Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 507
________________ ५०४ असंयमः - असंयतत्वं, द्वावेव च रागद्वेषौ बन्धने इति शेषः, प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४४ त्रयश्च दण्डाः-आत्मनो दण्डनात् दुष्प्रणिहितमनोवाक्कायलक्षणाः, गौरवाणि चगृद्धयभिमानाभ्यामात्मनः कर्मणो गौरवहेतवः ऋद्धिरससातविषयाः परिणामविशेषाः, त्रीणीति प्रकृतमेव, तथा 'गुत्तीओ तिण्णि' त्ति गुप्तयो मनोवाक्कायलक्षणा अनवद्यप्रवीचाराप्रवीचाररूपाः, तिनश्च विराधनाः - ज्ञानादीनां सम्यगननुपालनाः, चत्वारः कषायाः क्रोधादयः ध्यानानि - एकाग्रतालक्षणानि आर्त्तरौद्रधर्म्मशुक्लाभिधानानि संज्ञाः - आहारभयमैथुनपरिग्रहसंज्ञाभिधानाः विकथाः - स्त्रीभक्तदेशराजकथालक्षणाः तथा च भवन्ति चतस्रः, पञ्च च क्रियाः - जीवव्यापारात्मिकाः कायिक्याधिकरणिकीप्राद्वेषिकीपारितापनिकीप्राणातिपातक्रियालक्षणा भवन्तीति सर्वत्र क्रिया दृश्या, तथा 'समितिइंदियमहव्वयाइ य'त्ति समितीन्द्रियमहाव्रतानि पञ्च भवन्तीति प्रकृतं, तत्र समितयः - ईर्यासमित्यादयः निरवद्यप्रवृत्तिरूपाः इन्द्रियाणि - स्पर्शनादीनि महाव्रतानि च-प्रतीतान्येवेति, तथा षट् जीवानिकायाः - पृथिव्यादयः षट् च लेश्याः - कृष्णनीलकापोततेजःपद्मशुक्लानामिकाः, तथा 'सत्त भय'त्ति सप्त भयानि, इहलोकभयं - स्वजातीयात् मनुष्यादेर्मनुष्यादिकस्यैव भयं परलोकभयं-विजातीयात्तिर्यगादेः मनुष्यादिकस्य भयं, आदानभयं - द्रव्यमाश्रित्य भयं अकस्माद्मयं–बाह्यनिमित्तानपेक्षं आजीविकाभयं -वृत्तिभयमित्यर्थः मरणभयं अश्लोकभयमिति, 'अट्ठयमय'त्ति अष्टौ च मदाः - मदस्थानानि, तद्यथा ॥ १ ॥ “जाई १ कुल २ बल ३ रूवे ४ तव ५ ईसरिए ६ सुए ७ लाभे ८ ।” -नव चैव ब्रह्मचर्यगुप्तयः, - “वसहि १ कह २ निसद्धिं ३ दिय ४ कुडुंतर ५ पुव्वकीलिए ६ पणीए ७ । अतिमायाहार ८ विभूसणा य ९ नव बंभगुत्तीओ ।" त्ति एवंलक्षणा भनव्तीनि गम्यं, दशप्रकारश्च श्रमणधर्म्मो, यथा ॥ १ ॥ “ खंती य १ मद्दव २ जव ३ मुत्ती ४ तव ५ संजमे य बोद्धव्वे ६ । सच्चं सोयं ८ अकिंचणं च ९ बंभं च १० जइधम्मो ॥" - एकादश चोपासकानां श्रावकाणां प्रतिमा भवन्तिति गम्यं ॥ १ ॥ “दंसण १ वय २ सामाइय ३ पोसह ४ पडिमा ५ अबंभ ६ सच्चित्ते ७ । आरंभ ८ पेस ९ उद्दिवज्जए १० समणभूए य ॥” इह च गाथायं प्रतिमेति - कायोत्सर्गः अब्रह्मादिषु पञ्चसु पदेषु वर्जकशब्दो योजनीयः, तथा द्वादश च भिक्षुप्रतिमाः - साधूनामभिग्रहविशेषा, ताश्चेमाः 119 11 "मासाई सत्तंता ७ पढमा १ बिय २ तिय ३ सत्त राइदिणा । अहराइ ११ एगराइ १२ भिक्खुपडिमाण बारसगं ।” त्ति, For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548