SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ नाममाला "रण्यः । "केवमुभुरण्य्वश्वर्वादयः" केववादयः शब्दा बुप्रत्ययान्ता निपात्यन्ते । तथा च द्विसन्धानकाव्ये -. "असूययाऽगम्य निशाम्य यो पुरो विळज्जयाऽम्भापरिणामिनीदशाम । गता इवाभान्ति कुलादिपेशला चरण्युलोलाः परिखाऽम्बुचीचयः ॥" "जु" इति सौत्री घातुर्गतौ । सौत्रा धातवोऽपि स्वादौ पठूयन्ते । अवतीति जवनः । 'जुचाक्रम्यदन्द्रम्यस्यधिज्वलशुचपतपदाम" एभ्यो युर्भवति । सर्वां दिशाः प्रभनक्ति प्रमानः । जगत्प्राणः । पृषदश्व: । स्पर्शनः । समीरः । हारे: । महाबलः । श्राशुगः । अस्य पर्यायपुत्रौ भीमाजनात्मजौ ॥६३॥ अस्य पर्यावात् प्रभञ्जनादिशब्दात्यरत्र पुत्रशब्दो दीयते तदा भीमहनुमती मानि भवन्ति । १० पवनपुत्रः । पवनतनयः । पवमानतनयः । वायुपुत्रः । वायुतनयः । वातपुत्रः । वाततनयः | अनिलपुरः । अनिलतनयः । समीरणपुत्रः | समीरणतनवः | गन्धवाहपुत्रः । गन्धवाहतनयः । श्वसनपुत्रः । श्वसनतनयः । सदागतिपुत्रः । सदागतितनयः । नभस्वत्पुत्रः । नभस्वतनयः । मातरिश्वपुत्रः । मातरिश्वतनयः । चरण्युपुत्रः । चरण्युतनयः । जवनपुत्रः । जवनतनयः । चलपुत्रः । चलतनयः 1 प्रभञ्जनपुत्रः । प्रभजनतनयः । भीमन्य हनुमतश्च नामानि ज्ञातव्यानि । तत्सखाऽग्निः, तस्थ बायोः सखा, तत्सखः । वाशब्दाने सखशब्दे प्रयुज्यमाने अग्निनामानि भवन्ति । पवनसखः । वायुसखः । अनिलसखः । वातसखः । ममत्सखः । गन्धवाहसखः । समीरणसखः । श्वसनसन्तः । सदागतिसखः । नभस्वत्सख: । मातरिश्वसखः । चरण्युसाखः । जवनसखः । बलसखः । प्रभखनसखः । पवनेष्टः । पवमानेशः । इत्यादीनि अग्ने मानि ज्ञातव्यानि । २० शिखी वह्निः पावकश्चाशुशुक्षणिः । हिरण्यरेता सप्तार्चिर्जातवेदास्तनूनपात् ।। ६४ ।। स्वाहापति ताशश्च ज्वलनो दहनोऽनलः । वैश्वानरः कृशानुश्च रोहिताश्वो विभावसुः ॥ ६५ ॥ वृषाकपिः समीगर्भो हव्यवाहो हुताशनः। एकविंशतिरग्नौ । "अक अग कुटिलायां गतौ ।" अगति वायुवशाय गच्छुतीत्यग्निः । शिखाऽस्त्यस्य शिस्त्रो । उह्यते वह्निः । "अगिश्रुथियुवहिन्यो निः" एभ्यो धातुभ्यो निः प्रत्ययो भवति । पुनाति पायकः । श्राशु शोषयति रसान् 'श्राशुशुक्षणिः । “अाशौ शुषेः सनिक" । "शुध १. चरशब्दोयम; न तु चरेग्युः । द्विसन्यानेऽपि चरण्युशब्दस्यैव दर्शनात् । एतत्साधकमुणा. दिसूत्रम् अभिधानचिन्तामणिटीकायाम् ( ३।४८३ ) उपलभ्यते; नैवान्यत्र | वस्तुतस्तु वैदिकोऽयं प्रयोगः । ''चरण वरण गतौ कण्ड्वादौ चरण धातुर्यक् प्रत्ययान्तः । ततः "क्याच्छन्दसि" पासू० ३।२।७० । इत्युप्रत्ययः । सुग्नयु, तुरष्षु. भुरण्य. सपर्यु, आदिशब्दवदस्य सिद्धिः। विशेषस्तु "क्याच्छन्दसि" इत्यस्य तत्वबोधियो द्रध्ध्यः । चरण्यतीति चरण्युः | २.४० १ श्लो। १९ । ३. का. सू० ४।४।३२ । ४. वहति हव्यं वह्निरिति व्युत्पत्तिरन्यत्र । ५. का० उ० सू० ३।५०। ६. आशीष्टुमिच्छतीति आङपूर्वकान्टुपः सन्नन्वात् ‘ाडि शुघेः सनश्छन्दसि" पा० उ०सू० २।१०६ | अनिः । माशु शीघ्रम्, आशुं व्रीहि वाशु सुष्टु क्षणोतीति वा । "सर्वधातुभ्य इन्" इत्यन्यत्र । ७. का० उ० सू०५।१५ ।
SR No.090291
Book TitleNammala
Original Sutra AuthorDhananjay Mahakavi
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year1950
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy