Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
१४६
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-1८/८७ प्रसारितमुखत्वेन दृश्यमानमित्याहुः, 'महल्लं'तिमहत् विकृतं-बीभत्संलालाभिःप्रगलत् क्तंच तालु-काकुन्दं यस्य स तथा तं, तथा हिङ्गुलकेन-वर्णकद्रव्यविशेषेण सगडं कन्दरलक्षणं बिलं यस्यसतथा तमिव 'अंजणगिरिस्सत्तिविभक्तिविपरिणामादञ्जन-गिरि-कृष्णवर्णपर्वतविशेषं तथाऽग्निज्वालाउद्गिरत् वदनं यस्य स तथा तं,
-अथवा 'अवच्छियेत्यादि हिंगलुए'त्यादि अग्निज्वाले'त्यादि प्रत्यंतरे च कर्मधारयेण वक्ष्यमाणवदनपदस्य विशेषणं कार्यं यस्यतमित्येवंरूपश्च वाक्यशेषो द्रष्टव्यः, तथाअग्निज्वाला उद्गिरद्वदनं यस्य स तथा तं, 'आऊसिय'त्ति सङ्कुचितं यदक्षचमे-जलाकर्षकणकोशस्तद्वत् 'उइट्ठ'त्तिअपकृष्टौअपकर्षवन्तौ सङ्कुचितौगण्डदेशीयस्यसतथा तं, अन्ये त्वाहुः-आमूषितानिसङ्कुटितानि अक्षाणि-इन्द्रियाणि च चर्म च ओष्ठौ च गण्डदेशौ च यस्य स तथा तं, चीना हस्वा 'चिवड'त्ति चिपटा-निम्ना वंका-वक्रा भग्नेव भग्ना-अयोधनकुट्टितेवेत्यर्थो नासिका यस्य स तथा तं, रोषादागतो धमधमेंत'त्तिप्रबलतयाधमधमेंतत्तिशब्दं कुर्वाणो मारुतो-वायुर्निष्ठुरोनिर्भरः खरपरुषः-अत्यन्तकर्कशः शुषिरयोः-रन्ध्रयोर्यत्र तत्तथा, तदेवंविधमवभुग्न-वक्रं नासिकापुटंयस्य तथातं, इहचपदानामन्यथा निपातःप्राकृतत्वादिति, घाताय-पुरुषादिवधाय घाटाभ्यां वा-मस्तकायवविशेषाभ्यां उद्भटं-विकरालं रचितमत एव भीषणंमुखं यस्य सतथा तं, ऊर्द्धमुखे कर्णशष्कुल्यौ-कर्णावती ययोस्तौ तथातौ च महान्ति-दीर्घाणि विकृतानि लोमानि ययोस्तौ तथा तौ च 'संखालग'त्ति शङ्खवन्तौ च शङ्खयोः-अक्षिप्रत्यासन्नावयवविशेषयोः संलग्नौ-सम्बद्धावित्येके,
-लम्बमानौच-प्रलम्बौचलितो-चलन्तौ कर्णीयस्य सतथातं, पिङ्गले-कपिलेदीप्यमानेभासुरे लोचने यस्य स तथा तं, भृकुटिः-कोपकृतो भ्रूविकारः सैव तडिद्-विद्युद्यस्मिंस्तत्तथा तथाविधंपाठान्तरेणभूकुटितं-कृतभ्रूकुटिललाटंयस्यसतथातं, नरशिरोमालयापरिणद्धं-वेष्टितं चिन्हं-पिशाचकेतुर्यस्य स तथा तं, अथवा नरशिरोमालया यत्परिणद्धं-परिणहनं तदेव चिन्हें यस्य स तथा तं, विचित्रैः-बहुविधैर्गोनसैः-सरीसृपविशेषैः सुबद्धः परिकरः-सन्नाहो येन स तथातं, 'अवहोलंत त्तिअवधोलयन्तोडोलायमानाः ‘फुप्फुयायंत'त्तिफूत्कुर्वन्तोयेसर्पाः वृश्चिका गोधाः उन्दुरान नकुलाःसरटाश्च तैर्विचिता विचित्रा-विविधरूपवती वैकेक्षण-उत्तरासङ्गेन मर्कटबन्धेन स्कन्धलम्बमात्रतया वा मालिका-माला यस्य स तथा तं,
-भोगः-फणः स क्रूरो-रौद्रो ययोस्तौ तथा तौ च कृष्णसी च तौ धमधमायमानौ च तावेव लम्बमाने कर्णपूरे-कर्णाभरणविशेषौयस्य सतथातं, मारिश्र गालौ लगितौ-नियोजितौ स्कन्धयोर्येन स तथा तं, दीप्तं-दीप्तस्वरं यथा भवत्येवं 'धुधुयंत'त्ति धूत्कारशब्दं कुर्वाणो यो धूकः-कौशिकः स कृतो-विहितो 'कुंतल'त्ति शेखरकः शिरसि येन स तथा तं, घण्टानां रवणं शब्दस्तेन भीमो यः स तथा स चासौ भयङ्करश्चेति तं, कातरजनानां ह्यदयं स्फोटयति यः स तथा तं, दीप्तमट्टहासंघण्टारवेणभीमादिविशेषणविशिष्टं विनिर्मुञ्चन्तंवसारुधिरपूयमांसमलैर्मलिना 'पोच्चड'त्ति विलीना च तनुः-शरीरं यस्य स तथा तं, उत्रासनकं वशालवक्षसंच प्रतीते,
__-'पेच्छंत'त्ति प्रेक्ष्यमाणा-६श्यमाना अभिन्ना-अखण्डा नखाश्च-नखरा रोमच मुखंच नयने च की च यस्यां सा तथा सा चासौ वरव्याघ्रस्य चित्रा-कर्बुरा कृत्तिश्च-चर्मेति सा तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org