Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 29
________________ प्रबन्धकोशे इत्याशिषं ददौ । इतश्चालिञ्जरपत्न्या तर्वन्तरितस्थितया तस्यास्तदाशीर्वचनं श्रुतम् । स्वस्थानमेत्य खभत्रै निवेदितं च । वैरोट्या स्वगृहमागता । ततो रात्रौ वैरोट्याप्रातिवेदिमक्याः स्त्रियाः खमे नागपन्या कथितम्-भद्रे! अहं अलिञ्जरनागपत्नी । मदीया तनया वैरोव्या। तस्याः पायसदोहदोऽस्ति, स त्वया पूरणीयः । तथा तस्याने कथनीयम्-तव पितुर्ग्रहं नास्ति, परमहं 5 पितृसमानोपकारं करिष्यामि, श्वश्रूपराभवाग्नितापमुपशमयिष्यामि । तया प्रातिवेश्मिक्या प्रातर्वैरोट्या क्षीरान्नं भोजिता । सम्पूर्णदोहदा सुतमजीजनत् । नागकान्तयाऽपि सुतशतमसूयत। वैरोट्यापुत्रनामकरणदिने पन्नगेन उत्सवः कारितः । यत्र पितृगृहं पूर्व स्थितं तत्र धवलगृहं कारयित्वा पातालवासिभिर्नागैरलङ्कृतम् । गजा-ऽश्व-वरवाहन-पदाति-वर्गसहिता नागलोकाः समाययुः। तस्या गृहं लक्षया संकीर्ण चक्रुः । ['अलिञ्जरपत्नी पतिना (पत्या?) 10 पुत्रैश्च युता दिव्यवस्त्र-पट्टकूल-वर्ण-रत्न-खचितसर्वाङ्गाभरणादिकं सर्व मनोज्ञं वस्तुसमूहं वैरो व्यायाः प्रतिपन्नसुतात्वेन पूरयति । वैरोट्या अलिश्नरपत्नीगृहे नित्यं यात्यायाति च । अलिअरपल्याऽतीव मान्यते, पूज्यते वैरोव्या।] श्वश्रूस्तथारूपं पितृगृहमेलापकमिव दृष्ट्वा ['तां वैरोट्यां] वधू सत्कर्तुमारेभे-लोकः पूजितपूजकः' । वैरोव्याया रक्षार्थ नागवध्वा [खिकीयलघवः शतं पुत्राः] सर्पका समर्पिताः। तया सो घटे क्षिप्ताः। तत्र च कयापि कर्मकर्या अग्नितप्तस्थाली15 मुखे सर्पघटो दत्तः । ['तत्क्षणमेव] वैरोट्ययोत्तारितः। पानीयेनाभिषिक्तास्ते ततः स्वस्थाः सम्पन्नाः । एकस्तु शिशुर्विपुच्छो जातः । यदा स' स्खलति क्षौति, तदा वैरोट्या ब्रूते-बण्डो जीवतु । वैरोट्या जातकस्य लेहेन मोहितास्ते सर्वे बान्धवरूपाः सर्पाः क्षौमरत्नखर्णादि दत्त्वा नामकरणं च कारापयित्वा यथास्थानं ययुः । वैरोट्या नागप्रभावात् गौरवपात्रं जाता। अन्यदाऽलिञ्चरः स्वपुत्रं पुच्छरहितं दृष्ट्वा चुक्रोध । [मिम पुत्रः केन दुरात्मना विपुच्छः 20 कृतः। ततो वैरोव्यया कृतो विपुच्छो मे पुत्रः-इत्यवधिना ज्ञात्वा वैरोट्याया उपरि पूर्व सुप्रसन्नोऽपि चुकोप । ] कुपितः सन् विरूपं कर्तु अवधिना" ज्ञात्वा वैरोट्यागृहमगमत् । अलिञ्जरो गूढतनुहमध्ये स्थितः। यदा वैरोट्या ध्वान्तभरे सति गृहापवरकमध्ये प्रविष्टा, तदा तयोक्तम्-चण्डो जीवतु चिरम् । तच्छ्रुत्वा नागराजः सन्तुष्टस्तस्यै नुपूरे ददौ। अद्यप्रभृति वत्से! त्वया पाताले आगन्तव्यम् , नागाश्च त्वद्गृहमेष्यन्ति-इति प्रसादः कृतः। सा वैरोव्या पाताले 25 गमनागमनं करोति, नागवरात् । ["नागदत्तः' इति नाम दत्तं पुत्रस्य । तदा पद्मदत्तो वैरोव्याश्वशुरः श्रीआर्यनन्दिलक्षपकैरेवमुक्तः-त्वया खवध्वाऽग्रे कथनीयम् , नागाश्रयं गतया त्वया नागा वक्तव्या, भवद्भिर्लोकस्यानुग्रहः कर्तव्यः । कोऽपि न दंष्टव्यः । तत्सूरिवचनं श्वशुरेण तस्यै, तया च नागेभ्यः कथितम् । तत्र गता च वैरोट्या एवमुच्चैर्जगौ-सालिअरपत्नी जीयात् । सोऽलिञ्चरोजीयात । येनाहमपितगृहाऽपि" सपितगृहा कता। अनाथाऽपि सनाथा सन्चाता। भो 80 भो नागकुमाराः! आर्यनन्दिलेन महात्मना एवमादिष्टम्-लोको न पीडयितव्यः। [लोकस्यानुग्रहः कार्यः] वैरोट्या पुनरपि खगृहं गता । गुरुणा 'वैरोव्यास्तवो' नवो विरचितः। यो वैरोव्या___1 AC 'च' नास्ति । 2 P पितृकुलं । 3 AB नामकरणनामदिने। 4 ABD वासिभिरधिकृतं नागैः। 5 P विना 'लक्ष्म्या' नास्ति । + P विनाऽन्यत्र नास्ति कोष्टकान्तर्गत एष पाठः। 6P तथाविधं। 7 CD सर्पाः। 8 AB सुस्थाः। 9AC यदासौ। 10 P शितौ। 11 P च कारयित्वा । 12-13 P नास्ति। 14 B गृहमध्यं । 15 P विनाऽन्यत्र नास्ति । 16 AB करणीयः। 17 AB 'अहमपि सपितृगृहा' इत्येव । 18 ABD जाता। P विना नास्त्यन्यत्रैष पाठः । Jain Education Intemational For Private & Personal Use Only Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176