Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
"श्री
"प्रथमः
बकाहिस्सा
कहा"
श्रीभरतचक्रवर्तीचरितम्"
॥८
॥
KXXXXXXXXXXXXXXXXXXXXXXX
चलति स किं स्वामी ? अतः स आज्ञावती विधेयः. भरतेन चिंतितं मद्भयात्सर्वैरपि बांधवैश्चारित्रं गृहीतं, अधुना तु मद्वाहुरेक एव बन्धुरास्ते, सोऽप्यनुजस्तस्योपरि किं विधीयते ? सुषेणेनोक्तं स्वामिन्नत्र विचारो न विधेयः, किं तेन गुणहीनेन बन्धुना ! स्वर्णमय्यपि छुरिका हृदये क्षेप्तुन योग्या, अतो दूतं मुक्त्वा तमाकारयत ? परं तु सर्वथापि स नाऽऽयास्यति, इति सुषेणवचनात्संजातम! भरतः सुवेगनामानं दूतमाहूय प्रोक्तवान् , तक्षशीलायां मदीयानुजबाहुबलिसमीपं व्रज ? तमाकार्य समागच्छेति भरतवचनं श्रुत्वा शिरस्याज्ञा मान्यमिव निधाय रथमारुह्य सपरिकरः सुवे. गश्चचाल. मार्गे व्रजतस्तस्य प्रथमं बहून्यपशकुनानि जातानि, तेर्वायमाणोऽपि स्वाम्याज्ञापालनोद्यतश्चचाल, कियद्भिदिनैर्बहलीदेशं प्राप. तन्निवासिभिलों के पृष्टं कोऽयं ? क्व व्रजति ? तदनुचरेरुक्तं सुवेगनामानं भरतदूतो बाहूबलेराकारणार्थ व्रजति. तदा लोकैः पुनरुप्युक्तं कोऽयं भरतः ? सुवेगसेवकैरुक्तं षट्खण्डाधिपतिर्जगद्विभुभरतो लोके विख्यातोस्ति. तदा लोकैरुक्तं एतावदिनपर्यंतमस्माभिस्तु न श्रतः, स क स्थितः १ अस्माकं तु देशे स्त्रीणां स्तनोपरिवर्तिनीषुकंचुकीषु भरतचित्रं यद्वर्तते तत् श्रूयते परंतु स न श्रतः, अस्माकं विभुः क्व ? क्व चायं भरतः? योऽस्मत्स्वामिभुजदन्डप्रहारं सहते तादृशः कोऽपि नास्तीति लोकमुखाद्वाहुबलिबलप्रकर्षशृण्वन् स चकितः सन् तक्षशिलायां प्राप. बाहुबलेरास्थानसभायामागतः. दौवारिकेण नृपाय दूतागमनं निवेदितं तदाज्ञया रथादुत्तीर्य दूतो बाहुबलिसमीपमेत्य तच्चरणौ ननाम. बाहुबलिना दूताय सर्वमपि भ्रातृकुशलादिकं पृष्टं, दूतेनोक्तं कुशली तव सोदरो भरतः, कुशलिनी चोऽयोध्यापुरी, कुशलिनस्तस्य सपादकोटयः पुत्राः यस्य गृहे चतुर्दशरत्ननवनिधानादिमहत्यैश्वर्यसंपत , तस्याऽकुश
K*************XXXXXXXXX
॥८॥
Jain Educa
t ional
For Personal & Private Use Only
W
eitrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 150