Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 519
________________ ५१६ प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४५ जातो यत्र तत्पर्यवजातं कूरादिकमुद्धरितं दध्यादिना विमिश्रितं करम्बादिकं पर्यायान्तरमापादितमित्यर्थः अयमप्यौद्देशिकभेदः कृताभिधानंउक्तः,प्रकीर्ण-विक्षिप्तं विच्छर्दितं-परिशाटीत्यर्थः, अनेन च छर्दिताभिधान एषणादोष उक्तः, ___पाउकरण'त्ति प्रादुःक्रियते-अन्धकारापवरकादेः साध्वर्थं बहिःकरणेन दीपमण्यादिधरणेन वा प्रकाश्यते यत्तत् प्रादुष्करणमशनादि, आह च-“नीयदुवारंधारे गवक्खकरणाइ पाउओ पाउ । करणंतु" 'पामचं'तिअपमित्यकंउद्यतकं-उच्छिन्नमित्यर्थःआहच–“पामिच्चंजंसाहूणट्ठाओछिंदिउं दियावेति"त्ति -एषां च समाहारद्वन्द्वः, 'मीसक'त्ति मिश्रजातं साध्वर्थं गृहस्यार्थं चादित उपस्कृतं, आह च–'पढम चिय गिहिसंजयमीसोवक्खडाइ मीसं तु" 'कीयगड'त्ति क्रीतेन-क्रयेण कृतंसाधुदानाय कृतं क्रीतकृतं, आह च-'दव्वाइएहिं साहूणट्टाए कीयं तु" ‘पाहुडं वत्ति प्राभृतं प्राभृतिकेत्यर्थः, तल्लक्षणंचेदम्-“सुहुमेयरमुस्सक्णमवसक्कणमोयपाहुडिया" ततः पदत्रयस्यकर्मधारयः समाहारद्वन्द्वः, वाशब्दः पूर्ववाक्यापेक्षयाविकल्पार्थः, दानामर्थो यस्य तद्दानार्थं, पुण्यार्थ प्रकृतंसांधितं पुण्यप्रकृतं, पदद्वयस्य द्वन्द्वः, तथा श्रमणाः पञ्चविधाः 'निग्गंथसक्कतावस गेरुयआजीव पंचहा समणा' वनीपकाश्च-तर्कुकास्तएवार्थः-प्रयोजनं यस्य तत्तथा तद्भावस्तत्ता तया, वा विकल्पार्थः कृतं-निष्पादितं, इह कश्चिद्दाता दानमेवालंबते दातव्यं मयेति अन्यस्त पुण्यं पुण्यं मम भूयादित्येवंअन्यस्तु श्रमणान् अन्यस्तुवनीपकानितिचत्वारोऽप्यौद्देशिकस्य भेदा एते उक्ता इति, “पच्छाकम्म"ति पश्चात्-दानानन्तरं कर्म-भाजनधावनादि यत्राशनादौ तत्पश्चात्कर्म 'पुरेकम्म'ति पुरो-दानात् पूर्वं कर्म-हस्तधावनादि यत्र तत्पुरःकर्म 'निइयं'ति नैत्यिक सराब्दिकमवस्थितं मनुष्यपोषादिप्रमाणं 'मक्खियंति उदकादिना संसृष्टं, यदाह “मक्खियमुदकाइणा उजं जुत्तं" अयमेषणादोष उक्तः, अतिरित्तंति, ॥१॥ "बत्तीसं किर कवला आहारो कुच्छिपूरओ भणितो। परिसस्स महिलियाए अट्ठावीसं भवे कवला ॥" एतत्प्रमाणातिक्रान्तमतिरिक्तं, अयं च मण्डलीदोष उक्तः, 'मोहरं चेव'त्ति मौखर्येण पूर्वसंस्तवपश्चात्संस्तवादिना बहुभाषित्वेन यल्लभ्यते तन्मौखरंअयमुत्पादनादोष उक्तः, सयग्गह'त्ति स्वयं-आत्मना दत्तं गृह्यते यत्तत्स्वयंग्राहं, अयमपरिणताभिधान एषणादोष उक्तः, दायकस्य दानेऽपरिणतत्वादिति, आहडंतिस्वग्रामादेःसाध्वर्थमाहृतं-आनीतं,आहच–“सग्गामपरग्गामा जमाणियं आहडं तुतं होइ।" ___'मट्टिओवलित्तंति, उपलक्षणत्वान्मृत्तिकाग्रहणस्य मृत्तिकाजतुगोमयादिना उपलिप्तं सत् यदुद्भिदय ददाति तन्मृत्तिकोपलिप्तं उद्भिन्नमित्यर्थः, आह च-“छगणाइणोवलित्तं उब्भिंदिय जंतमुभिण्णं" 'अच्छेण्णं चेव'त्ति आच्छेद्यं यदाच्छिद्य भृत्यादिभ्यः स्वामी ददाति, आह च“अच्छेज्जं अच्छिदिय जं सामिय भिच्चमाईणं" अनिसृष्टं-बहुसाधारणं सत् यदेक एव ददाति “अनिसिटुं सामण्णं गोट्ठियभत्ताइ ददउ एगस्स" एतेषूद्दिष्टादिषु प्राय उद्गमदोषा उक्ताः, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548