Book Title: Prabandh kosha Author(s): Rajshekharsuri, Jinvijay Publisher: Singhi Jain GyanpithPage 43
________________ प्रबन्धकोशे सूरये । यथा-भगवन् ! अस्यैव नगरस्यासन्नो ग्राम एक आसीत् । तत्र सुन्दरो नाम राजपुत्रो ग्रामणी'। तस्य द्वे पन्यो । एका प्रथमां पुत्री प्रास्त, अखिद्यत च। तदैव सपन्यप्यासन्नप्रसवा वर्तते । मा स्म इयं पुत्रं प्रसूय भर्तुः सविशेषं वल्लभा भूत्-इति स्त्रीत्वोचितया तुच्छ्या बुद्ध्या सूतिकामेकामवोचत-यदा इयं मे सपत्नी प्रसवकाले दैववशात्त्वामाह्वयति, तदा त्वया परस्था5 नात्प्रथमं सङ्गृहीतं मृतं कश्चिदपत्यं तत्र सञ्चार्यम् । तज्जातकं चेत्पुत्रो भवति तदा स्वयं गृहीत्वा ग्रामारे व्युत्स्रष्टव्यम् । इदं हेम गृहाण-इति सूत्रणां चक्रुषी । विधिवशात्तत्र तत्तया तथैव कृतम् । राजपुत्रो जातमात्रो ग्रामाद्दूरे क्षिप्तो ही। स राजपुत्रः पुण्याधिक इति तत्कुलदेवतया धेनुरूपेण दुग्धं दत्त्वा पालयन्त्याऽष्टवर्षदेशीयः कृतः । अत्रैव ॐकारनगरे शिवभवनाधिकारिणा भरटकेन दृष्टः, आलापितः, वां दीक्षां ग्राहितः । अन्यदा कन्यकुब्जदेशाधिपतिर्नरेन्द्रो 10 जात्यन्धो दिग्विजयकार्येण प्रत्यासन्नः समावासितः। रात्री लघुभरटकस्य शिवादेशः सञ्जातःत्वया कन्यकुब्जेशाय शेषा देया । तयाऽसौ सज्जाक्षो भावी । तद्वाक्यं लघुव॒हद्गुरवे समाख्याय तदाज्ञया शेषामादाय स्कन्धावारमध्यमेत्य राजामात्यानुवाच-भो! भो! खनाथमस्म. त्सम्मुखमानयध्वम् । यथा सद्यः कमलदलललितं खविषयग्रहणक्षमाक्षं कुर्महे । ततोऽमात्य नुन्नो राजा तत्रायातः । ऋषिदत्तां शेषामादायाक्ष्णोर्निवेश्य सज्जाक्षो जातः । प्रीतः' भक्त्या 15 ग्रामशतानि शासनेऽदात् । अत्रैव च ॐकारे इममुत्तुङ्गं प्रासादमचीकरत् । वयमिह पुरे वसामः । जैनः प्रासादः कारयितुं न लभ्यते । मिथ्यादृशो बलिनः । तस्मात्तत्कुरु येन इतोऽधिकं तङ्ग रम्यं चैत्यं निष्पद्यते । बली त्वमेवेति । तद्वचनं श्रुत्वा वादी अवन्तीमागत्य चतुःश्लोकी हस्ते कृत्वा विक्रमादित्यद्वारमेत्य द्वास्थेनोपराजं श्लोकमचीकथत् । स तेन कथितो यथा ४५. दिक्षुर्भिक्षुरायातस्तिष्ठति द्वारि वारितः । हस्तन्यस्तचतुःश्लोक उतागच्छतु गच्छतु ॥ १९॥ 20 तं श्लोकं श्रुत्वा विक्रमादित्येन प्रतिश्लोकः कथापितो यथा ४६. दत्तानि दशलक्षाणि शासनानि चतुर्दश । हस्तन्यस्तचतुःश्लोक उतागच्छतु गच्छतु ॥ २० ॥ वादिना तं श्लोकं श्रुत्वा द्वास्थद्वारेण भाणितं राजे-दर्शनमेव भिक्षुरीहते नार्थम् । ततो राज्ञा खदृष्टौ आहूतः। उपलक्षितो भाषितश्च-भगवन् ! किमिति चिराद् दृश्यध्वे ? । आचार्य रुक्तम्-धर्मकार्यवशाचिरादायाताः । श्लोकचतुष्टयं शृणु । राज्ञि शृण्वति पठितं तत् । यथा25 ४७. अपूर्वेयं धनुर्विद्या भवता शिक्षिता कुतः । मार्गणौषः समभ्येति गुणो याति दिगन्तरम् ॥ २१ ॥ ४८. सरस्वती स्थिता वक्त्रे लक्ष्मीः करसरोरुहे । कीर्तिः किं कुपिता राजन् ! येन देशान्तरं गता ॥ २२॥ ४९. कीर्तिस्ते जातजाड्येव चतुरम्भोधिमजनात् । आतपाय धरानाथ ! गता मार्तण्डमण्डलम् ॥ २३॥ ५०. सर्वदा सर्वदोऽसीति मिथ्या संस्तूयसे जनैः । नारयो लेभिरे पृष्ठं न वक्षः परयोषितः ॥ २४ ॥ श्रुत्वा तुष्टो विक्रमश्चतुरो गजान् यथासंख्यं वसन-सुगन्धद्रव्य-हेमनाणक-हारादिपूर्णान्30 आनाय्य सूरिमभाणीत्-इमे गृह्यन्ताम् । सूरिरूचे-नैतदर्थ्यहम् । पुनर्विक्रमो भणतिमन्महीसारभूतांश्चतुरो देशान् खैरमादत्व । वाद्याह-इदमपि नेच्छामि। तर्हि किमिच्छसीति?। श्रूयताम्-ॐकारे चतुर्दारं जैनप्रासादं शिवप्रासादादुच्चं कारय । स्वयं सपरिच्छदा 1P राजपुत्राग्रणीः। 2 P राजपुत्रोऽपि। 3 B नास्ति 'प्रीतः। 4 BCE द्वारि तिष्ठति वारितः। 5 CD राज्ञः। Jain Education Intemational For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176