Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 25
________________ प्रबन्धकोशे बन्धास्त्रयः, एवं चतुर्विशतिः। १ भद्रबाहु-वराहयोः, २ आर्यनन्दिलक्षपकस्य', ३ जीवदेवसूरीणाम् , ४ आर्यखपटाचार्याणाम् , ५ पादलिप्तप्रभूणाम् , ६ वृद्धवादि-सिद्धसेनयोः, ७ मल्लवादिनः, ८ हरिभद्रसूरीणाम् , ९ बप्पटिसूरीणाम् , १० हेमसूरीणाम् , ११ श्रीहर्षकवेः, १२ हरिहरकवेः, १३ अमरचन्द्रकवेः, १४ दिगम्बरमदनकीर्तिकवेः, १५ सातवाहन-१६वकंचूल-१७ विक्रमादित्य5१८ नागार्जुन-१९ उदयन-२० लक्षणसेन-२१ मदनवर्मणाम् , २२ रन-२३आभड-२४ वस्तुपालानां चेति । एषु प्रथमं भद्रबाहु-वराहप्रवन्धः। १. भद्रबाहु-वराहप्रबन्धः । ६३) दक्षिणापथे प्रतिष्ठानपुरे भद्रबाहु-वराहाह्रौ द्वौ द्विजौ कुमारौ निर्धनौ निराश्रयों प्राज्ञी वसतः। तत्र यशोभद्रो नाम चतुर्दशपूर्वी समागतः। भद्रबाहु-वराही तद्देशनां शुश्रुवतुः। यथा10 १. भोगा भङ्गुरवृत्तयो बहुविधास्तैरेव चायं भवस्तत्त्वस्येह कृते परिभ्रमत रे ! लोकाः! सृतं चेष्टितैः। ___ आशापाशशतोपशान्तिविशदं चेतः समाधीयतां काप्यात्यन्तिकसौख्यधामनि यदि श्रद्धेयमस्मद्वचः॥१॥ एतच्छ्रवणमात्रत एव प्रतिबुद्धौ गृहं गत्वा तौ मन्त्रयेते स्म-जन्म कथं वृथा नीयते। तावद्भोगसामग्री नास्ति, तर्हि योगः साध्यते। २. अग्रे गीतं सरसकवयः पार्श्वतो दाक्षिणात्याः पृष्ठे लीलावलयरणितं चामरग्राहिणीनाम् । 15 यद्यस्त्येवं कुरु भवरसास्वादने लम्पटत्वं नो चेञ्चेतः! प्रविश सहसा निर्विकल्पे समाधौ ॥ २॥ -इति विमृश्य द्वावपि बान्धवौ प्रवव्रजतुः। ४) भद्रबाहुश्चतुर्दशपूर्वी षट्त्रिंशद्गुणसम्पूर्णः सूरिरासीत् । दर्शवकालिक-उत्तराध्ययनदशाश्रुतस्कन्ध-कल्प-व्यवहार-आवश्यक-सूर्यप्रज्ञप्ति-सूत्रकृत-आचाराङ्ग-ऋषिभाषिताख्यग्र न्थदशकप्रतिबद्धदशनियुक्तिकारतया पप्रथे, "भाद्रबाहवीं नाम संहितां च व्यरचयत् । तदा 20 आर्यसम्भूति विजयोऽपि चतुर्दशपूर्वी वर्तते । श्रीयशोभद्रसूरीणां वर्गगमनं जातम् । भद्रबाहु सम्भूतिविजयौ लेहपरौ परस्परं भव्याम्भोरुहभास्करौ विहरतो" भरते पृथक् पृथक् । वराहोऽपि विद्वानासीत् । केवलमखर्वगर्वपर्वतारूढः सूरिपदं याचते भद्रबाहादसहोदरपार्धात् । भद्रबाहुना भाषितः सः-वत्स! विद्वानसि, क्रियावानसि, परं सगर्वोऽसि । सगर्वस्य सूरिपदं न दनः। एतत्सत्यमपि तस्मै न सखदे। यतो 'गुरुवचनममलमपि सलिलमिव" महदुपजनयति 25 श्रवणस्थितं शूलमभव्यस्य' । ततो व्रतं तत्याज । मिथ्यात्वं गतः पुनर्द्विजवेषं जग्राह । ६५) व्रतावस्थाऽधीतशास्त्रार्थज्ञतया वाराहसंहितादिनवीनशास्त्ररचनायां प्रजगल्भे"; लोकेषु च जगाद-अहं बाल्ये लग्नमभ्यस्यामि स्म। तद्विचार एव लीनस्तिष्ठामि स्म । एकदा प्रतिष्ठानाद्वहिः शिलायामेकस्यां लग्नं मण्डयामि स्म । सायममृष्ट एव तस्मिन् खस्थानमागत्य स्खपिमि स्म । सुप्तोऽहं तल्लग्नममृष्टं स्मरामि स्म । ततो माटुं तत्र यामि स्म । तत्र लग्नाधिष्ठिते शिलातले 30 पश्चानन उपविष्टोऽभूत् । तथापि तदुदरदेशे करं निक्षिप्य मया तल्लग्नं मृष्टम् । तावता" पश्चाननः ____ 1 Pक्षपणकस्य । 2 Bखपुटा। 3 B बप्पहट्टि; C बप्पभट्टः। 4 A वज्रः। 50 रखश्रावकः। 6P तेषु । 7AB 'वराह' नास्ति । 8C निराश्रियौ। 9C तत्र च। 10 C श्रितं । 11C गृहे। 12 CP भद्रः। 13 AB संभूतः। 14 BC विहरतौ। 15 BC नास्त्येतत्पदम्। 16 P प्रगल्भे। 17 A तावत् । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org For Private & Personal Use Only

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176