Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
द्वार-२, अध्ययनं-५,
५२१ 'पढमति पञ्चानांमध्ये प्रथमंभावनावस्तुशब्दनिःस्पृहत्वंनाम, तच्चैवं-श्रोत्रेन्द्रियेण श्रुत्वा शब्दान् मनोज्ञाः सन्तोयेभद्रकास्ते मनोज्ञभद्रकास्तान् ‘किंतेत्तितद्यथावरमुरजा-महामर्दलाः मृदङ्गामर्दला एव पणवा-लघुपटहाः ‘दहुर'त्ति दर्दुरटः चविनद्धमुखः कलशः कच्छभी-वाद्यविशेषः वीणा विपञ्ची वल्लकी च वीणाविशेषाः वद्धीसकं-वाद्यविशेष एव सुघोषा-घण्टाविशेषः नन्दीद्वादशतूर्यनिर्घोषः तानि चामूनि॥१॥ "भंभा मउंद मद्दल हुडुक्क तिलिमा य करड कंसाला।
काहल वीणा वंसो संखो पणवओ य बारसमो॥" तथा सूसरपरिवादिनी-वीणाविशेष एववंशो-वेणुः तूणको-वाद्यविशेषः पर्वकोऽप्येवं तन्त्री-वीणाविशेष एव तला-हस्ततालास्तालाः-कंसिकाः तलताला वा-हस्ततालाः एतान्येव तूर्याणि-वाद्यानि एषां यो निर्घोषो-नादः तथा गीतं-गेयं वादितं च-वाद्यं सामान्यमिति द्वन्द्वः ततःश्रुत्वेतियोगात् द्वितीया, तथा नटनर्तकजल्लमल्लमौष्टिकविडम्बककथकप्लवकलासकाख्यायकलंखमंखतूणइल्लतुंबवीणिकतालाचरैः पूर्वव्याख्यातैः प्रक्रियन्ते-विधीयन्ते यानि तानि नटादिप्रकरणानि, तानि च कानीत्याह-बहूनिअनेकानिमधुरस्वराणां-कलध्वनीनां गाथकानां यानि गीतानि सुस्वराणि तानि श्रुत्वा तेषु श्रमणेन न सक्तव्यमिति सम्बन्धः, _ 'तथाकाची-कट्याभरणविशेषः मेखलापितद्विशेषएवकलापको-ग्रीवाभरणंप्रतरकाणि प्रहेरकः-आभरणविशेषः पादजालक-पादाभरणंघण्टिकाः-प्रतीताः किंकिण्यः-क्षुद्रघण्टिकाः तत्प्रधानं 'रयण'त्ति रत्नसम्बन्धी उर्वोः-बृहज्जङ्घयोर्जालकं यत्तत्तथा 'छड्डिय'त्ति शुद्रिका आभरणविशेष; नूपुरं-पादाभरणंचलनमालिकाऽपि तथैव कनकनिगडानिजालकंजाभरणविशेषः एतान्येव भूषणानि तेषां ये शब्दास्ते तथा तान् किंभूतानित्याह-लीलाचकम्यामाणानां-हेलया कुटिलगमनं कुर्वाणानामुदीरितान्–सञ्जातान् लीलासञ्चरणसञ्जितानित्यर्थः, तथा तरुणीजनस्य यानि हसितानि भणितानि च कलानि च-माधुर्यविशिष्टध्वनिविशेषरुपाणि रिभितानिस्वरघोलनावन्तिमञ्जुलानिच-मधुराणितानि तथाऽतस्तानि, तथा गुणवचनानिच-स्तुतिवादांश्च बहूनि-प्रचुराणिमधुरजनभाषितानि-अमत्सरलोकभणितानिश्रुत्वा, किमित्याह-तेश्वित्युत्तरस्येह सम्बन्धात् तेषु अन्येषु चैवमादिकेषु-एवंप्रकरेषु शब्देषु मनोज्ञभद्रकेषु न,
तेष्विति योजितमेव, श्रमणेन सक्तव्यमिति सम्बन्धः कार्यः, न रक्तव्यं-न रागकार्यःन गर्द्धितव्यं-अप्राप्तेष्वाकाङ्क्ष न कार्या न मोहितव्यं-तद्विपाकपर्यालोचनायां न मूढे न भाव्यं न विनिघातं-तदर्थमात्मनः परेषांवा विनिहननं आपत्तव्यं नलोब्धव्यं-सामान्येन लोभो न विधेयः न तोष्टव्यं-प्राप्तौ न तोषो विधेयः न हसितव्यं प्राप्तौ विस्मयेन हासो न विधेयो न स्मृतं वा-मणं मतिंवा-तद्विषयं ज्ञानं 'तत्थ'त्ति तेषुशब्देषु कुर्यात्, पुनरपिचेतिशब्दगतंप्रकारान्तरं पुनरन्यदपि चोच्यत इत्यर्थः, श्रोत्रेन्द्रियेण श्रुत्वा शब्दान् अमनोज्ञाः सन्तो ये पापकास्ते अमनोज्ञपापकाः तान् ‘किंते'त्ति तद्यथा आक्रोशो-म्रियस्वेत्यादि वचनंपरुषं-रेमुण्ड! इत्यादिकं खिंसनं निन्दावचनं अशीलोऽसावित्यादिकं अपमान-अपूजावचनं यूयमित्यादिवाच्ये त्वमित्यादि यथा,
तर्जनं-ज्ञास्यसि रे इत्यादि वचनं निर्भत्सनं-अपसर मे दृष्टिमार्गादित्यादिकं दीप्तवचनं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548