________________
नाममाता
८२
जीर्यते स्म जीर्णम् । शीर्यते स्म शोर्णम् । भवस्यते अवसानम् । दूयते स्म दूनं । हे राजेन्द्र, तव वैरिणां शत्रूणां भवतु इति प्रयोजनीयम् ।
धैर्य शौयं च पौरुषे ॥१७॥ . अयः पौरुषे । धीरस्य भायो धैर्यम् । शूरस्य भावः शौर्यम् । पुरुषस्य भावः पौवषम् । युम्माकं भवत इत्यध्याहार्यम् ।
क्षिप्राशुमश्वरं शीघ्रं सहसा झटिति द्रुतम् ।
तूर्ण जवः स्यदो रहो रयो वेगस्तरो लघुः ॥१७२।। षोडशः वैगे। क्षिपति निरस्यति क्षिप्रम् । रकप्रत्यय उणादी ज्ञातव्यः । अश्नुते श्राशु । कृवापानीति उण् । मज्जति महति वा मक्षुः " । यति मान्तमव्ययम् अरम् । अदन्तं च अरम् । शेवे कार्य शीघ(शिव) ति न्यानोति वा शीघ्रम् । सइते सहसा । अव्ययम् । झटति संघातीभवति १० इदन्तमव्ययम् । झटिति' । द्रवति स्म द्रतम् । त्वरते स्म तूर्णम् । जपनं जयः । जु गतौ । स्यन्दते स्यदः । "स्यदो जबः" इति साधुः । रंयत्यनेन रहः । रयवे राणाति या ऽनेन रयः । वीय (विन्य) ते वेगः · । तरत्यनेन तरः। "1"सर्वधातु योऽसुन्" । लक्ते भूमि लघुः । संवैगः । गतिवचनो जवो धर्मः पचना पाशुशीवादय इत्यर्थमेदः । सदागतिप्रस्तावादाइ--
साधीयोऽत्यर्थमत्यन्नं नितान्तं स वै शम् । सप्त भृशे । साधुभ्यो हितः साधोयः११ । ईवसुः । प्रतिकान्तोऽर्थ वेलो मात्राम् भन्तं च अत्यर्थम् । अत्यन्तम् । भतिवेलम् । अतिमात्रं च । निसाम्यति स्म नितान्तम् । सुष्टौति सुष्टु ।
-
--
--
१. अत्रावसान भिन्ना अष्टावपि शब्दा विशेष्यनिम्नास्तेन कुटुम्ममिति विशेषमध्याहार्य हे राजेन्द्र तब वैरिणां कुटुम्ने दामं भवतु । एवं शान्तं कृशमित्याद्यपि योज्यम् । अवसानशब्दस्य भावल्युडन्तत्वात् तव वैरिणामवमानं नाशो भवत्विति विकः । अवस्यते ऽवसानमिति रीको कविग्रहस्वसत्तः । अवपूर्वस्य "योऽन्त कर्मणि" इत्यस्य भावलटि अवसीयते इति लपम्, नत्वरस्यते इति । करीरि लटि विषादी अवस्यतीति परस्मैपदमेव । नापि फतक्तान्तोऽवसानशब्दः । प्रत्यये "अवसित" इति रूपस्यैव सर्वसम्मतत्वात् । तस्मादवसायतेऽवसायो वा अवसानमिति विग्रदो युक्तः । २. कोषान्तरप्रमाणतो व्यवहाराच धैर्यादिशब्दानां परस्परकर्मभेदात्पर्यायानईत्वेऽपि बलसामान्यविवक्षया त्रयः पौरुषे इत्युक्तम् । ३. गतिवचनो अवो धर्मवचना श्राशुशीघ्रादय इत्यर्थभेदस्य वक्ष्यमाणत्वात् क्षिप्रादयस्तूर्णा ता नव शीघार्थे, जवादयो लध्वन्तारसत वेगाथै इति सुवचम् | "द्राक् क्षणेऽहाय झटिति"एतत्सहैवास्य सीमार्थतया पाठे कर्तव्येऽपि पृथगस्य पाठो मरितिशब्द पुनरुक्तिश्च दोषः। ४. क्षिपति विलम्वमिति शेषः । ५ "टु मस्त्री शुद्धौ" | बाडुलकात्सुः । मस्जिनशोरिति नुम् । स्कोरिति सलोपः । मज्जति कालाल्पत्वे मक्षुः। ६. "पह मर्षणे । असा प्रत्ययः यद्वा सहस्यति । "षोऽन्तकर्मणि" । प्राप्रत्ययो दित् । विभक्यन्तप्रतिरूपकमाकारान्तमव्ययम् ? उदाहरणम्-"सहसा विदधीत न क्रियामित्यादि । ७. "झट सखाते"। श्रोणादिक इतिः । ८. का. सू० ४१॥३५॥ स्यन्देषभि नलोपो दीर्घाभावश्च । स्यन्दन स्यद इति भावविग्रहो न्याय्यः । ६. "मी विजी भयचलनयोः" । १०. का उ० सू० ४/५६ । ११. अतिशयेन साधु बादं का साधीय इति । साधुभ्यो हिव इति टीकोक्तविग्रहस्तु न सङ्गच्छते । अतिशया ईनसो विधानात् । साधीय इति मूलोक्तपदस्य क्लीयत्वेन हित इति पुंबिग्रहोऽपि तथैव ।