________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २ )
श्रीवीरस्य किमित्येवंविधं विशेषणद्वयं कृतम् ? सत्यम्, प्राधान्यख्यापनार्थम् । तथाहि - सर्वस्याप्यनुष्ठानस्य प्रत्युपेक्षणादेः सिकताकवलचर्वणप्रायस्य रागद्वेषजय एव फलमुपवर्ण्यते, स च भगवतो वर्द्धमानस्य माध्यस्थ्यभावनापकर्षवशप्रवृत्तशुक्लध्यान सामर्थ्यादविकलः सम्पन्नः, तत्सम्पत्तौ च सर्वोत्तमत्वादुपकारित्वाच भुवनत्रयस्य बन्धुर्जातः, अन्योऽपि यो मध्यस्थो भविष्यति स एवंविधः पारम्पर्येण भविष्यति, अत एव प्रकरकारेणापि 'माध्यस्थ्यभावनया' इत्युक्तं, अतः स्थितमित्थं विशेषणद्वयोपादानेन इति गाथार्थः ॥ १ ॥
साम्प्रतं ' जीवानुशासनं वक्ष्ये ' इति यदुक्तं तत्सफलीकुर्व्वन् यादग्वि धानां सुरीणां वचस्तु चित्तं दातव्यमिति तेन द्वारेण जीवोपदेशं प्रयच्छन्नपायपरिहारगर्भ गाथाचतुष्टयमाह -
गंभीरसिद्ध सिद्धत सिंधु संपत्त परमपाराणं ।
सयलजणसम्मयाणं पवयणवच्छलजुत्ताणं ॥ २॥ कुग्गहविवज्जियाणं अणिदणिज्जाणं परिणयवयाणं । देसाइजाणयाणं अणुद्धयाणं गुणड्डाणं ॥ ३ ॥ संवेगभावियाणं अणुओगपराण पर हियरयाणं । उस्सग्गववायाणं विसयविभागंमि दक्खाणं ॥ ४ ॥ एवंविहरीणं वयणेसुं देसु माणसं णिचं |
जइ भवसंसरणाओ निविष्णो रे तुमं जीव ॥ ५ ॥
"
व्याख्या - गम्भीरो मन्दमत्यलब्धमध्यः स चासौ सिद्ध प्रसिद्धः स चासौ सिद्धान्तश्च समयः स एव सिन्धुः समुद्रः तस्य सम्प्राप्तो - लब्धः पारः पर्यन्तो यैस्ते गम्भीरसिद्धसिद्धान्तसिन्धुसम्प्राप्तपरमपारास्तेषाम् । सकलाः समस्ताः ते च ते जनाश्च गीतार्थाचार्यादिलोकाः तेषां सम्पता अभिप्रेतास्तेषाम् । प्रवचनं संघः, तस्य वात्सल्यमनुकूलता तस्मिन् युक्ता संबद्धास्तेषाम् ॥ २ ॥ कुग्रहः स्वाभिप्रायेण दुष्टाभिनिवेश: तेन विवर्जिता रहितास्तेषाम् । अनिन्दनीयानां - गीतार्थादिजनादृष्याणाम् । परिणतवयसां वयःस्थविराणाम् । देशादिज्ञानां क्षेत्रकालादिपरिज्ञानवताम् । अनुद्धतानां गर्वविवर्जितानाम् । गुणाः क्षमादयः तैराढ्या ईश्वरास्तेषाम् || ३ || संवेगभावितानां - मोक्षाभिलाषिणाम् ।
For Private And Personal Use Only