________________
अमरकीर्तिविरचितभाष्योपेता स्तेनयति स्त्यायति वा स्तेनः । उभयम् । तस्पति परद्र ध्यं यं नयति तरकरः। "तसे:करः | अथवा कृषु तत्पूर्वः । तत्करोतीति तस्करः । तदाद्य । नाम्यन्तगुणाः। रूदित्वातस्य सकारः । प्रतिरुणद्धि मार्गः प्रतिरोधकः । निशां चरतीति निशाचरः । गूदश्चासौ नरः गूढनरः । हिनोति परराष्ट्रं गच्छति
हेरिकः । प्रकर्षण नितरां गुप्तो घीयते म्रियते घा प्रणिधिः। दस्युः । परास्कन्दी । मलिम्लुचः । ५ मा । असिना ।
प्रस्तरोपलपाषाणषद्धातुः शिला घनः । प्रस्तुणात्याच्छादयति "प्रस्तरः । काठिन्यमुपलाति उपलम् । उभयम् । पिनष्टि सर्वे *पाषाणः। पासानश्च । हणाति चूर्णयति द्रियते आद्रियते वा कार्यार्थ उपत् । स्त्रियाम् । दधाति 'धातुः। शिनोति तनूकरोति शिला । शिली च । स्त्रियाम् । इन्यते १२घनः । अश्मन् । प्रावन् । पुलकश्च ।
तत्र जातमयो लोहम् द्वी लोहे । तत्र तस्मिन् पाषाणे जातम् उद्भवम् तत्रजातम् । प्रस्तरोद्भवः । उपलोद्भवः । धातूद्भवः । दृषटुद्भवः । शिलोद्भवः | पनौद्भवः । इत्यादि लोहनामानि भवन्ति । अयते सर्वविकार सान्तम् अयः । लुनाति सर्व लोहम् ।
शातकुम्भं नयेत्परम् ।। १७० ॥ तत्र पाषाणे उद्भवानि सुवर्णनामानि भवन्ति ।
क्षार्म शान्तं कृशं क्षीणं हीनं जीणं च वैरिणाम् ।
शीर्णावसानं दूनं च नव कशे । वायति म्म क्षामम् । शाम्यति स्मशान्तम् । कृशम् । क्षीणम् । हीनम् ।
१०
-.
..
-.....
१. "सेन चौयें"। चुरादिः । पचाद्यच । २. का० उ० सू० ६।३ । ३. "तदाद्याथन्तानन्तकारबहुबाहर्दिवाविभानिशाप्रभामाश्चित्रकत्तु नान्दीकिलिपिलिपिबलिभक्तिक्षेत्रजवाधवरकःसङ्ख्यासु च" का सू० ४३२३ । इति अष्टप्रत्ययः । ४. दस्युप्रभृतयः प्रतिमोषकान्ताश्चौरपाया न तु गुप्तचरपर्योयाः । गुप्तचरपायास्तु-यथाई वर्णः । असर्पः । मन्त्रविद् । चरः । वायिनः । स्पशः । चारः । ५. "स्तम् अाच्छादने" । पचाद्यच् । ६. अथवा पलतोति पलः । श्रोः शम्भोः पलो चोपलः । ७. "पितृ सञ्चूर्णने" । बाहुलकादानन्। पृपोदरादित्यादिकारख्याकारः । "पर बाधे प्रन्ये च" । हलचेति पञ् । पषल्यनेनेति । अणसीत्यणः | "श्रण शब्दे"। अच् । पाषश्वासावणचेति विग्रहोऽप्य. न्यत्र द्रष्टव्यः । ८. "हणातेः घुम् हस्वचे" ति साधुः । ६. "घातुस्तु मैरिफम्" अभि. चि० : 'धातुर्मनःशिलाद्यद्रेगरिकन्तु विशेषतः" अन० को । इत्यादिकोपप्रमाणतः सामान्यप्रस्तरपर्यायेऽस्य पाटोऽयुक्तः । १०. शिनोसीति तालव्यशिधातुर्न क्वचिदुपलभ्यते । “शो तनूकरणे" । तस्य श्यतीति रूपम् । तनूकरोतीत्यर्थः । ततः शिलेति निपातो बाहुलकादौणादिकार्थेन समायाति । रामाश्रमादिव्युत्पत्तिकारस्तु “शिल उन्छे" शिलतीति शिला | इगुपधेति का इत्युक्तम् । तत्रान्तरतम्यं सुधीभिर्विचारशीयम् । १. उदुम्बरश्वाथ शिली शिला चापि शिलिः स्मृतः" इति कल्पद्रुकोषवाक्यमत्रोपीलकम् । १२. "मूतौ घनिश्च" का सू० ४।५।५० । इन्तेरा धनादेशश्च । १३, तमुक्तम्-''पुलकः कृमिभेदे स्यान्मरिणदोषे शिलान्तरे । गजानपिण्डे रोमाञ्चे गल्पहरितालयोः ।" वि० को० का०व० ११६ ।