Book Title: Jivanushasanam Author(s): Devsuri Publisher: Jagjivan Uttamchand Shah View full book textPage 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ प्रास्ताविकम् ॥ जीवानुशासनमिदं श्रीमन्त आचार्यचर्याः श्रीदेवसूरयो विरचयाम्बभूवुः । क्व कदा च संजातैस्तैः कस्मिन् समये विरचितमित्यादि सर्व प्रान्तप्रदर्शिनप्रशस्त्यैव स्वयमेव सुस्पष्टं ज्ञापितम् । - श्रीजयसिंहदेवनरेश्वरे विद्यमाने सति श्रीअणहिल्लपाटकनगरमध्ये "दोहट्टी” नामश्रावकवसतिस्थितैः श्रीवोरचन्द्रसूरीणां शिष्यपात्रः श्रीदेव. सूरिभिवृहद्गच्छशिरोमणीनां श्रीमदुत्तराध्ययनलघुवृत्ति-वीरचरित-र. त्नचूडादिशास्त्रकर्तृणां श्रीनेमिचन्द्रसूरीणामुपदेशादेकादशशतोपरिष्टाद्वाषष्टे संवत्सरे विक्रम संवत्सरे ११६२)नवम्यां निथावादित्यवासरे त्रयोविंशत्यधिकत्रिशतगाथं प्रकरणमिदं निर्मितम् । सप्ततिगृह निवासिभिः श्रीजिनदत्तसूरिभिः संशोधितम् । अन्येषां च महेन्द्रसूरिप्रमुखाणां मूरिप्रवराणां सम्मतम् । अस्य वृत्तिरपि स्वोपज्ञैव । सा च तत्रैव नगरे तस्मिन्नेव राजनि गजरमण्डलं प्रशासति सति, तस्मिन्नेव वपतिस्थाने स्थितै नरुचेः श्रष्टिजासकस्य वीरादिमातुश्च जिन-साधुपूजनरतायाः श्राविकाया वसुन्धर्या उपष्टम्भात् श्रीदेवसूरिभिरेकेन मासेन सरस्वतीतोषतः कृता । श्रीनेमिचन्द्रसूरिभिश्च संशोधिता । ___ अत एव ज्ञायते-" श्रीमुनिचन्द्रसूरोणां शिष्यपवराः समकालीना अपि श्रीमन्तो वादिदेवसूरय एतेभ्यो भिन्ना एव” इति प्रकरणेऽस्मिन्नष्टात्रिंशदर्थाधिकारा जीवस्य भव्यात्मनोऽनुशासनरूपतया चर्चिता विद्यन्ते । अर्थात् स्वसमकालीनजैनसंघमध्ये प्रचलिनाः केचिद् विवादग्रस्त विषयाः समालोचिताः । ग्रन्थहृदयं तु साङ्गोपाङ्गग्रन्थावगाहनेनैव प्राप्स्यन्ति चर्चाचतुरा विद्वासः । तेन नेह प्रतन्यतेऽर्थविस्तारः । विक्रमद्वादशशताब्दिमध्ये यदा श्रीमद्हेमचन्द्रप्रभुप्रभृतयोऽनेके महान्न आचायवर्या विहृतवन्तस्तत्कालीनप्रचलितचर्चाभि: जैनसंघपरिस्थितिज्ञापकमिदं प्रकरणं समवबुद्ध ध किश्चिदशुद्ध-अशुद्ध तराभ्यामादर्शपुस्तकाभ्यां संशुध्य प्रकाशितम् । आदर्शदोषान्मतिमान्द्यात् मुद्रकप्रमादादा याः काश्चिदशुद्धयस्संजातास्स्युः, ताः संशोध्या धीधनैः सिद्धान्तहृदयः-- अणहिल्लपाटकपननम् ) इति प्रार्थयन्ति -- सं १९८४ फाल्गुन कृष्णप्रयोदशी पं० भगनदास-प्रभुदास-वीरचन्द्राः For Private And Personal Use OnlyPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 129