Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
५२४
प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४५
काणत्वं विधत्ते तदेव रक्तानुगतं रक्ताक्षं पित्तानुगतं पिङ्गाक्षं श्लेष्मानुगतं शुक्लाक्षमिति, 'विणिहय'त्ति विनिहतचक्षुरित्यर्थः,
तत्र यज्जातस्य चक्षुर्विनिहनेनान्धकत्वं काणत्वं वा तदनेन दर्शितमिति, सप्पिसल्लग'त्ति सह पिसल्लकेन-पिशाचकेन वर्ततेयः स तथा ग्रहगृहीत इत्यर्थः, अथवा सर्पतीति सी-पीठसी सच गर्भदोषात् कर्मदोषाद्वा भवति, स किल पाणिगृहीतकाष्ठः सर्पतीति, शल्यकः-शल्यवान् शूलादिशल्यभिन्न इत्यर्थः,
व्याधिना-विशिष्टचित्तपीड्या चिरस्थायिगदेन वा रोगेण-रुजया सद्योघातिगदेन वा पीडितोयःस तथा, ततो गण्ड्यादिपदानामेकत्वद्वन्द्वः तद्दृष्ट्वेतिप्रकृतं, विकृतानि च मृतककडेवराणि ‘सकिमिणकुहियं वत्ति सह कृमिभिर्यः कुथितश्च स तथा तं वा द्रव्यराशिपुरुषादिद्रव्यसमूहं दृष्टवेतिप्रक-तं, तेष्विति सम्बन्धात्तेषु गण्ड्यादिरूपेषुअन्येषुचैवमादिकेषु रूपेषु अमनोज्ञपापकेषु न श्रमणेन रोषितव्यं यावत्करणान्न हीलितव्यमित्यादीनि षट् पदानि दृश्यानि न जुगुप्सावृत्तिकापि लभ्या उचिता योग्येत्यर्थः उत्पादयितुं, निगमयन्नाह-एवं चक्षुरिन्द्रियभावनाभावितो भवति अन्तरात्मेत्यादि व्यक्तमेव २ ।
"तइयं तितृतीयंभावनावस्तु गन्धसंवृतत्वं, तच्चैवम्-घ्राणेन्द्रियेणाघ्राय गन्धान्मनोज्ञभद्रकान् ‘किं ते'त्तितद्यथा जलजस्थलजसरसपुष्पफलपानभोजनानि प्रतीतानि कुष्ठं-उत्पलकुष्ठं 'तगर'त्ति गन्धद्रव्यविशेषः पत्रं-तमालपत्रं 'चोय'त्ति त्वक् दमनकः-पुष्पजातिविशेषः मरुकः-प्रतीतः एलारसः-सुगन्धिफलविशेषरसः 'पिक्कमंसि'त्ति पकवासंस्कृता मांसीतिगन्धद्रव्यविशेषः गोशीर्षाभिधानं सरसंयच्चन्दनंतत्तथा कर्पूरो-घनसारः लवङ्गानि-फलविशेषाः अगुरुः-दारुविशेषः कुङ्कुमं-कश्मीरजं कल्लोलानि-फलविशेषाः ओशीरं-वीरणीमूलं श्वेतचन्दनं- श्रीखण्डं खेदो वा-स्यन्दश्चन्दनं-मलयजं सुगन्धानां सद्गन्धानां साराङ्गानांप्रधानदलानां युक्तिः-योजनं येषुवरधूपवासेषुते तथा तेचतेवरधूपवासाश्चेति समासः ततस्तानाघ्राय तेष्विति योगात् तेषु 'उउयपिंडिमनीहारिमगंधिएसुत्ति
__ ऋतुजः-कालोचित इति भावः पिण्डिमो-बहलः निर्हारिमो-दूरनिर्यायी यो गन्धः स विद्यते येषुते तथा तेषुअन्येषु चैवमादिकेषुगन्धेषुमनोज्ञभज्रकेषुन श्रमणेन सक्तव्यमित्यादिकं किंतेइत्येतदन्तंपूर्ववत्, तथाअहिमृतादीन्येकादशप्रतीतानि नवरंवृकः-ईहामृगःद्वीपी-चित्रकः एषांचाहिमृतकादीनां द्वन्द्वः द्वितीयाबहुवचनं दृश्यंतत आघ्रायेति क्रियायोजनीया, ततस्तेष्विति योगात् तेषु किंविधेष्वित्याह-मृतानि-जीवमिमुक्तानि कुथितानि-कोथमुपगतानि विनष्टानि पूर्वाकारविनाशेन 'किमिण'त्ति कृमिवन्ति बहुदुरभिगन्धानि च–अत्यन्तममनोज्ञगन्धानि यानि तानि तथा तेषुअन्येषु चैवमादिकेषु गन्धेषुअमनोज्ञपापकेषुन श्रमणेनरोषितव्यमित्यादि पूर्ववत्
'चउत्थंति चतुर्थं भावनावस्तु जिह्वेन्द्रियसंवरः, तच्चैवम्-जिह्वेन्द्रियेणास्वाधरसांसस्तुमनोज्ञभद्रकान् ‘किंते'त्ति तद्यथा अवगाह:-स्नेहबोलनं तेन पाकतो निवृत्तमवगाहिमेपक्वान्नंखण्डखाद्यादि विविधपानं द्राक्षापानादि भोजनं ओदनादिगुडकृतं-गुडसंस्कृतंखण्डकृतं च-खण्डसंस्कृतं लड्डुकादि तैलघृतकृतं-अपूपादि आस्वाद्येति प्रकृतं, तेष्विति सम्बन्धात् तेषु
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org
Loading... Page Navigation 1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548