________________
बप्पभट्टिसूरिप्रबन्धः।
२९ ६६. अनेकयोनिसम्पाताऽनन्तबाधाविधायिनी । अभिमानफलैवेयं राज्यश्रीः सा विनश्वरी ॥ ६॥ ६३७) ततो राज्ञाऽसौ तुङ्गे धवलगृहे स्थापितः । प्रातः सभामागताय बप्पभट्टये नृपेण सिंहासनं मण्डापितम् । तेन गदितम्-ऊर्वीपते ! आचार्यपदं विना सिंहासनं न युक्तम् । गुर्वाशातना भवेत् । ततो राज्ञा बप्पभहिः प्रधानसचिवैः सह गुर्वन्तिके प्रहितः । विज्ञप्तिका च' दत्ता-यदि मम प्राणैः कार्य तदा प्रसद्य सद्योऽयं महर्षिः सूरिपदे स्थाप्यः।
योग्यं सुतं च शिष्यं च नयन्ति गुरवः श्रियम् । स्थापितमात्रश्चात्र शिघ्र प्रेषणीयः । अन्यथाऽहं न भवामि । मा विलम्ब्यतामिति । अखण्डप्रयाणकैर्मोढेरकं प्राप्तः । सचिवैः सूरयो विज्ञप्ताः-प्रभो! राजविज्ञप्त्यर्थोऽनुसार्यः । उचितज्ञा हि भवादृशाः।
अथ श्रीसिद्धसेनाचार्यैप्पभहिः सूरिपदे स्थापितः। तदङ्गे श्रीः साक्षादिव सङ्कामन्ती दृष्टा । 10 रहश्च शिक्षा दत्ता-वत्स! तव राजसत्कारो भृशं भावी । ततश्च लक्ष्मीः प्रवस्य॑ति । तत इन्द्रियजयो दुष्करः । त्वं महाब्रह्मचारी भवेः । विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीरीः ।
अनेन महाव्रतेन महत्तरः स्फुरिष्यसि । ६७. एकादशाधिके तत्र जाते वर्षशताष्टके । विक्रमात्सोऽभवत्सूरिः कृष्णचैत्राष्टमीदिने ॥ ७॥ 15 गुरुणा आमराजसमीपे प्रेषितः । तत्र प्राप्तः । गोपगिरेः प्रासुकवनोद्देशे स्थितः। राजा अभ्यागत्य महामहेन तं पुरीं प्रावीविशत् । श्रीबप्पभटिसूरिणा तत्र देशना क्लेशनाशिनी दत्ता
६८. श्रीरियं प्रायशः पुंसामुपस्कारैककारणम् । तामुपस्कुर्वते ये तु रत्नसूस्तैरसौ रसा ॥८॥ आमेन गुरूपदेशादेकोत्तरशतहस्तप्रमाणः प्रासादः कारयामासे गोपगिरौ । अष्टादशभारप्रमाणं श्रीवर्द्धमानबिम्बं तत्र निवेशयांबभूवे । प्रतिष्ठा विधापयांचक्रे । तत्र चैत्ये मूलमण्डप: 20 सपादलक्षेण सौवर्णटङ्ककैर्निष्पन्न इति वृद्धाः प्राहुः । आमः कुञ्जरारूढः सर्वा चैत्यवन्दनाय याति । मिथ्यादृशां दृशौ सैन्धवेनेव पूर्येते सम्यग्दृशां त्वमृतेनेव । एवं प्रभावना । प्रातर्नुपो मौलमनय॑ स्वं सिंहासनं सूरये निवेशापयति । तद् दृष्ट्वा विप्रैः क्रुधा ज्वलितैर्भूपो विज्ञप्तःदेव ! श्वेताम्बरा अमी शुद्राः। एभ्यः सिंहासनं किम् । अथास्तां तत् । परं इसीयो भवतु । मुहर्मुहस्तैरित्थं विज्ञप्त्या कदर्थ्यमानः पार्थिवो मौलसिंहासनं कोशगं कारयित्वाऽन्यल्लघ्वारू-25 रुपत । प्रत्यूषे सूरीन्द्रेण तद् दृष्ट्वा रुष्टेनेव राज्ञोऽग्रे पठितम्६९. मर्दय मानमतङ्गजद विनयशरीरविनाशनसर्पम् । क्षीणो दादशवदनोऽपि यस्य न तुल्यो भुवने कोऽपि ॥९॥ इदं श्रुत्वा राज्ञा हीणेन तदा" भूयो मूलसिंहासनमनुज्ञातम् । अपराधः क्षमितः।
एकदा सपादकोटी हेम्नां दत्ता गुरुभ्यः। तैर्निरीहैः सा जीर्णोद्धारे ऋद्धियुक्तश्रावकपादि व्ययिता।
30
. 1P' नास्ति । 2 PC प्राप्तो बप्पमहिः। 30 भव। 4 P वीराः। 5 CD तां। 6 Boहस्तशतः। 7P बुधाः। 8 P सैन्धवेन। 9A हसायो (काष्ठमयः इति टिप्पनी); CP हस्खीयो। 10 P भवतु न महत्। 11 CP सदा ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org