Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
अमरकीर्तिविरचितभाष्योपेता नूनश्च । सधै त्रिषु ।
पुराणं जठरं जीणं प्राक्तनं सुचिरन्तनम् ॥ १५६ ।। पञ्च पुरातने । पुरा भवम् पुराणम् । जठ इति सौत्रोऽयं धातुः । जठतीति जठरम्' । जीर्यते जीर्णम् । प्राक् पूर्व भवम् प्राकनम् । सुष्ठ चिरं भवं सुचिरन्तनम् । प्रतनम् । प्रत्नम् ।
भो रे हं हो यामन्त्र ___ एते शब्दा आमन्त्रणार्थे वर्तन्ते । भू सत्तायाम् | भोः । रेपृ प्लबगतौ । रे। हनु हिंसागयोः । हं । हु दाने 1 हो । हि गतौ । है।
कश्चित् किञ्चन संशये। ___सन्देहाथै द्वौ शन्दी वर्तते । अविशेषाभिधाने चिच्चनशब्दो अवगन्तव्यो। तथा चोक्तन५० "किमः सर्वविभवत्यन्ताविश्वनौ ।” कश्चित् । कश्चन | कौचित् । फौचन | केचित् । कंचन इत्यादि । स्त्रियां काचित् काचन इत्यादि । क्लीवे किजित् । किञ्चन । इत्यादि ।
"द्राक्क्षणेऽहाय" सपदि शीनाथें त्रयः शब्दा वर्तन्ते ।
निषेधे मा न खल्बलम् ॥ १५७ ॥ निषेधे चत्वारः शल
उच्चैरुच्चावचं तुङ्गमुच्चमुमतमुच्छ्रितम् । पड् दीर्धे । उच्चीयते उच्चैस् । अध्ययः । उच्च च अवचं च उच्चावचम् । तुजति दैमाइते तुगम् । उच्चीयते उच्चम् । उन्नमत्युनतम् । उच्छीयले उच्छ्रितम् । प्रांशुः' : तालव्यः । उग्रम् दीर्घम् । आयतं च ।
__ नीचं न्यगातनं कुछ नीचैह स्वं नयेत्परम् ॥१५८।। घडू हवे । निचीयते नोचम् । न्यश्चतीति न्यन् । आतन्यते श्रातनम्। कौति व्याधि कुञ्जः ।
५. यद्यपि जरठशब्दो जीर्णे प्रसिद्धी जठरशब्दस्तूदरे, तथापि कचिजठरशब्दोऽपि जीणे पठितस्तदाशयेनाइ-जठतीति जठरमिति । यदुक्तम् -- जठरः कुक्षिद्धयोः" अने० स० ३।५५ । २. भातीति भोस् । डोस्प्रत्ययः । यथा-भी भार्गव । रिणातीति रे । विच् । यथा रे चेटाः । .. हो, इति पृथकसम्बोधनद्वयमुक्तम् । परन्तु नाटकादौं 'इं हो' हत्यखण्ड एव सम्बोधने प्रयुज्यते । हं जुहोतीति हो । यथा इंहो ति सखे । हिनोति हे । "हिं गतों वृद्धी" | विच् । यथा हे हेरम्ब । ३. अविशेषार्थे इत्याशयः। ४. द्राति द्राक् । "ट्रा कुत्सायां गतौ" । बाहुलकात्कः । अकार इत् । स चासो क्षणो द्वापक्षणः । ५. श्राहक्नम् श्राहायः “हुनु अपनयने" । घम, । पृषीदरादित्वाद वस्य यः । ६. सम्पद्यते सपदि । 'यद गती" । इन् | पृषोदरादित्वात्समोऽन्त्यलोपः। ७. तुमति दैर्घ्य पालयतीति । धन । कुत्वम् । ८. उन्नमति स्म उन्नतम् । ९. उर्ख श्रयते उछितम् । १८. प्राश्नुते दैर्ध्य प्रांशु । “अशा व्यासी"। ११. निकृष्टामा लक्ष्मी चिनोतीति । डः । इति रामाश्रमः । निम्नमश्चति, नीचैरस्त्यस्य वा । अर्श आदित्वादच । अध्ययाना ममात्र टिलोपः । १२. मात्र प्रमाणामुपलब्धभू । १३. कौति व्याधिविशेषं ब्रूते सूचयति । की पृथिव्याम् उन्जति जूभवति । "उब्ज बाजचे ।" अच । शकन्भ्वादिः । कु ईश्न उब्जमा वामस्य वेति रामाश्रमः |

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150