Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 23
________________ अमरकीर्तिविरचितभाष्योपेता वारिधिण्यतेऽधुना ॥२३॥ अधुना इदानी घारिधियेते कथ्यते । केन ? भाष्यक; मुनिश्रीमदभरकीर्तिना । साम्प्रतं समुद्रनामानि भारभ्यन्ते-- स्रोतस्विनी धुनी सिन्धुः सवन्ती निम्नगाऽपगा । नदी नदो द्विरेफश्च सरिनामा तरङ्गिणी ॥२४॥ एकादश नद्याम् । स्रोतः प्रवाही पुस्त्यस्याः स्रोतस्विनी। धुनौति कम्पते धुनिः। नियामीः । धुनी । स्यन्दति जले चलति सिन्धुः । त्रिषु । "स्यन्देः२ सम्प्रसारणं धन ।” तटेभ्यो जलं सवति यन्ती। निम्नं गच्छति निम्नगा। श्रा समन्तादाप्नोति अभिरगति वा श्रापगा । आपेन वा गच्छति प्रापगा। नदत्यव्यक्तं शब्दं करोति नदी। नदति नदः । "अचः पचादिभ्यश्च" च । द्वौ रेफी तटी यस्य द्विरेफः । १० सरति समुद्रं गच्छति सारित् । तान्तम् । तरङ्गाः सन्त्यस्यां तरङ्गिणी । तटिनी, निरिणी, कुलङ्कामा, शेवलिनी, सरस्वती, समुद्रकान्ता, हादिनी, स्रोतः, कषुः", कुल्या, द्वीपवती. रोधीवक्त्रा । तत्पतिश्च भवत्यब्धिः, तस्या धुन्याः पतिथुनीपतिरित्यादिसमुद्रनामानि भवन्ति । स्रोतस्विनीपतिः, धुनीपतिः, सिन्धुपतिः, सवन्तीपतिः, निम्नगापतिः, श्रापगापतिः, नदीपतिः, नदपतिः, द्विरेफपतिः,सरित्पतिः,तरङ्गियोपतिः । पारावारोऽमृतोद्भवः । अपारवारकूपारौ रनमीनाभिधाऽकरः ॥२५॥ समुद्रो चारिराशिश्च सरस्थान् सागरोऽर्णयः । नव समुद्रे । पारमाणोति पारावारः। अतस्योद्भवः अमृतोद्भवः । अपार वार् जलं यत्राऽसौ अपारवाः । न कुं पृणोति मर्यादापालनादकूपारः । इलायुधे-"न कुं पृथिवी पिपर्ति व्या२० प्नोतीति अकूपारः।" अकूवारोऽपि । रत्नमीनशब्दयोरगे आकर प्रयुज्यमाने समुद्रनामानि भवन्ति । रत्नाकरः, पृथरीमाकरः, घडक्षोणाकरः, यादाकरः ६, वैसारिणाकरः, झपाकरः, विसाधाकरः, शकराकरः, मीनाकरः, पाटीनाकरः, निमिषाकरः, तिन्याकरः । 'उन्दी क्लेदने सम्पूर्वः । समन्तादुनत्त्यस्मादिति समुद्रः । ""सावितश्विर्वाञ्चशकिक्षिपिक्षुदिरुदिमदिमन्दिच शुन्दीन्दि-यो रक"" अनिदनुबन्धानाम गुणेऽनुषङ्गः । तथा च हलायुधे --"मुदन्ति मिश्रीभवन्ति भौमाऽन्तरीक्षनादेयजलान्यत्रसमुद्रः।" २५ अमरसिंह- १ 'समुनत्ति समुहः'' । वारीणां जलानां राशिरिराशिः । सरांसि जलप्रसारणानि सन्त्यस्य सरस्थान् । सागरस्यापत्यं सागरः, सगरतनयः खातत्वात्। श्रणांसि सन्त्यस्य अर्णवः । -- - - - - - - - - -- - - - - - -... . .. - १. धुनोति कम्पयति वेतसादीन् । धुञ् कम्पने । विप् । पृषोदरादित्वाइक ! नान्तत्यान्डीप धुनी इति रामाश्रमः । २. कार उ०१७। ३. अभिरगतीति विग्रहेपः पकारस्य बदस्वाभावोऽकारस्य दीर्घरवं च पृषोदरादित्यैन निपातासाध्यम् । ४. का० सू० ४।२१४८ । ५. अत्र कर्पूरिति दीघोंकारान्तपाठो शुक्तः । तदुक्तम् -कषू नदी करोषाग्न्योरिति शाश्वतः ६७२ । ६. यादत् शब्दस्य सकारान्तत्वाद् याद श्राकर इत्येव न तू यादाकरः । ७. समन्तादुनत्ति आकरोति भूभागानेतावानेव विग्रहः । अत्रास्मादित्यपा. दानार्थष्टोकोक्तो नापेक्षणीयः । समीचीना मुद्रा जलचरविशेषा यस्मिन् सह मुट्या मर्यादया वर्तते वेति व्युत्पश्यन्तरमप्यूत्यम् । ८, का० उ० २।१४ । ६. का० स० ३।६।१ । १०. मुद संसर्गे चुरादिः सम्पूर्वः । कथादावदन्ते तत्पाठाच्चुरादिणिचो वैकल्पिकवान्मुदन्तीत्यपि पझे । सभी मकारलोपः पृषोदरादित्वात्तत्र बोध्यः । ११. क्षी० भा. १।६।११

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150