________________
प्रबन्धकोशे अन्यदा शुद्धान्ते प्रम्लानवदनां वल्लभां दृष्ट्वा प्रभोः पुरो गाथाद्धं राजाऽऽह७०. अजवि सा परितप्पइ कमलमुही अत्तणो पमाएण ।
समस्येयम् । प्रभुः स्माह
पढमविबुद्धेण तए जीसे पच्छाइयं अंगं ॥१०॥ 5 राजा आत्मसंवादाच्चमत्कृतः । अन्यदा मियां पदे पदे मन्दं मन्दं सञ्चरन्तीं दृष्ट्वा गाथार्द्ध राजा जगाद ७१. बाला चंकमंती पए पए कीस कुणइ मुहभंग ।
सूरिराह
नूणं रमणपएसे मेहलिया छिदई नहपंतिं ॥ ११ ॥ 10 इदं श्रुत्वा राजा मुखं निश्वासहतदर्पणसमं दधे-अमी मदन्तःपुरे कृतविप्लवा इति धिया । सचाचायः क्षणार्द्धनावगतम् । चिन्तितं च-अहो विद्यागुणोऽपि दोषतां गतः!। ____७२. जलधेरपि कल्लोलाश्चापलानि कपेरपि । शक्यन्ते यत्नतो रोद्धं न पुनः प्रभुचेतसः ॥ १२ ॥
रात्रौ सूरिः संघमप्यनापुच्छ्य राजद्वारकपाटसम्पुटतटे काव्यमेकं लिखित्वा पुरावहिर्ययौ । तद्यथा15 ७३. यामः स्वस्ति तवास्तु रोहणगिरे ! मत्तः स्थितिप्रच्युता, वर्तिष्यन्त इमे कथं कथमिति स्वप्नेऽपि मैवं कृथाः ।
श्रीमंस्ते मणयो वयं यदि भवल्लब्धप्रतिष्ठास्तदा, ते शृङ्गारपरायणाः क्षितिभुजो मौलौ करिष्यन्ति नः ॥१३॥ ७४. [*अस्मान् विचित्रवपुषश्चिरपृष्ठलग्नान् किं वा विमुञ्चसि विभो ! यदि वा विमुञ्च ।
हा हन्त ! केकिवर ! हानिरियं तवैव भूपालमूर्द्धनि पुनर्भविता स्थितिनः ॥१४॥ ७५. *हंस जिहिं गय तिहिं गया महिमण्डणा हवंति । छेहु तांह सरोवरह जं हंसे मुच्चंति ॥ १५॥] 20६३८) दिनैः कतिपयैगौंडदेशान्तर्विहरन् लक्षणावतीनाम्याः पुरों बहिरारामे समवात्सीत् ।
तत्र पुरि धर्मो नाम राजा । स च गुणज्ञः। तस्य सभायां वाक्पतिनामा कविराजोऽस्ति । तेन सूरीणामागमनं लोकादवगतम् । ज्ञापितश्च राजा । राज्ञा प्रवेशमहः कारितः। पूर्मध्येऽसौ' सौधोपान्ते गुरुस्तुङ्गगृहे स्थितः' । राजा नित्यं वन्दते । कवयो जिता रञ्जिताश्च । प्रभावना: प्रैधते स्म । यशश्च कुन्दशुभ्रम् । ['राजा प्रोचे25 ७६. अदृष्टे दर्शनोत्कण्ठा दृष्टे विरहभीरुता । दृष्टेन वाप्यदृष्टेन भवता नाप्यते सुखम् ॥ १६ ॥
निर्बन्धे सूरिराह-आमश्चेत्स्वयमायास्यति तदा वयं यास्यामो नान्यथा-इति प्रतिज्ञाय स्थापिताः पुण्यलाभं कुर्वन्ति ।] __इतश्च यदा बप्पष्टिः कृतविहारः प्रातः श्रीआमपार्श्व नायातस्तदा तेन सर्वत्रावलोकितो न लब्धः। राजा जातो विलक्षः। 'यामः स्वस्ति तवास्तु' इत्यादि काव्यं दृष्टम् । अक्षराण्युपल30क्षितानि । ध्रुवं स मां मुक्त्वा कापि गत एवेति निर्णीतम् । अन्यदा बहिर्गतेन राज्ञा "महाभुजङ्गमो दृष्टः । तं मुखे धृत्वा वाससाऽऽच्छाद्य सौधं गतः। कविवृन्दाय समस्यामर्पितवान्
1 BG छिनइ; PC छिवइ। 2P मनापृ०। * एतत्पद्यद्वयं P पुस्तके एवोपलभ्यते, नान्यत्र । 3 P नगर्याः । 4 BDP समवासार्षीत् । 5 BP नास्ति 'असौ'। 6 P स्थापितः। 7 AC नास्ति 'जिताः'। + P पुस्तक एवैष कोष्ठकगतः पाठः प्राप्यते। 8CP नास्ति। 9P काव्यानि दृष्टानि । 10P 'महा' नास्ति ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org