Book Title: Jivanushasanam Author(s): Devsuri Publisher: Jagjivan Uttamchand Shah View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २ ) श्रीवीरस्य किमित्येवंविधं विशेषणद्वयं कृतम् ? सत्यम्, प्राधान्यख्यापनार्थम् । तथाहि - सर्वस्याप्यनुष्ठानस्य प्रत्युपेक्षणादेः सिकताकवलचर्वणप्रायस्य रागद्वेषजय एव फलमुपवर्ण्यते, स च भगवतो वर्द्धमानस्य माध्यस्थ्यभावनापकर्षवशप्रवृत्तशुक्लध्यान सामर्थ्यादविकलः सम्पन्नः, तत्सम्पत्तौ च सर्वोत्तमत्वादुपकारित्वाच भुवनत्रयस्य बन्धुर्जातः, अन्योऽपि यो मध्यस्थो भविष्यति स एवंविधः पारम्पर्येण भविष्यति, अत एव प्रकरकारेणापि 'माध्यस्थ्यभावनया' इत्युक्तं, अतः स्थितमित्थं विशेषणद्वयोपादानेन इति गाथार्थः ॥ १ ॥ साम्प्रतं ' जीवानुशासनं वक्ष्ये ' इति यदुक्तं तत्सफलीकुर्व्वन् यादग्वि धानां सुरीणां वचस्तु चित्तं दातव्यमिति तेन द्वारेण जीवोपदेशं प्रयच्छन्नपायपरिहारगर्भ गाथाचतुष्टयमाह - गंभीरसिद्ध सिद्धत सिंधु संपत्त परमपाराणं । सयलजणसम्मयाणं पवयणवच्छलजुत्ताणं ॥ २॥ कुग्गहविवज्जियाणं अणिदणिज्जाणं परिणयवयाणं । देसाइजाणयाणं अणुद्धयाणं गुणड्डाणं ॥ ३ ॥ संवेगभावियाणं अणुओगपराण पर हियरयाणं । उस्सग्गववायाणं विसयविभागंमि दक्खाणं ॥ ४ ॥ एवंविहरीणं वयणेसुं देसु माणसं णिचं | जइ भवसंसरणाओ निविष्णो रे तुमं जीव ॥ ५ ॥ " व्याख्या - गम्भीरो मन्दमत्यलब्धमध्यः स चासौ सिद्ध प्रसिद्धः स चासौ सिद्धान्तश्च समयः स एव सिन्धुः समुद्रः तस्य सम्प्राप्तो - लब्धः पारः पर्यन्तो यैस्ते गम्भीरसिद्धसिद्धान्तसिन्धुसम्प्राप्तपरमपारास्तेषाम् । सकलाः समस्ताः ते च ते जनाश्च गीतार्थाचार्यादिलोकाः तेषां सम्पता अभिप्रेतास्तेषाम् । प्रवचनं संघः, तस्य वात्सल्यमनुकूलता तस्मिन् युक्ता संबद्धास्तेषाम् ॥ २ ॥ कुग्रहः स्वाभिप्रायेण दुष्टाभिनिवेश: तेन विवर्जिता रहितास्तेषाम् । अनिन्दनीयानां - गीतार्थादिजनादृष्याणाम् । परिणतवयसां वयःस्थविराणाम् । देशादिज्ञानां क्षेत्रकालादिपरिज्ञानवताम् । अनुद्धतानां गर्वविवर्जितानाम् । गुणाः क्षमादयः तैराढ्या ईश्वरास्तेषाम् || ३ || संवेगभावितानां - मोक्षाभिलाषिणाम् । For Private And Personal Use OnlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 129