Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
५०५
-
द्वारं-२, अध्ययनं-५,
तत्रैकमासिकी द्विमासिकीत्यादयः सप्त अष्टमीनवमीदशम्यस्तुप्रत्येकंसप्तरात्रिन्दिवमानाः एकादशी अहोरात्रमाना द्वादशी एकरात्रमानेति, इतः सूत्रं सूचामात्रमेव पुस्तकेषु श्यते, तचैवं परिपूर्णीकृत्याध्येयम्
किरियाठाणा य'त्ति त्रयोदश क्रियास्थानानि व्यापारभेदाः तद्यथा-शरीराधर्तं दण्डोऽर्थदण्ड: १ एतदव्यतिरिक्तोऽनर्थदण्डो २ हिसिष्यतीत्याद्याश्रित्य दण्डो हिंसादण्डः ३ अनभिसन्धिना दण्डोऽकस्माद्दण्डः ४ मित्रादेरमित्रादिबुद्धया विनाशनं दृष्टिविपर्यासितादण्डः ५ मृषावाददण्डः ६ अदत्तादानदण्डः ७ अध्यात्मदण्डः-शोकाभिभव इत्यर्थः ८ मानदण्डोजात्यादिमदः ९ मित्रद्वेषदण्डन्ट मात्रादीनामल्पापराधेऽपिमहादण्डनिवर्तनलक्षणः१०मायादण्ड: ११ लोभदण्डः १२ ऐपिथिकः-केवलयोगप्रत्ययः कर्मबन्ध इति १३,
भूयगाम तिचतुर्दश भूतग्रामाः-जीवसमूहाः, तत्रैकेन्द्रियाः सूक्ष्माः १ बादराश्च २ द्वीन्द्रियाः ३ त्रीन्द्रियाः ४ चतुरिन्त्रियाः५ पञ्चेन्द्रियाः संज्ञिनः ६ असंज्ञिनश्चेति ७ सप्तच, एते प्रत्येकं पर्याप्तकापर्याप्तकभेदात् द्विधेति चतुर्दश,
'परमाहम्मिय'त्तिपञ्चदशपरमाधार्मिकाः-नारकाणांदुःखोत्पादकाअसुरकुमारविशेषाः, ते चामी॥१॥ “अंबे २ अंबरिसी चेव २, सामे य ३ सबलेवि य४।
रुद्दे ५ उवरुद्दकाले ७, महाकालेत्ति ८ आवरे॥ ॥२॥ असिपत्ते ९ धणू १० कुंभे ११, वालुय १२ वेयरणि १३ त्तिय ।
खरस्सरे १४ महाघोसे १५, एते पन्नरसाऽऽहिया ॥” इति, 'गाहासोलसा य'त्ति षोडश गाथाषोडशानि गाथेति गाथाभिधानं षोडशमध्ययनं येषां तानि गाथाषोडशकानि-सूत्रकृताङ्गस्य प्रथमश्रुतस्कन्धाध्ययनानि, तानि चैवतानि॥१॥ “समओ १ वेयालीयं २ उवसग्गपरिण्ण ३ थीपरिण्णा य४।
निरयविभत्ती ५ वीरत्थओय ६ कुसीलाण परिभासा ७॥ ॥२॥विरिय ८ कम्म ९ समाही १० मग्ग ११ समोसरण १२ अहतहं १३ गंथो १४ ।
जमईयं १५ तह गाहासोलसमं १६ चेव अज्झयणं ।"
-- 'असंजम'त्ति सप्तदशविधः असयंमः, सचायं॥१॥ "पुढवि १ दग २ अगणि ३ मारुय ४ वणक्फइ५
बित्ति ७ चउ ८ पणिंदि ९ अज्जीवे १०। पेह ११ उवेह १२ पमञ्जण १३ परिट्ठवण १४ मणो १५ वई १६ काए १७॥"
---'अबंभ'त्ति अष्टादशविधमब्रह्म, तच्चैवं॥१॥ “ओरालियंच दिव्वं मणवयकायाण करणजोगेहिं।
_ 'अणुमोयणकारावणकरणेणऽद्वारसाबंभं ।।" ति,
औदारिकं मनःप्रभृतिकरणानाम- नुमोदनादियोगैः नवधा एवं दिव्यमपीत्यष्टादशधा, 'नाय'त्ति एकोनविंशतिआताध्ययनानि, तानि चामूनि
॥१॥ "उक्खित्तनाए १ संघाडे २, अंडे ३ कुम्मे य४ सेलए ५।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org