Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 54
________________ बप्पभट्टिसूरिप्रबन्धः । ७७. शस्त्रं शास्त्रं कृषिर्विद्या अन्यो यो येन जीवति । इति । पूरिता सर्वैरपि । न तु नृपश्चमच्चकार, हृदयाभिप्रायाकथनात् । तदा बप्पभहिं बाढ़ स्मृतवान् । सा हृदयसंवादिनी गीस्तत्रैव । अथ स पटहमवीवदत् । तत्रेदमधुषत् - यो मम हृद्गतां समस्यां पूरयति तस्मै हैमटङ्ककलक्षं ददामि । तदा गोपगिरीयो द्यूतकारः कश्चिद् गौडदेशं गतः । स बप्पभट्टिसूरीणामग्रे तत्समस्यापदद्वयं कथितवान् । सूरिणा पश्चार्द्ध पेठेसुगृहीतं च कर्तव्यं कृष्णसर्पमुखं यथा ॥ १७ ॥ इति । स हि भगवान् षड्विकृतित्यागी सिद्धसारखतो गगनगमनशक्त्या विविधतीर्थवन्दनशक्तियुक्तस्तस्य कियदेतत् । स द्यूतकारस्तत्पादद्वयं गोपगिरौ श्रीआमाय' निवेदितवान् । राजा वध्वान - अहो सुघटितत्वमर्थस्य ! । तं पप्रच्छ - केन केयं पूरिता समस्या ? | द्यूतकृदाहलक्षणावत्यां बप्पभट्टिसूरिणा ज्ञानभूरिणा इति । तस्योचितं दानं चक्रे । अन्यदा राजा नगर्या बहिर्ययौ । न्यग्रोधद्रुमाधः पान्थं मृतं ददर्श । शाखायां लम्बमानं करपत्रकमेकं विप्रुषां व्यूहं स्रवन्तं गाथार्द्ध च विशिष्टे ग्राणि लिखितं खटिकया' तदपश्यत् । ७८. तइया मह निग्गमणे पियाइ घोरंसुएहिं जं रुण्णं । ३१ तदपि समस्यापादद्वयं राज्ञा कविभ्यः कथितम् । न केनापि सुष्ठु पूरितम् । राजा चिन्तयति स्म - ७९. वेश्यानामिव विद्यानां मुखं कैः कैर्न चुम्बितम् । हृदयग्राहिणस्तासां द्वित्राः सन्ति न सन्ति वा ॥ १८ ॥ हृदयग्राही स एव मम मित्रं सूरिवरः । स एव दौरोदरिको नृपेणोपसूरि प्रेषि । सूरिणाऽक्षिनिमेषमात्रेण पूरिता समस्या Jain Education International 1 CP आमा । 2P नास्त्येतत्पदम् । 3 BCP कठिन्याऽपश्यत् । 4 P तेषां । 5P सिर । 6 BCG पचिवि । 7 C एहु; P प; G यहु । 8 AB वाक्यरस० । 9 C निग्रन्थि; P न गन्धि 5 करवत्तयबिंदुअनिवडणेण तं मज्झ संभरियं ॥ १९ ॥ 20 तत्पुनद्यूतकाराच्छ्रुत्वा राज्ञा हृष्टेनोत्कण्ठितेन सुरेराह्नानाय वाग्मिनः सचिवाः प्रस्थापिताः । उपालम्भसहिता विज्ञप्तिश्च ददे । प्राप्तास्ते तत्र । दृष्टास्तैस्तत्र सूरयः । उपलक्ष्य वन्दिताः । राजविज्ञप्तिर्दत्ता । तत्र लिखितं वाचितं गुरुभिः For Private & Personal Use Only 10 ८०. न गङ्गां गाङ्गेयं सुयुवतिकपोलस्थलगतं न वा शुक्तिं मुक्तामणिरुरसिजस्पर्शरसिकः । न कोटीरारूढः स्मरति च सवित्रीं मणिचयस्ततो मन्ये विश्वं स्वसुखनिरतं स्नेहविरतम् ॥ २० ॥ ८१. छायाकारणि सिरि धरिय पञ्चवि भूमि पडंति । पत्तहं इहु' पत्तत्तणउं तरुअर कांइ करंति ॥ २१ ॥ सचिवा अप्यूचुः - स्वामिन्! आमराजो निर्व्याजप्रीतिर्विज्ञापयति- शीघ्रमागम्यायं देशो वसन्तावतं सितोद्यानलीलां लम्भनीयः । भवद्वागरसंलुब्धानामस्माकमितरकविवाग् न रोचते । ८२. कथासु ये लब्धरसाः कवीनां ते नानुरज्यन्ति कथान्तरेषु । न ग्रन्थिपर्णप्रणयाश्चरन्ति कस्तूरिकागन्धमृगास्तृणेषु ॥२२॥ तदाकर्ण्य लेखं दत्त्वा सूरिभिः सचिवाः प्रोचिरे - श्रीआमो गीष्पतिसमप्रज्ञ एवं भाषणीयः - 30 15 25 www.jainelibrary.org

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176