Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॐ अर्हम् श्रीदेवमूरिविरचितजीवानुशासन स्वोपज्ञटीकासहितम् ।। अल्पश्रुतमतिसम्मतमतकरिकुम्भस्थलैककेसरिणं । वीरं नत्वा जीवानुशासनं किमपि विवृणोमि ॥ १॥ तत्र तावदभीष्टदेवतानमस्कारार्थ अभिधेयादिप्रतिपादनार्थं च प्रकरणस्य प्रकरणकारो हेतुगर्भामिमामादौ गाथामाह निम्महियरायरोसं वीरं नमिऊण भुवणतियबंधुं। मज्झत्थभावणाए जीवस्सणुसासणं वोच्छं ॥१॥ वीरं नत्वा जीवानुसासनं वक्ष्य इति संटङ्कः । अवयवार्थस्त्वयम्- 'निर्मथितरागरोपं ' निराकृतप्रीतिद्वेषं वीरं 'वर्तमानतीर्थाधिपति नत्वा' प्रणम्य, कि विशिष्टं ? 'भुवनत्रिकबन्धुं जगत्रयवान्धवं, 'माध्यस्थ्यभावनया' रागद्वेषाभावेन 'जीवस्य' आत्मनः जातिनिर्देशाद्वा जीवस्य भव्यप्राणिगणस्य, एवमग्रेऽपि जीवामन्त्रणे ज्ञातव्यम्, अनुशासनं-शिक्षा, अत्र च " स्वराणां स्वरे प्रकृतिलोपसन्धयः ।" इति प्राकृतलक्षणेन अकारलोपे अनुशब्दाकार सस्वरत्वे च रूपमिदम् , एवमन्यत्रापि यथासंभवं ज्ञेयमिति, वक्ष्ये' अभिधास्ये । शब्दव्युत्पत्यादिचर्चस्तु सर्वत्र सुकर एवेति न प्रतन्यने । अत्र च पूर्वार्धनाभीष्टदेवतानमस्कारः प्रतिपादितः, तृतीयपादेन च हेतुगर्भत्वं प्रकटितं, तुर्यपादेन त्वभिधेयं प्रकाशितं, सम्बन्धस्तु स्वत एव वाच्यवाचकभावादिः प्रतिपादनीयः । प्रयोजनं तु कश्रोत्रोरनन्तरपरम्परभेदाद् द्विधा, तत्र कर्तुरनन्तरं कुमतनिराकरणेन सन्मार्गावताराद् भव्योपकारः, श्रोतुश्च यथावस्थितानेकशास्त्रप्रतिपादितार्थप्रतिपादकप्रस्तुतप्रकरणार्थज्ञानम्, परम्परं तु यथावस्थितकथनज्ञानाभ्यां सम्यक्रियात उभयोरपि परमपदप्राप्तिरेवेति । ननु अन्येष्वपि विशेषणेषु विद्यमानेषु भगवतः For Private And Personal Use Only

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 129