Book Title: Prabandh kosha Author(s): Rajshekharsuri, Jinvijay Publisher: Singhi Jain GyanpithPage 38
________________ १५ वृद्धवादि-सिद्धसेनयोः प्रबन्धः । ६. अथ श्रीवृद्धवादि-सिद्धसेनयोः प्रबन्धः । ६२३) विद्याधरेन्द्रगच्छे श्रीपादलिप्तसूरिसन्ताने स्कन्दिलाचार्याः साधितजैनकार्याः पुस्फुरुः। ते यतनया विहरन्तो गौडदेशं ययुः। तत्र कोशलाख्यग्रामवासी मुकुन्दो नाम विप्रः । स तेषां सूरीणां मिलितः। इत्थं देशनामश्रौषीत्२७. भोगे रोगभयं सुखे क्षयभयं वित्तेऽग्निभूभृद्भयं, दास्ये स्वामिभयं गुणे खलभयं वंशे कुयोषिद्भयम् । ___ स्नेहे वैरभयं नयेऽनयभयं काये कृतान्ताद्भयं, सर्व नाम भयं भवे यदि परं वैराग्यमेवाभयम् ॥ १॥ श्रुत्वा भवोद्विग्नश्चारित्रं गृहीत्वा गुरुभिः समं भृगुपुरं गतः । स मुकुन्दमुनिस्तारखरेणाधीते । रात्रौ साधूनां निद्राभङ्गो भवति । ततस्तान दुर्मनायमानान् ज्ञात्वा गुरुभिः पठन्निषिद्धोऽसौ । यथा-वत्स! नमस्कारान् गुणय । रात्रावुच्चैर्भाषणे हिंस्रजीवजागरणादनर्थदण्डो मा भूदिति । ततो दिवापठने श्रावक-श्राविकादीनां कर्णज्वरो भवति । केनाप्युक्तम्-किमय-10 मियद्वयाः पठित्वा मुशलं पुष्पापयिष्यति । तच्छ्रुत्वा मुकुन्दः खिन्नः। सद्यो महाविद्यार्थी एकविंशत्योपवासैर्जिनालये ब्राह्मीमारराध । तुष्टा सा प्रत्यक्षीभूय जगाद-सर्वविद्यासिद्धो भव । ततः कवीन्द्रीभूय स्वगुर्वन्तिकमागत्य सङ्घसमक्षमक्षामखरेण बभाण-यन्ममोपहास: केनापि कृतः-'यदयं किं मुशलं पुष्पापयिष्यति?' विलोकयत लोकाः! मुशलं पुष्पापयामि । इत्युक्त्वा मुशलमानाय्य चतुष्पथे स्थित्वा तत्पुष्पापयामास, मन्त्रशक्तिमाहात्म्यात् । स्कन्ध- 15 स्थितेन तेन भ्रमति पठति च२८. पत्तमवलंबियं तह जो जंपइ फुल्लए न मुसलमिह । तमहं निराकरित्ता फुल्लइ मुसलं ति ठामि ॥२॥ तथा२९. मद्गोः शृङ्गं शक्रयष्टिप्रमाणं शीतो वह्निर्मारुतो निष्पकम्पः । __ यस्मै यद्वा रोचते तन्न किञ्चित् वृद्धो वादी भाषते कः किमाह ॥ ३॥ अप्रतिमल्लो वादी सोऽभूत् । स्कन्दिलाचार्यैः स्वपदे निवेशितः। 'वृद्धवादी' इति ख्यातं तन्नाम । स्कन्दिलाचार्याः समाधिमृत्युरथेन द्यामगमन् । ६२४) एकदा वृद्धवादी भृगुपुरं गच्छान्नास्ते। इतश्चावन्त्यां विक्रमादित्यो राजा । यस्य दानानि३०. अष्टौ हाटककोटयस्त्रिनवतिर्मुक्ताफलानां तुलाः, पञ्चाशन्मदगन्धलुब्धमधुपक्रोधोद्धराः सिन्धुराः । ___ लावण्योपचयप्रपञ्चितदृशां पण्याङ्गनानां शतं, दण्डे पाण्ड्यनृपेण ढौकितमिदं वैतालिकस्यार्प्यताम् ॥ ४॥ 25 इत्यादीनि ख्यातानि । तस्य राज्ये मान्यः कात्यायनगोत्रावतंसो देवर्षिर्द्विजः । तत्पत्नी देवसिका। तयोः सिद्धसेनो नाम पुत्रः । सँ प्रज्ञाबलेन जगदपि तृणवद्गणयति;प्रज्ञायाश्च इयत्ता नास्ति । जगति ततः पठ्यते३१. मिता भूः पत्यापां स च पतिरपां योजनशतं, सदा पान्थः पूषा गगनपरिमाणं कलयति । इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः, सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते ॥ ५॥ 30 येन वादे जीये तस्याहं शिष्यः स्याम्-इति प्रतिज्ञा तस्य । क्रमेण वृद्धवादिनः कीर्ति श्रुत्वा स 1 BC कवीन्द्रो भूत्वा। 2 AB स्कन्धस्थाने। P वाचेमि। 4 AP मनोशः। 5A वाराजानानां। 6A वैतालिकायार्पितं; C स्यार्पितम् । 20 Jain Education Intemational For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176