Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
नाममाला
"रण्यः । "केवमुभुरण्य्वश्वर्वादयः" केववादयः शब्दा बुप्रत्ययान्ता निपात्यन्ते । तथा च द्विसन्धानकाव्ये -.
"असूययाऽगम्य निशाम्य यो पुरो
विळज्जयाऽम्भापरिणामिनीदशाम । गता इवाभान्ति कुलादिपेशला
चरण्युलोलाः परिखाऽम्बुचीचयः ॥" "जु" इति सौत्री घातुर्गतौ । सौत्रा धातवोऽपि स्वादौ पठूयन्ते । अवतीति जवनः । 'जुचाक्रम्यदन्द्रम्यस्यधिज्वलशुचपतपदाम" एभ्यो युर्भवति । सर्वां दिशाः प्रभनक्ति प्रमानः । जगत्प्राणः । पृषदश्व: । स्पर्शनः । समीरः । हारे: । महाबलः । श्राशुगः ।
अस्य पर्यायपुत्रौ भीमाजनात्मजौ ॥६३॥ अस्य पर्यावात् प्रभञ्जनादिशब्दात्यरत्र पुत्रशब्दो दीयते तदा भीमहनुमती मानि भवन्ति । १० पवनपुत्रः । पवनतनयः । पवमानतनयः । वायुपुत्रः । वायुतनयः । वातपुत्रः । वाततनयः | अनिलपुरः । अनिलतनयः । समीरणपुत्रः | समीरणतनवः | गन्धवाहपुत्रः । गन्धवाहतनयः । श्वसनपुत्रः । श्वसनतनयः । सदागतिपुत्रः । सदागतितनयः । नभस्वत्पुत्रः । नभस्वतनयः । मातरिश्वपुत्रः । मातरिश्वतनयः । चरण्युपुत्रः । चरण्युतनयः । जवनपुत्रः । जवनतनयः । चलपुत्रः । चलतनयः 1 प्रभञ्जनपुत्रः । प्रभजनतनयः । भीमन्य हनुमतश्च नामानि ज्ञातव्यानि ।
तत्सखाऽग्निः, तस्थ बायोः सखा, तत्सखः । वाशब्दाने सखशब्दे प्रयुज्यमाने अग्निनामानि भवन्ति । पवनसखः । वायुसखः । अनिलसखः । वातसखः । ममत्सखः । गन्धवाहसखः । समीरणसखः । श्वसनसन्तः । सदागतिसखः । नभस्वत्सख: । मातरिश्वसखः । चरण्युसाखः । जवनसखः । बलसखः । प्रभखनसखः । पवनेष्टः । पवमानेशः । इत्यादीनि अग्ने मानि ज्ञातव्यानि ।
२० शिखी वह्निः पावकश्चाशुशुक्षणिः । हिरण्यरेता सप्तार्चिर्जातवेदास्तनूनपात् ।। ६४ ।। स्वाहापति ताशश्च ज्वलनो दहनोऽनलः । वैश्वानरः कृशानुश्च रोहिताश्वो विभावसुः ॥ ६५ ॥
वृषाकपिः समीगर्भो हव्यवाहो हुताशनः। एकविंशतिरग्नौ । "अक अग कुटिलायां गतौ ।" अगति वायुवशाय गच्छुतीत्यग्निः । शिखाऽस्त्यस्य शिस्त्रो । उह्यते वह्निः । "अगिश्रुथियुवहिन्यो निः" एभ्यो धातुभ्यो निः प्रत्ययो भवति । पुनाति पायकः । श्राशु शोषयति रसान् 'श्राशुशुक्षणिः । “अाशौ शुषेः सनिक" । "शुध
१. चरशब्दोयम; न तु चरेग्युः । द्विसन्यानेऽपि चरण्युशब्दस्यैव दर्शनात् । एतत्साधकमुणा. दिसूत्रम् अभिधानचिन्तामणिटीकायाम् ( ३।४८३ ) उपलभ्यते; नैवान्यत्र | वस्तुतस्तु वैदिकोऽयं प्रयोगः । ''चरण वरण गतौ कण्ड्वादौ चरण धातुर्यक् प्रत्ययान्तः । ततः "क्याच्छन्दसि" पासू० ३।२।७० । इत्युप्रत्ययः । सुग्नयु, तुरष्षु. भुरण्य. सपर्यु, आदिशब्दवदस्य सिद्धिः। विशेषस्तु "क्याच्छन्दसि" इत्यस्य तत्वबोधियो द्रध्ध्यः । चरण्यतीति चरण्युः | २.४० १ श्लो। १९ । ३. का. सू० ४।४।३२ । ४. वहति हव्यं वह्निरिति व्युत्पत्तिरन्यत्र । ५. का० उ० सू० ३।५०। ६. आशीष्टुमिच्छतीति आङपूर्वकान्टुपः सन्नन्वात् ‘ाडि शुघेः सनश्छन्दसि" पा० उ०सू० २।१०६ | अनिः । माशु शीघ्रम्, आशुं व्रीहि वाशु सुष्टु क्षणोतीति वा । "सर्वधातुभ्य इन्" इत्यन्यत्र । ७. का० उ० सू०५।१५ ।

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150