Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 97
________________ अमरकीर्तिविरषितभाध्योपेता तत्करं विद्धि मृगाङ्क रोहिणीपतिम् ॥ १७६ ।। तस्य करस्तत्करस्तम् । हिमशब्दारकरशब्द प्रयुज्यमाने चन्द्रनामानि भवन्ति । अवश्यायकर । तुषारकरः । प्रायकरः 1 हिनकरः। हिमकरः । नीहारकरः । मृगाङ्कः ! रोहिणीपतिः । अष्टौ नामानि विद्धि जानीहि । पुषागं सन्नरं प्राहुः द्वौ प्रधानपुरुषे । पुमाश्चासौ नागः श्रेषुः पुषागः । संश्चासी नरः समरः । पाहुः न वन्ति । तिलकं च विशेषकम् । ललाटिका ललामापि पूर्णवाहं तथा द्रुमम् ।।१८०॥ षट् तिलके । तिलकाकृतिः तिलकः । तिलतीति तिलकम् । विशिनष्टीति विशेषः । स्वाथै कः । १० विशेषकः । लल्यते ललाटम् । के प्रत्यये ललाटिका । लल्यते ललामा । पूर्ण वाहयतीति पूर्णवादः । __ट्रपति वृद्धिं गच्छति द्रुमः । तमालपत्रम् । चित्रकम् । अञ्जनं काजलं नागं गनणाटनमायाम् । षट् कन्जले | अज्यतेऽनेनेत्यजनम् । कषति नेत्रवरूप्यं कजलम् । न शोभाम् श्रगति गच्छति नागम् । गजति शोभया माद्यति गजम्। पाटलाया इदम् पाटनम् । ऋच्छति गच्छति १५ शोभाम् आरुणम् । ___ सालं परिधि वृक्षं च त्रयः प्राकारे। सरति गच्छति कालान्तरं सालः । परिधीयते वेश्यते अनेन परिधि: वृणोति नगरमाच्छादयति वृक्षम् । कुल्यां स्वीं सारणी विदुः ॥१८॥ त्रयः पानीयनिर्गमनमागें । कुले गृहे साधुः कुल्या। स्तुणाति वैरूप्यमाच्छिनत्ति स्त्री। सरत्यनया सारणी । तां विदुः कथयन्ति धनञ्जयकवयो भाष्यकर्तारोऽमरकीचार्याश्च । चारोऽवसः प्रणिधिनिगूढपुरुषश्चरः। पञ्च चारे । चरति शत्रुमण्डले बारः। अवसर्पति अवसर्पः। अासर्पश्च । प्रकर्षण १. अत्र तिलकविशेषके टीकोक्ततमालपत्रचित्रके च ललाकृततिलकाऽलङ्करणे । तदुक्तम् --"तिलफे तमालपत्रचित्रपुण्ड्रविशेषका :" । अभि. चि० ३।३१७ । ललारिका पत्रसमूहकृतललाटभूषणम् । तदुक्तम्-''पत्रपाश्या ललाटिका" अभि. चि० ३।३१९ । ललामा तु सीमन्ताने मारमणीभिरिव घार्यमाणं ररनादिकुलभूषणम् । तदुक्तम्- "पुरोन्यस्तं ललामकम्' अभि. चि. ३।३३६ । पूर्णवादमयोस्तु कोषान्तरे पाठी नीपलब्धः । २. पद कलले । इत्यविचारसहम् । प्रजनकबलों समानायौँ । नागराजपाटलारुणा श्रीवकपोलादिरञ्जकलोहितरङ्गविशेषवाचकाः । तदुक्तम्-भनेकार्थसहमहे-"नागो मलङ्गजे स पुन्नागे नागकेवरे" २०३४ । "पाटलन्तु कुसुमश्वेतरक्तयोः" १७०१ । "प्रणोऽनूरुसूर्ययोः । सन्ध्या रागे बुधे कुष्ठे निःशब्दाऽव्यक्तररागयोः" ३.१९८ । ३. अरुणमेव अरुणम् । ४. वृक्षशब्दस्य सालार्थे कोषान्तरसंवादो नोपलब्धः । ५. अब वापिति वक्तव्यम् । स्रोशब्दोऽत्र कुल्यासारण्योः स्त्रीलिजयोधकः, तत्पयायः। ६. पूर्वमुक्ते ऽपि सिंहावलोकनन्यायेन चारेऽर्थेऽन्पानपि शब्दान् समुच्चिनोति । ७. चरति शत्रुमण्डले चरः , चरेरच। ततः स्पार्थिकोऽण् । चर एव चारः ।

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150