Book Title: Jivanushasanam Author(s): Devsuri Publisher: Jagjivan Uttamchand Shah View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३ ) अनुयोगपराणां सिद्धान्तव्याख्याननिष्ठानाम् । परहितरताना-परे आत्मव्यतिरिक्ता जीवास्तेषां हितं सम्यक्त्वादिगुणाधानं तत्र रताश्चासत्तास्तषाम् । उस्सग्गववायाणंति " बहुवयणेण दुवयणं " इति प्राकृतलक्षणनिर्देशाद् उत्सर्गापवादयोः सामान्यविशेषोक्तलक्षणयोर्विषयविभागे-गोचरविच्छित्तौ छेकानाम् । एतेषु च विशेषणेषु परस्परं कथंचिदन्तर्भावेऽपि न पौनरुक्त्याशङ्का विधेया, प्राधान्यख्यापनार्थत्वादेतदुपन्यासस्य । एवंविधसूरीणां उक्तमकारा. चार्याणां वचनेषु भणितिषु, अनुस्वारश्चात्र " नीयालोयमभूया य आणियाएए विंदुदुब्भावा ।" इति प्राकृतलक्षगप्रभवः, देहि प्रयच्छ मानसं चित्तं नित्यं सर्वदा, यदीति हृदयाभिप्रायविकल्पार्थः, भवसंसरणात्-संसारसंसृतेः निर्विण्णः खिन्नः 'रे' इत्यामन्त्रणद्योतनार्थः, त्वं भवान् जीव-आत्मन् ? । अयमभिप्रायः–'इत्थं भवति इत्थं न भवति, एवं क्रियते एवं न क्रियते, इदं वस्तु ' इत्यादि वस्तुविचारापेक्षयवेदमुपदिश्यते, सामान्यदेशना तु किंचित्पूर्वो क्तगुणरहितेष्वपि श्रोतव्या । इति गाथाचतुष्टयार्थः । ___ ननु किमन्यथापि केचिद् व्याचक्षते ? येनेत्थमुपदिश्यते । सत्यम्, 'व्याचक्षते' इत्याद्यावेदयन् यदर्थ च जानन्तोऽप्यगणितापाया यादृशाः स्वमत्येति कथयंश्च गाथात्रयमाह जं दूसमभावाओ एगे अलसा सधम्मकजेसु । अन्ने तहोस विकत्थणाए लोयाग सावेक्खा ॥ ६॥ तह पन्नविति धम्मं जह नियपक्खस्स होइ परपुट्ठी। जाणंति णेय मूढा अत्ताणं वंचिमो एवं ॥७ । जह सरणमुवगयाणं जीवाणिचाइ निसुणिऊणंपि।.. अवगणियभवदंडा किर सच्चपरूवया अम्हे ॥८॥ यद्-यस्माद् दुःषमानुभावात्-समयोक्तलक्षणकालविशेषमाहात्म्यात् एके केचन अलसाः-मन्दोत्साहाः स्वधर्मकायेषु प्रत्युपेक्षणादिव्यापारेषु , अन्ये १ नीती लोपमभूतौ चारोतौ एतौ बिन्दु-द्विर्भावौ । एतौ अनुस्वारविर्भावौ विद्यमानौ लोपं नीती-प्राप्तौ भवतः अविद्यमानौ तर्हि आनीती भवतः । For Private And Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 129