Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( ५ ) करणे हि मालिन्यादि सम्यक्त्वस्योपजायते तच्च कुश्रवणतो भवति, अतस्त दर्शयन् जिनप्रतिकृतिविषयं तावदाह G Acharya Shri Kailassagarsuri Gyanmandir Dares as बिंबप भांति सदस्स | तह कप्पे भणियमिणं संति पट्ठवणवयणाओ ॥ १० ॥ द्रव्यं - वासकुसुमधूपकषायमृत्तिकानेत्रोन्मिलनकारिलक्षणं तत्मधानस्तवो द्रव्यस्तवः भावप्रधानत्वानिर्देशस्य ततो द्रव्यस्त वत्वात्कारणात् इतितो, स च प्रदर्शित एव । केचन एके ' विम्बप्रतिष्ठां सर्वज्ञप्रतिनिधेस्तद्गुणाध्यारोपलक्षणां भणन्ति जल्पन्ति श्राद्धस्य श्रावकस्य । अयं तेषामाशयः -यतिधम्र्म्मो हि भावस्तवप्रधानः, स च प्रतिष्ठायां क्रियमाणायां पूर्वोक्तद्रव्यव्यापारणतो न सम्यग् जाघटीति । तथा परं कारणं - ' कल्पे ' छेदग्रन्थविशेषे ' भणितं ' प्रतिपादितं ' इदं प्रतिष्ठाविधानम् तद्धि 'प्रतिष्ठापनवचनात् ' सावओ कोई पढमं जिणपडिमाए पट्टवणं करेइ " त्ति भणनात् श्रावकः कश्चित्प्रथममायं जनप्रतिमायाः जिनमूर्तेः प्रतिष्ठापनं प्रतिष्ठां करोति विदधाति । गाथायां प्रथमं करोत्यादिशब्दानुपादानं छन्दोवशान्न कृतं सूचनाच्च सूत्रस्येति लभ्यते । अतः स्थितमेतत् कारणद्वयादुक्तलक्षणात् श्रावक एव प्रतिष्ठां करोतिन साधुरिति पूर्वपक्षार्थः ॥ १० ॥ ' " साम्प्रतं प्रथमपक्षस्य परिहारं दातुकामस्तदनुष्ठानेनैव चोत्तरं गाथार्द्धेनाहसयममिलाणं दानं खिवंति सद्वृीण खंधदेसंमि । स्वयं-आत्मना ' अम्लानां ' सार्द्रा, 'दाम' मालां ' क्षिपन्ति ' आरो 4 " पयन्ति श्राद्धीनां श्राविकाणां ' स्कन्धदेशे ' ग्रीवायाम् । अयमभिप्रायः - यदि द्रव्यस्त भीतेर्भवद्भिः प्रतिष्ठा न क्रियते किमित्युपधानविधौ मालारोपणं विधीयते ? अम्लानादित्वेनास्याऽपि साध्वनुचितद्रव्यस्तवत्वाद् इदमपि कर्तुं न युज्यते इति । एवमुक्तः परः स्वमतस्थित्यर्थं कदाचिद्वदिव्यत्येवं तत्तृतीयपादेनाहअह सत्धे भणियमिति । 'अथ ' इत्याचार्यवचनानन्तर्यार्थः, 'शास्त्रे ' महानिशीथाख्ये ' भणितं ' For Private And Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 129