Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 37
________________ प्रबन्धकोशे कथमेति श्रीपार्श्वनाथः । वासुकिना पादलिप्तेन च प्रोक्तम्-उत्पाट्यानय गगनाध्वना । गतो नागार्जुनः कान्तीम् । तत्र चैत्यं पृच्छति । तत्र धनपतिश्रेष्ठी चैत्यगोष्ठिकः । तस्याग्रे नैमित्तिकेन प्रोक्तम्-पार्श्व रक्षेः; धूर्त एकस्तद्धरणाय भ्रमन्नस्ति । स सचतुष्पुत्रो देवं रक्षति । नागार्जुनस्तत्र गतः । तेषु रक्षत्सु हरणावसरो नास्ति । तैरेव सह नागार्जुनेन प्रीतिरारेभे । 5 विश्वास उत्पन्नः। आरात्रिकमङ्गलदीपकसमये पितृपुत्रेषु प्रणामाधोमुखेषु पार्श्व खेन गृहित्वा गतो नागार्जुनः। सेडीसंज्ञनदीतटे श्रीपार्श्वदृष्टौ रसः स्तम्भितः, स्तम्भनक नाम तत्तीर्थ पप्रथे, स्तम्भनपुरं नाम पुरं च। २२) अथ श्रीपादलिप्ताचार्याः प्रतिष्ठानपुरं दक्षिणाशामुखभूषणं गोदावरीनदीतरङ्गरगञ्जलकणहृतपान्थश्रमभरं जग्मुः । तत्र सातवाहनो राजा विदुषां योधानां दानशौण्डानां 10 भोगिनां च प्रथमः।तस्य सभायां वार्ताऽभूत्, यथा-पादलिप्ताचायोंः सर्वविद्यावनितावदनरत्नदपणाः समागच्छन्तः सन्ति प्रातः । ततः सर्वैः पण्डितैः सम्भूय स्त्यानघृतभृतं कचोलकमर्पयित्वा निजः पुरुष एक आचार्याणां सम्मुखः प्रेषितः । आचार्यैर्घतमध्ये सूच्येका क्षिप्ता; तथैव च प्रतिप्रेषितं तत् । राज्ञा स वृत्तान्तो ज्ञातः। पण्डिताः पृष्टाः-घृतपूर्णकच्चोलकप्रेषणेन व को भावः। तैरुक्तम्-एवमेतन्नगरं विदुषां पूर्णमास्ते, यथा घृतस्य वर्तुलकम् ; तस्माद्विमृश्य प्रवेष्टव्यम्15 इति भावो नः । राज्ञा निगदितम्-तर्हि आचार्यचेष्टाऽपि भवद्भिर्जायताम्-यथा निरन्तरेऽपि घृते निजतिक्ष्णतया सूची प्रविष्टा, तथाऽहमपि विद्वन्निबिडे नगरे प्रवेक्ष्यामि-इति दध्वनुः । पण्डिताः सर्वे राजेन्द्रोऽपि संमुखं गताः । सुरसरिल्लहरिहारिण्या वाण्या तुष्टुवुः । नगरमानीतो गुरुः। निर्वाणकलिका-प्रश्नप्रकाशादिशास्त्राणि सन्ददर्भ । एकाच तरडग्लोलां नाम चम्पूं राज्ञोऽग्रे नवां निर्माय सदसि व्याचख्ये प्रभुः । तुष्टो" राजा । भवत्ययं कवीन्द्रः। 20 २५. शाणोत्तीर्णमिवोज्वलद्युति पदं बन्धोऽर्द्धनारीश्वरः, श्लाघालङ्घनजाचिको दिवि लतोद्भिन्नेव चार्थाद्गतिः। ' ईषञ्चूर्णितचन्द्रमण्डलगलत्पीयूषहृयो रस- स्तत्किञ्चित्कविकर्ममर्म न पुनर्वाडिण्डिमाडम्बरः ॥ ८॥ इत्येवं कवयोऽपि तुष्टुवुः । एका तु वेश्या विदुषी राजसभ्या गुणज्ञाऽपि सूरीन्द्रान स्तौति । ततो राज्ञा भणितम्-वयं सर्वे तुष्टाः, स्तुमः सर्वे'; केवलमियमेका न स्तौति । तत्क्रियतां येन स्तुते । तदाकये सूरयो वसतिमाययुः । रात्री गच्छसम्मत्या कपटमृत्युना मृताः, पवनजयसाम25 र्थ्यात् । [ विद्याबलात्" ] शवयानमाश्रितः सूरिः । चातुर्वर्ण्य रोदिति । वेश्यागृहद्वारे नीतं शबयानम् । वेश्याऽपि तत्रागता रुदती वदति - २६. सीसं कहवि न फुटुं जमस्स पालित्तयं हरंतस्स । जस्स मुहनिज्झराओ तरङ्गलोला नई बूढा ॥९॥ पुनरजीवत्प्रभुः । वेश्ययाऽभाणि-मृत्वाऽऽत्माऽस्तावि!। 'मृत्वापि पश्चमो गेयः' इति किं न श्रुतम् । अथ प्रभुः शत्रुञ्जये रदनसंख्योपवासानशनेन ईशानेन्द्रसामानिकत्वेनोदपद्यतेति । ॥ इति श्रीपादलिप्ताचार्यप्रबन्धः॥५॥ 1 'स' नास्ति ABI 2A आरात्रिकप्रदीपमङ्गलसमये। 3 PB पितापु०। 4A 'तत्' नास्ति; BD ततः। 5 AC सम्पूर्णः। 6 CP प्रेषणे। 7 BP विदुषैः। 8P नास्ति सर्वे। 9CD गतः। 10 BCP तुतुषुः। 11 P नास्तीदं वाक्यं। 12 P नास्ति। 13 A आदर्श एवैतत्पदं दृश्यते। 14 A आरोपितः। 15 A वक्ति । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176