________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ॐ अर्हम् श्रीदेवमूरिविरचितजीवानुशासन स्वोपज्ञटीकासहितम् ।।
अल्पश्रुतमतिसम्मतमतकरिकुम्भस्थलैककेसरिणं ।
वीरं नत्वा जीवानुशासनं किमपि विवृणोमि ॥ १॥ तत्र तावदभीष्टदेवतानमस्कारार्थ अभिधेयादिप्रतिपादनार्थं च प्रकरणस्य प्रकरणकारो हेतुगर्भामिमामादौ गाथामाह
निम्महियरायरोसं वीरं नमिऊण भुवणतियबंधुं।
मज्झत्थभावणाए जीवस्सणुसासणं वोच्छं ॥१॥ वीरं नत्वा जीवानुसासनं वक्ष्य इति संटङ्कः । अवयवार्थस्त्वयम्- 'निर्मथितरागरोपं ' निराकृतप्रीतिद्वेषं वीरं 'वर्तमानतीर्थाधिपति नत्वा' प्रणम्य, कि विशिष्टं ? 'भुवनत्रिकबन्धुं जगत्रयवान्धवं, 'माध्यस्थ्यभावनया' रागद्वेषाभावेन 'जीवस्य' आत्मनः जातिनिर्देशाद्वा जीवस्य भव्यप्राणिगणस्य, एवमग्रेऽपि जीवामन्त्रणे ज्ञातव्यम्, अनुशासनं-शिक्षा, अत्र च " स्वराणां स्वरे प्रकृतिलोपसन्धयः ।" इति प्राकृतलक्षणेन अकारलोपे अनुशब्दाकार सस्वरत्वे च रूपमिदम् , एवमन्यत्रापि यथासंभवं ज्ञेयमिति, वक्ष्ये' अभिधास्ये । शब्दव्युत्पत्यादिचर्चस्तु सर्वत्र सुकर एवेति न प्रतन्यने । अत्र च पूर्वार्धनाभीष्टदेवतानमस्कारः प्रतिपादितः, तृतीयपादेन च हेतुगर्भत्वं प्रकटितं, तुर्यपादेन त्वभिधेयं प्रकाशितं, सम्बन्धस्तु स्वत एव वाच्यवाचकभावादिः प्रतिपादनीयः । प्रयोजनं तु कश्रोत्रोरनन्तरपरम्परभेदाद् द्विधा, तत्र कर्तुरनन्तरं कुमतनिराकरणेन सन्मार्गावताराद् भव्योपकारः, श्रोतुश्च यथावस्थितानेकशास्त्रप्रतिपादितार्थप्रतिपादकप्रस्तुतप्रकरणार्थज्ञानम्, परम्परं तु यथावस्थितकथनज्ञानाभ्यां सम्यक्रियात उभयोरपि परमपदप्राप्तिरेवेति । ननु अन्येष्वपि विशेषणेषु विद्यमानेषु भगवतः
For Private And Personal Use Only