________________
बप्पभट्टिसूरिप्रबन्धः ।
७७. शस्त्रं शास्त्रं कृषिर्विद्या अन्यो यो येन जीवति ।
इति । पूरिता सर्वैरपि । न तु नृपश्चमच्चकार, हृदयाभिप्रायाकथनात् । तदा बप्पभहिं बाढ़ स्मृतवान् । सा हृदयसंवादिनी गीस्तत्रैव । अथ स पटहमवीवदत् । तत्रेदमधुषत् - यो मम हृद्गतां समस्यां पूरयति तस्मै हैमटङ्ककलक्षं ददामि । तदा गोपगिरीयो द्यूतकारः कश्चिद् गौडदेशं गतः । स बप्पभट्टिसूरीणामग्रे तत्समस्यापदद्वयं कथितवान् । सूरिणा पश्चार्द्ध पेठेसुगृहीतं च कर्तव्यं कृष्णसर्पमुखं यथा ॥ १७ ॥
इति । स हि भगवान् षड्विकृतित्यागी सिद्धसारखतो गगनगमनशक्त्या विविधतीर्थवन्दनशक्तियुक्तस्तस्य कियदेतत् । स द्यूतकारस्तत्पादद्वयं गोपगिरौ श्रीआमाय' निवेदितवान् । राजा वध्वान - अहो सुघटितत्वमर्थस्य ! । तं पप्रच्छ - केन केयं पूरिता समस्या ? | द्यूतकृदाहलक्षणावत्यां बप्पभट्टिसूरिणा ज्ञानभूरिणा इति । तस्योचितं दानं चक्रे ।
अन्यदा राजा नगर्या बहिर्ययौ । न्यग्रोधद्रुमाधः पान्थं मृतं ददर्श । शाखायां लम्बमानं करपत्रकमेकं विप्रुषां व्यूहं स्रवन्तं गाथार्द्ध च विशिष्टे ग्राणि लिखितं खटिकया' तदपश्यत् । ७८. तइया मह निग्गमणे पियाइ घोरंसुएहिं जं रुण्णं ।
३१
तदपि समस्यापादद्वयं राज्ञा कविभ्यः कथितम् । न केनापि सुष्ठु पूरितम् । राजा चिन्तयति स्म -
७९. वेश्यानामिव विद्यानां मुखं कैः कैर्न चुम्बितम् । हृदयग्राहिणस्तासां द्वित्राः सन्ति न सन्ति वा ॥ १८ ॥
हृदयग्राही स एव मम मित्रं सूरिवरः । स एव दौरोदरिको नृपेणोपसूरि प्रेषि । सूरिणाऽक्षिनिमेषमात्रेण पूरिता समस्या
Jain Education International
1 CP आमा । 2P नास्त्येतत्पदम् । 3 BCP कठिन्याऽपश्यत् । 4 P तेषां । 5P सिर । 6 BCG पचिवि । 7 C एहु; P प; G यहु । 8 AB वाक्यरस० । 9 C निग्रन्थि; P न गन्धि
5
करवत्तयबिंदुअनिवडणेण तं मज्झ संभरियं ॥ १९ ॥
20
तत्पुनद्यूतकाराच्छ्रुत्वा राज्ञा हृष्टेनोत्कण्ठितेन सुरेराह्नानाय वाग्मिनः सचिवाः प्रस्थापिताः । उपालम्भसहिता विज्ञप्तिश्च ददे । प्राप्तास्ते तत्र । दृष्टास्तैस्तत्र सूरयः । उपलक्ष्य वन्दिताः । राजविज्ञप्तिर्दत्ता । तत्र लिखितं वाचितं गुरुभिः
For Private & Personal Use Only
10
८०. न गङ्गां गाङ्गेयं सुयुवतिकपोलस्थलगतं न वा शुक्तिं मुक्तामणिरुरसिजस्पर्शरसिकः ।
न कोटीरारूढः स्मरति च सवित्रीं मणिचयस्ततो मन्ये विश्वं स्वसुखनिरतं स्नेहविरतम् ॥ २० ॥ ८१. छायाकारणि सिरि धरिय पञ्चवि भूमि पडंति । पत्तहं इहु' पत्तत्तणउं तरुअर कांइ करंति ॥ २१ ॥ सचिवा अप्यूचुः - स्वामिन्! आमराजो निर्व्याजप्रीतिर्विज्ञापयति- शीघ्रमागम्यायं देशो वसन्तावतं सितोद्यानलीलां लम्भनीयः । भवद्वागरसंलुब्धानामस्माकमितरकविवाग् न रोचते । ८२. कथासु ये लब्धरसाः कवीनां ते नानुरज्यन्ति कथान्तरेषु । न ग्रन्थिपर्णप्रणयाश्चरन्ति कस्तूरिकागन्धमृगास्तृणेषु ॥२२॥ तदाकर्ण्य लेखं दत्त्वा सूरिभिः सचिवाः प्रोचिरे - श्रीआमो गीष्पतिसमप्रज्ञ एवं भाषणीयः - 30
15
25
www.jainelibrary.org