Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 471
________________ ४६८ प्रश्नव्याकरणदशाङ्गसूत्रम् २/१/३४ न-नैवलक्षणं-शब्दप्रमाणस्त्रीपुराषवास्त्वादिलक्षणं उत्पाताः-प्रकृतिविकाराः रक्तवृष्टायादयः स्वप्नो-निद्राविकारः ज्योतिषं-नक्षत्रचन्द्रयोगादिज्ञानोपायशास्त्रं निमित्तं-चूडामण्याधुपदेशेनातीतादिभावसंवादनं कथा अर्थकथादिका कुहकं-परेषांविस्मयोत्पादनप्रयोगः एभिराक्षिप्तेन यत्प्रयुक्तं-दानाय दायकेन व्यापारितं भैक्षं तत्तथा, तथा नापि दम्भनया-दम्भेन मायाप्रयोगेण नापि रक्षणया दायकस्य पुत्रतर्णकगृहादीनां नापी शासनया-शिक्षणया नाप्युक्तत्रय- समुदायेनेत्याह-'नवी'त्यादि भैक्षं-भिक्षासमूहो गवेषयितव्यंअन्वेषणीयं, नापि वन्दनेन-स्तवनेन यथा॥१॥ “सो एसो जस्स गुणा वियरंति अवारिया दसदिसासु। इहरा कहासु सुव्वसि पच्चक्खं अज्ज ट्ठिोऽसि ॥" नापि माननाय आसनदानादिप्रतिपत्त्या नापि पूजनया-तीर्थनिर्माल्यदानमस्तकगन्धक्षेपमुखवस्त्रिकानमस्कारमालिकादानादिलक्षणया नाप्युक्तत्रयोगोनेत्याह-'नवी' त्यादि, तथा नापि हीलनया-जात्युद्घट्टनतः नापि निन्दनया-देवदायकदोषोद्घट्टनेन नापि गर्हणयालोकसमक्षदायकादिन्दिया, नाप्येतत्रितयेनेत्याह-'नवी'त्यादि, नापि भेषणया-अदित्सतो भयोत्पादनेन नापि तर्जनया-तर्जनीचालनेन ज्ञास्यसि रे दुष्ट ! इत्यादिभणरूपया नापि ताडनया-चपेटादिदा-नतः, ___ नाप्युक्तत्रययोगेनेत्याह-'नवी'त्यादि, नापि गौरवेण-गर्वेण राजपूजितोऽहमित्याद्यभिमानेन नापि कुरुधनतया-दारिद्रयभावेन प्राकृतत्वेन वा क्रोधनतया नापि वनीपकतयारङ्गवल्लल्लिव्याकरणेन नाप्युक्तत्रयमीलनेनेत्याह-'नवी' त्यादि, नापि मित्रतया-मित्रभावमुपगम्यत्यतः गपिप्रार्थनया याञ्चयाअपितु साधुरूपसन्दर्शनेन, आह च–“पडिस्वेण एसित्ता, मियंकालेणभक्खए।"नापिसेवनया-खामिनोभृत्यवत्, नापियुगपदुक्तत्रयमीलन-केनेत्याह'नवी'त्यादि, यद्येवमेवच नगवेषयति भैक्षं भिक्षुस्तर्हि तद्गवेषणायां किंविधोऽसौ भवेदित्याह अज्ञातः-स्वयं स्वजनादिसम्बन्धाकथनेन गृहस्थैरपरिज्ञातस्वजनादिभावः तथा 'अगढिए'त्ति अग्रथितः परिज्ञानेऽपि तेषु तेन सम्बन्धिकनाऽप्रतिबदअधः आहारे वाऽगृद्धः 'अदुट्टे'त्ति आहारे दायके वाऽद्धिष्टः अदुष्टो वा ‘अद्दीण'त्ति अद्रीणः-अक्षुभितः अविमना-न विगतमानसःअलाभादिदोषात् अकरुणो-न दयास्थानंन्यग्वृत्तित्वात् अविषादी-अविषादवान् अदीन इत्यर्थः अपरितान्ताः-अश्रान्ताः योगा-मनःप्रभृतयः सदनुष्ठानेषुयस्य सोऽपरितान्तयोगी अत एव यतनं-प्राप्तेषु संयमयोगेषु प्रयत्न उद्यमःघटनंच-अप्राप्तसंयमयोगप्राप्यते यत्न एव ते कुरुतेयः सयतनघटनकरणः तथा चरितः-सेवितोविनयोयेन सचरितविनयः, तथा गुणयोगेनक्षमादिगुणसम्बन्धेन सम्प्रयुक्तो यः स तथा, ततः पदत्रयस्य कर्मधारयः, भिक्षुर्भिक्षैषणायां निरतो भवेदिति गम्यते, 'इमं च'त्ति इदं पुनः पूर्वोक्तगुणभैक्षातदिप्रतिपादनपरं प्रवचमिति योगः सर्वजगजीवरक्षणरूपा या दया तदर्थं प्रावचनं-प्रवचनं शासनं भगवता श्रीमन्महावीरेण सुकथितं न्यायाबाधितत्वेन आत्मनां-जीवानां हितं आत्महितं 'पेच्चाभावियं'त्ति प्रेत्य-जनमान्तरे भवति-शुद्धफलतया परिणमतीत्येवंशीलं प्रेत्यभाविकं आगमिष्यति काले भद्रं-कल्याणं यतस्तदागमिष्यद्भद्रं शुद्धं--निर्दोषं 'नेआउयंति नैयायिकं न्यायवृत्ति अकुटिलं-मोक्षं प्रति ऋजु अनुत्तरं सर्वेषां For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548