Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
नाममाला मेघपथगः । मेघमार्गगः । इत्यादिनि शातम्यानि ।
पक्षी पत्री पतत्र्यपि । शकुन्तिः शकुनिर्षिश्च पतको विष्किरोऽन्यथा ॥५४|| सप्त पतङ्क । पक्षाः सन्त्यस्य पनी । पत्राणि सन्स्यस्य पत्री । नान्तः । पततीति पत्रिः । त्रिप्रत्यये इदन्तः । पतत्राणि सन्त्यत्य पतत्री । नान्तः । पततीति पते परतोऽत्रिप्रत्यये इदन्तो वा पतत्रिः । हलायुध. ५ भाष्यकारेण डालणिकेन-पत्रिशब्दः पत्रिन नकारान्तः पत्रिरिकारान्तश्च व्याख्यातः । अमरसिंह-1 नाममालायाम् -
"पतत्रिपत्रिपतगपतपत्ररथाण्डजाः।
नगोकोवाजिविकिरविविष्फरपतत्रयः ।।" इकारान्तः पत्रिशब्दः पठितोऽस्ति । भाष्यका क्षीरस्वामिना पतनिरिकारान्तो निषिद्धः । १० "पतेरनिरिति" भान्सा पतत्रि ग्रन्थ दिदन्तं मन्यते । एवं कथितमस्ति श्रीमदमरकीर्तिना दूयोर्वचनं । प्रमाणम् । शब्दानों वैचित्र्यं वर्तते । नभसा गन्तु शक्नोति शकुन्तः । शकुन्तिः । एवं शकुनिः । एवं माकुनी । शकुन्तः । शकुन: । द्वौ अदन्ती । घयतीति विः । “वैनो डि'" । पतेन वेगेन गनछतीति पतङ्गः । विकिरति पत्राणि विष्किरः ।
वर्णागमो गवेन्द्रादौ सिंहे वर्णविपर्ययः ।
षोडशादौ विकारस्तु वर्णमाश: धूषोदरे ।। सुद्धागमः । विकिरश्च ।
जाङ्गलं पिशितं मांसं पलं पेशी च
पञ्च मांसे । गल्यते अद्यते जाङ्गले जङ्गलं च । पिश्यते रुधिरादिभिः पूर्यते पिशितम् । मन्यते सम्भाव्यते शरीरोपचयोऽनेनेति मांसम् । “वृतृ बदिनिमनिकस्यशिकपिम्यः सः" । एभ्यः सः प्रत्ययो २० भवति । पलयते ( पालयते ) देहं पलम्। रुधिरादिभिः पिश्यते (पिंशति) शरीरम् पेशी । आमिपम् । रुच्यम् । तरसम् ।
तप्रियः। वस्य मांसस्य प्रियः । आभिपशब्दाने प्रियशब्दे प्रयुज्यमाने राक्षसनामानि भवन्ति । जाङ्गलप्रियः । पिशितप्रियः । मांसप्रियः । पलप्रियः । पेशीत्रियः ।
यातुधानस्तथा रक्षो'ही यातुधाने | यातूमि यातना धीयन्ते ऽस्मिन् यातुधानः । रक्षतीति रक्षः' । राक्षसः | कौणपः । झज्यादः । नैऋतः । नैकसेयः । नैकपेयश्च । विपुसेऽपि ( कर्नुरः । असपः ) । कीनाशो नानार्थे ।
राब्यादिचर इष्यते ॥ ५५ ॥
१. अम० को० २।५।३४। २. क्षीर० भा० २।५।३४ | ३. का. उ. सू. ४|| रामाश्रमस्तु . वातीति विः । “वाते ढिच्च" इत्याह । ४. पतेन बेगेन गच्छतीति विग्रहे तन्साधु-वं कल्पनीयम् । तादृशसूत्राs. नुपलम्भात् । पतायुष्यते इति पतङ्गः । "नुपतिभ्यामङ्गः” का. उ. सू. ५१२२॥ इत्यङ्गप्रत्ययस्तु युक्तः । 'तृपतिभ्यामङ्ग"इत्यङ्गप्रत्ययः । ५. "पृषोदरादयः” २।२।१७२। शा० कारिका । ६. "पिश अवयवे" पिंशति पिश्यते स्म वा पिशितम् । "पिशेः किच" उ०सू. ३६५। इतीतन् । अथवा क्तः। इति रामाश्रमः । ७. का० उ०पू०४।५३ । ८. रक्षन्त्यस्मादिति रक्षः । "सर्वधातुभ्योऽसुन्" | "भीमादयोऽपादाने इत्यन्यत्र ।

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150