________________
२५०
अष्टादशं वृत्तम् । अवतरणिका - एवं प्रत्येककार्यकरणात्पूर्वं गुरुप्रच्छनस्य सुसाधुमर्यादारूपत्वं प्रदाऽधुना कार्यकरणात्पश्चादपि गुरुनिवेदनीय इति दर्शयति - मूलम् - काउं गुरुंपि कज्जं, न कहंति य पुच्छिया वि गोविंति ।
जे उण एरिसचरिया, गुरुकुलवासेण किं ताणं ॥१८॥ छाया - कृत्वा गुरु अपि कार्यं, न कथयन्ति च पृष्टा अपि गोपायन्ति ।
ये पुनः ईदृशचरिताः, गुरुकुलवासेन किं तेषाम् ? ॥१८॥ दण्डान्वयः - गुरुंपि कज्जं काउं न कहंति पुच्छिया वि य गोविंति, जे उण एरिसचरिया ताणं गुरुकुलवासेण किं ? ॥१८॥
हेमचन्द्रीया वृत्तिः - गुरु - महत्, अपि - एतादृक्शिष्यो लघु कार्यं कृत्वा तु नैव गुरुं निवेदयति, गुर्वपि कार्यं कृत्वा गुरुं न निवेदयतीति द्योतनार्थम्, कार्यम् - कृत्यम्, कृत्वा - निष्पाद्य, न- निषेधे, कथयन्ति - निवेदयन्ति, पृष्टाः - कथञ्चित्सामान्येन गुरुणा ज्ञाते विशेषज्ञानार्थमनुयुक्ताः, अपि - स्वयं तु नैव कथयन्ति, पृष्टा अपि गोपायन्तीति प्रदर्शनार्थम्, च - समुच्चयार्थम्, 'गुर्वपि कार्यं कृत्वा न कथयन्ति ।' 'पृष्टा अपि गोपायन्ति ।' इति द्वे वाक्ये समुच्चिनोति । गोपायन्ति - प्रच्छन्नीकुर्वन्ति - न प्रकटयन्तीत्यर्थः, ये - अनिर्दिष्टनामानः, पुनः - किञ्चार्थे, पूर्वश्लोकोक्तव्यतिकराऽपेक्षया भिन्नव्यतिकरस्य प्रस्तावनार्थम्, ईदृशचरिताः- ईदृशम् -उपर्युक्तम् गुरुमपि कार्य कृत्वाऽकथनरूपं पृष्टेऽपि च गोपायनरूपमित्यर्थः चरितम् - जीवनं स्वभावो वा येषां ते ईदृशचरिताः, तेषां - उपर्युक्तचरितानाम्, गुरुकुलवासेन - गुरुः - तत्त्वदेशकः, तस्य कुलम् - साधुसमुदायरूपमिति गुरुकुलम्, तत्र वासः - स्थानमिति गुरुकुलवासः - गुरुनिश्रावर्तनमित्यर्थः, तेनेति गुरुकुलवासेन, किम् ? - क्षेपे, प्रयोजनमित्यध्याहार्यम्,
અવતરણિકા – આમ દરેક કાર્ય કરતા પૂર્વે ગુરુને પૂછવા રૂપ સુસાધુઓની મર્યાદા બતાવી હવે કાર્ય કર્યા પછી પણ ગુરુને જણાવવું” એમ બતાવે છે -
શબ્દાર્થ - મોટું પણ કાર્ય કરીને ગુરુને નથી કહેતા, પૂછે તો પણ છુપાવે. જે આવા ચરિત્રવાળા શિષ્યો હોય છે તેમને ગુરુકુલવાસથી શું ફાયદો ? (૧૮)
હેમચન્દ્રીય વૃત્તિનો ભાવાર્થ - કેટલાક શિષ્યો નાના કાર્યો કરીને તો ગુરુને નથી જ જણાવતા પણ મોટા કાર્યો કરીને પણ ગુરુને નથી જણાવતા. કદાચ સામાન્યથી ગુરુ જાણી જાય અને વિશેષથી જાણવા માટે પૂછે તો ય છુપાવે છે. આવા શિષ્યોને