________________
५०४
असंयमः - असंयतत्वं,
द्वावेव च रागद्वेषौ बन्धने इति शेषः,
प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४४
त्रयश्च दण्डाः-आत्मनो दण्डनात् दुष्प्रणिहितमनोवाक्कायलक्षणाः, गौरवाणि चगृद्धयभिमानाभ्यामात्मनः कर्मणो गौरवहेतवः ऋद्धिरससातविषयाः परिणामविशेषाः, त्रीणीति प्रकृतमेव, तथा 'गुत्तीओ तिण्णि' त्ति गुप्तयो मनोवाक्कायलक्षणा अनवद्यप्रवीचाराप्रवीचाररूपाः, तिनश्च विराधनाः - ज्ञानादीनां सम्यगननुपालनाः,
चत्वारः कषायाः क्रोधादयः ध्यानानि - एकाग्रतालक्षणानि आर्त्तरौद्रधर्म्मशुक्लाभिधानानि संज्ञाः - आहारभयमैथुनपरिग्रहसंज्ञाभिधानाः विकथाः - स्त्रीभक्तदेशराजकथालक्षणाः तथा च भवन्ति चतस्रः,
पञ्च च क्रियाः - जीवव्यापारात्मिकाः कायिक्याधिकरणिकीप्राद्वेषिकीपारितापनिकीप्राणातिपातक्रियालक्षणा भवन्तीति सर्वत्र क्रिया दृश्या, तथा 'समितिइंदियमहव्वयाइ य'त्ति समितीन्द्रियमहाव्रतानि पञ्च भवन्तीति प्रकृतं, तत्र समितयः - ईर्यासमित्यादयः निरवद्यप्रवृत्तिरूपाः इन्द्रियाणि - स्पर्शनादीनि महाव्रतानि च-प्रतीतान्येवेति,
तथा षट् जीवानिकायाः - पृथिव्यादयः षट् च लेश्याः - कृष्णनीलकापोततेजःपद्मशुक्लानामिकाः, तथा
'सत्त भय'त्ति सप्त भयानि, इहलोकभयं - स्वजातीयात् मनुष्यादेर्मनुष्यादिकस्यैव भयं परलोकभयं-विजातीयात्तिर्यगादेः मनुष्यादिकस्य भयं, आदानभयं - द्रव्यमाश्रित्य भयं अकस्माद्मयं–बाह्यनिमित्तानपेक्षं आजीविकाभयं -वृत्तिभयमित्यर्थः मरणभयं अश्लोकभयमिति, 'अट्ठयमय'त्ति अष्टौ च मदाः - मदस्थानानि, तद्यथा
॥ १ ॥ “जाई १ कुल २ बल ३ रूवे ४ तव ५ ईसरिए ६ सुए ७ लाभे ८ ।” -नव चैव ब्रह्मचर्यगुप्तयः, -
“वसहि १ कह २ निसद्धिं ३ दिय ४ कुडुंतर ५ पुव्वकीलिए ६ पणीए ७ । अतिमायाहार ८ विभूसणा य ९ नव बंभगुत्तीओ ।" त्ति एवंलक्षणा भनव्तीनि गम्यं, दशप्रकारश्च श्रमणधर्म्मो, यथा
॥ १ ॥ “ खंती य १ मद्दव २ जव ३ मुत्ती ४ तव ५ संजमे य बोद्धव्वे ६ । सच्चं सोयं ८ अकिंचणं च ९ बंभं च १० जइधम्मो ॥" - एकादश चोपासकानां श्रावकाणां प्रतिमा भवन्तिति गम्यं
॥ १ ॥ “दंसण १ वय २ सामाइय ३ पोसह ४ पडिमा ५ अबंभ ६ सच्चित्ते ७ । आरंभ ८ पेस ९ उद्दिवज्जए १० समणभूए य ॥”
इह च गाथायं प्रतिमेति - कायोत्सर्गः अब्रह्मादिषु पञ्चसु पदेषु वर्जकशब्दो योजनीयः, तथा द्वादश च भिक्षुप्रतिमाः - साधूनामभिग्रहविशेषा, ताश्चेमाः
119 11
"मासाई सत्तंता ७ पढमा १ बिय २ तिय ३ सत्त राइदिणा । अहराइ ११ एगराइ १२ भिक्खुपडिमाण बारसगं ।” त्ति,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org