Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 93
________________ अमरकीर्तिविरचितभाष्योपेता स्तेनयति स्त्यायति वा स्तेनः । उभयम् । तस्पति परद्र ध्यं यं नयति तरकरः। "तसे:करः | अथवा कृषु तत्पूर्वः । तत्करोतीति तस्करः । तदाद्य । नाम्यन्तगुणाः। रूदित्वातस्य सकारः । प्रतिरुणद्धि मार्गः प्रतिरोधकः । निशां चरतीति निशाचरः । गूदश्चासौ नरः गूढनरः । हिनोति परराष्ट्रं गच्छति हेरिकः । प्रकर्षण नितरां गुप्तो घीयते म्रियते घा प्रणिधिः। दस्युः । परास्कन्दी । मलिम्लुचः । ५ मा । असिना । प्रस्तरोपलपाषाणषद्धातुः शिला घनः । प्रस्तुणात्याच्छादयति "प्रस्तरः । काठिन्यमुपलाति उपलम् । उभयम् । पिनष्टि सर्वे *पाषाणः। पासानश्च । हणाति चूर्णयति द्रियते आद्रियते वा कार्यार्थ उपत् । स्त्रियाम् । दधाति 'धातुः। शिनोति तनूकरोति शिला । शिली च । स्त्रियाम् । इन्यते १२घनः । अश्मन् । प्रावन् । पुलकश्च । तत्र जातमयो लोहम् द्वी लोहे । तत्र तस्मिन् पाषाणे जातम् उद्भवम् तत्रजातम् । प्रस्तरोद्भवः । उपलोद्भवः । धातूद्भवः । दृषटुद्भवः । शिलोद्भवः | पनौद्भवः । इत्यादि लोहनामानि भवन्ति । अयते सर्वविकार सान्तम् अयः । लुनाति सर्व लोहम् । शातकुम्भं नयेत्परम् ।। १७० ॥ तत्र पाषाणे उद्भवानि सुवर्णनामानि भवन्ति । क्षार्म शान्तं कृशं क्षीणं हीनं जीणं च वैरिणाम् । शीर्णावसानं दूनं च नव कशे । वायति म्म क्षामम् । शाम्यति स्मशान्तम् । कृशम् । क्षीणम् । हीनम् । १० -. .. -..... १. "सेन चौयें"। चुरादिः । पचाद्यच । २. का० उ० सू० ६।३ । ३. "तदाद्याथन्तानन्तकारबहुबाहर्दिवाविभानिशाप्रभामाश्चित्रकत्तु नान्दीकिलिपिलिपिबलिभक्तिक्षेत्रजवाधवरकःसङ्ख्यासु च" का सू० ४३२३ । इति अष्टप्रत्ययः । ४. दस्युप्रभृतयः प्रतिमोषकान्ताश्चौरपाया न तु गुप्तचरपर्योयाः । गुप्तचरपायास्तु-यथाई वर्णः । असर्पः । मन्त्रविद् । चरः । वायिनः । स्पशः । चारः । ५. "स्तम् अाच्छादने" । पचाद्यच् । ६. अथवा पलतोति पलः । श्रोः शम्भोः पलो चोपलः । ७. "पितृ सञ्चूर्णने" । बाहुलकादानन्। पृपोदरादित्यादिकारख्याकारः । "पर बाधे प्रन्ये च" । हलचेति पञ् । पषल्यनेनेति । अणसीत्यणः | "श्रण शब्दे"। अच् । पाषश्वासावणचेति विग्रहोऽप्य. न्यत्र द्रष्टव्यः । ८. "हणातेः घुम् हस्वचे" ति साधुः । ६. "घातुस्तु मैरिफम्" अभि. चि० : 'धातुर्मनःशिलाद्यद्रेगरिकन्तु विशेषतः" अन० को । इत्यादिकोपप्रमाणतः सामान्यप्रस्तरपर्यायेऽस्य पाटोऽयुक्तः । १०. शिनोसीति तालव्यशिधातुर्न क्वचिदुपलभ्यते । “शो तनूकरणे" । तस्य श्यतीति रूपम् । तनूकरोतीत्यर्थः । ततः शिलेति निपातो बाहुलकादौणादिकार्थेन समायाति । रामाश्रमादिव्युत्पत्तिकारस्तु “शिल उन्छे" शिलतीति शिला | इगुपधेति का इत्युक्तम् । तत्रान्तरतम्यं सुधीभिर्विचारशीयम् । १. उदुम्बरश्वाथ शिली शिला चापि शिलिः स्मृतः" इति कल्पद्रुकोषवाक्यमत्रोपीलकम् । १२. "मूतौ घनिश्च" का सू० ४।५।५० । इन्तेरा धनादेशश्च । १३, तमुक्तम्-''पुलकः कृमिभेदे स्यान्मरिणदोषे शिलान्तरे । गजानपिण्डे रोमाञ्चे गल्पहरितालयोः ।" वि० को० का०व० ११६ ।

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150