 4 BDP समवासार्षीत् । 5 BP नास्ति 'असौ'। 6 P स्थापितः। 7 AC नास्ति 'जिताः'। + P पुस्तक एवैष कोष्ठकगतः पाठः प्राप्यते। 8CP नास्ति। 9P काव्यानि दृष्टानि । 10P 'महा' नास्ति । Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176