________________
अमरकीर्तिविरचितभाष्योपेता
वारिधिण्यतेऽधुना ॥२३॥ अधुना इदानी घारिधियेते कथ्यते । केन ? भाष्यक; मुनिश्रीमदभरकीर्तिना । साम्प्रतं समुद्रनामानि भारभ्यन्ते--
स्रोतस्विनी धुनी सिन्धुः सवन्ती निम्नगाऽपगा ।
नदी नदो द्विरेफश्च सरिनामा तरङ्गिणी ॥२४॥ एकादश नद्याम् । स्रोतः प्रवाही पुस्त्यस्याः स्रोतस्विनी। धुनौति कम्पते धुनिः। नियामीः । धुनी । स्यन्दति जले चलति सिन्धुः । त्रिषु । "स्यन्देः२ सम्प्रसारणं धन ।” तटेभ्यो जलं सवति यन्ती। निम्नं गच्छति निम्नगा। श्रा समन्तादाप्नोति अभिरगति वा श्रापगा । आपेन वा गच्छति प्रापगा।
नदत्यव्यक्तं शब्दं करोति नदी। नदति नदः । "अचः पचादिभ्यश्च" च । द्वौ रेफी तटी यस्य द्विरेफः । १० सरति समुद्रं गच्छति सारित् । तान्तम् । तरङ्गाः सन्त्यस्यां तरङ्गिणी । तटिनी, निरिणी, कुलङ्कामा, शेवलिनी, सरस्वती, समुद्रकान्ता, हादिनी, स्रोतः, कषुः", कुल्या, द्वीपवती. रोधीवक्त्रा ।
तत्पतिश्च भवत्यब्धिः, तस्या धुन्याः पतिथुनीपतिरित्यादिसमुद्रनामानि भवन्ति । स्रोतस्विनीपतिः, धुनीपतिः, सिन्धुपतिः, सवन्तीपतिः, निम्नगापतिः, श्रापगापतिः, नदीपतिः, नदपतिः, द्विरेफपतिः,सरित्पतिः,तरङ्गियोपतिः ।
पारावारोऽमृतोद्भवः । अपारवारकूपारौ रनमीनाभिधाऽकरः ॥२५॥
समुद्रो चारिराशिश्च सरस्थान् सागरोऽर्णयः । नव समुद्रे । पारमाणोति पारावारः। अतस्योद्भवः अमृतोद्भवः । अपार वार् जलं यत्राऽसौ अपारवाः । न कुं पृणोति मर्यादापालनादकूपारः । इलायुधे-"न कुं पृथिवी पिपर्ति व्या२० प्नोतीति अकूपारः।" अकूवारोऽपि । रत्नमीनशब्दयोरगे आकर प्रयुज्यमाने समुद्रनामानि भवन्ति ।
रत्नाकरः, पृथरीमाकरः, घडक्षोणाकरः, यादाकरः ६, वैसारिणाकरः, झपाकरः, विसाधाकरः, शकराकरः, मीनाकरः, पाटीनाकरः, निमिषाकरः, तिन्याकरः । 'उन्दी क्लेदने सम्पूर्वः । समन्तादुनत्त्यस्मादिति समुद्रः । ""सावितश्विर्वाञ्चशकिक्षिपिक्षुदिरुदिमदिमन्दिच शुन्दीन्दि-यो रक"" अनिदनुबन्धानाम
गुणेऽनुषङ्गः । तथा च हलायुधे --"मुदन्ति मिश्रीभवन्ति भौमाऽन्तरीक्षनादेयजलान्यत्रसमुद्रः।" २५ अमरसिंह- १ 'समुनत्ति समुहः'' । वारीणां जलानां राशिरिराशिः । सरांसि जलप्रसारणानि सन्त्यस्य सरस्थान् । सागरस्यापत्यं सागरः, सगरतनयः खातत्वात्। श्रणांसि सन्त्यस्य अर्णवः ।
-- - - - - - - - - -- - - - - - -... . .. -
१. धुनोति कम्पयति वेतसादीन् । धुञ् कम्पने । विप् । पृषोदरादित्वाइक ! नान्तत्यान्डीप धुनी इति रामाश्रमः । २. कार उ०१७। ३. अभिरगतीति विग्रहेपः पकारस्य बदस्वाभावोऽकारस्य दीर्घरवं च पृषोदरादित्यैन निपातासाध्यम् । ४. का० सू० ४।२१४८ । ५. अत्र कर्पूरिति दीघोंकारान्तपाठो शुक्तः । तदुक्तम् -कषू नदी करोषाग्न्योरिति शाश्वतः ६७२ । ६. यादत् शब्दस्य सकारान्तत्वाद् याद श्राकर इत्येव न तू यादाकरः । ७. समन्तादुनत्ति आकरोति भूभागानेतावानेव विग्रहः । अत्रास्मादित्यपा. दानार्थष्टोकोक्तो नापेक्षणीयः । समीचीना मुद्रा जलचरविशेषा यस्मिन् सह मुट्या मर्यादया वर्तते वेति व्युत्पश्यन्तरमप्यूत्यम् । ८, का० उ० २।१४ । ६. का० स० ३।६।१ । १०. मुद संसर्गे चुरादिः सम्पूर्वः । कथादावदन्ते तत्पाठाच्चुरादिणिचो वैकल्पिकवान्मुदन्तीत्यपि पझे । सभी मकारलोपः पृषोदरादित्वात्तत्र बोध्यः । ११. क्षी० भा. १।६।११