Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
४९४
प्रश्नव्याकरणदशाङ्गसूत्रम् २/४/३९ सुपर्णकुमाराणांयथावेणुदेवःप्रवरः तथाव्रतानांब्रह्मचर्यमितिप्रकृतं, तथाधरणोयथा पन्नगेन्द्राणांभुजगवराणां नागकुमाराणां राजा पन्नगेन्द्रराजः पन्नगानां प्रवरः एवमिदं व्रतानामिति प्रक्रमः,
कल्पानामिव-देवलोकानां यथा ब्रह्मलोकः-पञ्चमदेवलोकः तत्क्षेत्रस्य महत्त्वात् तदिन्द्रस्यातिशुभपरिणामत्वात् प्रवरः एवमिदं व्रतानां, सभासु च-प्रतिभवनविमानभाविनीषु सुधर्मसभा उत्पादसभा अभिषेकसभा अलङ्कारसभा व्यवसायसभा चेत्येवंलक्षणासु पञ्चसु मध्ये यथा सुधर्मा भवतिप्रवरा तथेदं व्रतानामिति, स्थितिषु-आयुष्केषु मध्ये लवसप्तमा-अनुत्तरसुरभवस्थिति; वाशब्दो यथाशब्दार्थः ततो यथा प्रवरा-प्रधानातथेदंव्रतानामिति, तत्रैकोनपञ्चाशत उच्छ्वासानां लवो भवति, व्रीह्यादिस्तम्बलवनं वा लवस्तप्रमाणः कालोऽपि लवः, ततो लवैः सप्तमैः-सप्तप्रमाणैः सप्तसङ्खयैर्विवक्षिताध्यवसायविशेषस्य मुक्तिसम्पादकस्या- पूर्यमाणैर्या स्थितिर्बध्यतेसालवसप्तमत्यभिधीयते, तथा 'दानाणंचेवअभयदाणं ति दानानांमध्येऽभयदानमिव प्रवरमिदं,
___ तत्रदानानि ज्ञानधर्मोपग्रहाभयदानभेदात्रीणि, 'किमिरागोव्वकंबलाणं ति कम्बलानांवासोविशेषाणां मध्ये कृमिराग इव-कृमिरागरक्तकम्बल इव प्रवरमिदं व्रतानां, तथा संहनने चेव वज्जरिसह'त्ति संहनानांचतुरस्रसंस्थानमिवेदंप्रवरंव्रतानां, तथाध्यानेषुचपरमशुक्लध्यानंशुक्लध्यानचतुर्थभेदरूपं यथा प्रवरमेवमिदं व्रतेष्विति गम्यं 'नाणेसु य परमकेवलं तु सिद्धति ज्ञानेषु-आभिनिबोधिकादिषुपरमंचतत्केवलंच-परिपूर्ण विशुद्धं वामतिश्रुतावधिमनःपर्यायापेक्षया परमकेवलं क्षायिकज्ञानमित्यर्थः तुरेवकारार्थःसिद्धं-प्रवरतया प्रसिद्धं यथा तथेदमपि व्रतेष्विति गम्यं,तीर्थकरश्चैव यथा मुनीनांप्रवरस्तथैवेदं व्रतानां, वर्षेषु-क्षेत्रेषु यथा महाविदेहस्तथेदं व्रतेषु, 'गिरिराया चेव मंदरवरे'ति चेवशब्दास्य यथार्थत्वात् यथा मन्दरवरो- जम्बूद्वीपमेरुगिरिराजस्तथेदंव्रतराजः, वनेषुभद्रशालनन्दसौमनसपण्डकाभिधानेषुमेरुसम्बन्धिषुयथानन्दनवनं प्रवरमेवमिदमिति,
द्रुमेषु-तरुषु मध्ये यथा जम्बूः सुदर्शनेति-सुदर्शनाभिधाना विश्रुतयशाः-विख्याता एवमिदमिति, किम्भूताजम्बूः?-यस्यानाम्नाऽयंद्वीपः जम्बूद्वीपइत्यर्थः, यथा तुरगपतिर्गजपती रथपतिर्नरपतिः यथा विश्रुतश्चैव राजा तथेदमपि विश्रुतमिति भावः, रथिकश्चैव यथा महारथगतःपराभिभावी भवतीत्येवमिहस्थः कर्मरिपुसैन्याभिभावी भवतीति, निगमयन्नाह
एवं-उक्तक्रमेणानेके गुणाःप्रवरत्वविश्रुतत्वादयोऽनेकनिदर्शनाभिधेयाः अहीनाः-प्रकृष्टा अधीना वा-स्वायत्ता भवन्ति, कवेत्याह-एकस्मिन् ब्रह्मचर्ये-चतुर्थे व्रते, तथा यस्मिंश्च ब्रह्मचर्ये आराधिते-पालिते आराधितं-पालितं व्रतमिदं-निर्ग्रन्थप्रव्रज्यालक्षणं सर्वं-अखण्डं, तथा शीलं-समाधानंतपश्चविनयश्चसंयमश्च क्षान्तिर्गुप्तिर्मुक्तिः-निर्लोभता सिद्धिर्वा तथैवेति समुच्चये तथा एहिवालौकिकयशांसि च कीर्तयश्च प्रत्ययश्च आराधिता भवन्तीति प्रक्रमः तत्र यशः-पराक्रमकृतंकीर्तिः-दानपुण्यफलभूताअथवा सर्वदिग्गामिनी प्रसिद्धिर्यशः एकदिग्गामिनी कीर्तिः प्रत्ययः-साधुरयं इत्यादिरूपा जनप्रतीतिरिति, यत एवंभूतं तस्मान्निभृतेन-स्तिमितेन ब्रह्मचर्यं चरितव्यं-आसेवनीयं, किंभूतं?
पर्वतो-मनःप्रभृतिकरणत्रययोगत्रयण विशुद्धं-निरवद्यं यावजीवया प्रतिज्ञया
Jain Education International
ational
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548