SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ ४९४ प्रश्नव्याकरणदशाङ्गसूत्रम् २/४/३९ सुपर्णकुमाराणांयथावेणुदेवःप्रवरः तथाव्रतानांब्रह्मचर्यमितिप्रकृतं, तथाधरणोयथा पन्नगेन्द्राणांभुजगवराणां नागकुमाराणां राजा पन्नगेन्द्रराजः पन्नगानां प्रवरः एवमिदं व्रतानामिति प्रक्रमः, कल्पानामिव-देवलोकानां यथा ब्रह्मलोकः-पञ्चमदेवलोकः तत्क्षेत्रस्य महत्त्वात् तदिन्द्रस्यातिशुभपरिणामत्वात् प्रवरः एवमिदं व्रतानां, सभासु च-प्रतिभवनविमानभाविनीषु सुधर्मसभा उत्पादसभा अभिषेकसभा अलङ्कारसभा व्यवसायसभा चेत्येवंलक्षणासु पञ्चसु मध्ये यथा सुधर्मा भवतिप्रवरा तथेदं व्रतानामिति, स्थितिषु-आयुष्केषु मध्ये लवसप्तमा-अनुत्तरसुरभवस्थिति; वाशब्दो यथाशब्दार्थः ततो यथा प्रवरा-प्रधानातथेदंव्रतानामिति, तत्रैकोनपञ्चाशत उच्छ्वासानां लवो भवति, व्रीह्यादिस्तम्बलवनं वा लवस्तप्रमाणः कालोऽपि लवः, ततो लवैः सप्तमैः-सप्तप्रमाणैः सप्तसङ्खयैर्विवक्षिताध्यवसायविशेषस्य मुक्तिसम्पादकस्या- पूर्यमाणैर्या स्थितिर्बध्यतेसालवसप्तमत्यभिधीयते, तथा 'दानाणंचेवअभयदाणं ति दानानांमध्येऽभयदानमिव प्रवरमिदं, ___ तत्रदानानि ज्ञानधर्मोपग्रहाभयदानभेदात्रीणि, 'किमिरागोव्वकंबलाणं ति कम्बलानांवासोविशेषाणां मध्ये कृमिराग इव-कृमिरागरक्तकम्बल इव प्रवरमिदं व्रतानां, तथा संहनने चेव वज्जरिसह'त्ति संहनानांचतुरस्रसंस्थानमिवेदंप्रवरंव्रतानां, तथाध्यानेषुचपरमशुक्लध्यानंशुक्लध्यानचतुर्थभेदरूपं यथा प्रवरमेवमिदं व्रतेष्विति गम्यं 'नाणेसु य परमकेवलं तु सिद्धति ज्ञानेषु-आभिनिबोधिकादिषुपरमंचतत्केवलंच-परिपूर्ण विशुद्धं वामतिश्रुतावधिमनःपर्यायापेक्षया परमकेवलं क्षायिकज्ञानमित्यर्थः तुरेवकारार्थःसिद्धं-प्रवरतया प्रसिद्धं यथा तथेदमपि व्रतेष्विति गम्यं,तीर्थकरश्चैव यथा मुनीनांप्रवरस्तथैवेदं व्रतानां, वर्षेषु-क्षेत्रेषु यथा महाविदेहस्तथेदं व्रतेषु, 'गिरिराया चेव मंदरवरे'ति चेवशब्दास्य यथार्थत्वात् यथा मन्दरवरो- जम्बूद्वीपमेरुगिरिराजस्तथेदंव्रतराजः, वनेषुभद्रशालनन्दसौमनसपण्डकाभिधानेषुमेरुसम्बन्धिषुयथानन्दनवनं प्रवरमेवमिदमिति, द्रुमेषु-तरुषु मध्ये यथा जम्बूः सुदर्शनेति-सुदर्शनाभिधाना विश्रुतयशाः-विख्याता एवमिदमिति, किम्भूताजम्बूः?-यस्यानाम्नाऽयंद्वीपः जम्बूद्वीपइत्यर्थः, यथा तुरगपतिर्गजपती रथपतिर्नरपतिः यथा विश्रुतश्चैव राजा तथेदमपि विश्रुतमिति भावः, रथिकश्चैव यथा महारथगतःपराभिभावी भवतीत्येवमिहस्थः कर्मरिपुसैन्याभिभावी भवतीति, निगमयन्नाह एवं-उक्तक्रमेणानेके गुणाःप्रवरत्वविश्रुतत्वादयोऽनेकनिदर्शनाभिधेयाः अहीनाः-प्रकृष्टा अधीना वा-स्वायत्ता भवन्ति, कवेत्याह-एकस्मिन् ब्रह्मचर्ये-चतुर्थे व्रते, तथा यस्मिंश्च ब्रह्मचर्ये आराधिते-पालिते आराधितं-पालितं व्रतमिदं-निर्ग्रन्थप्रव्रज्यालक्षणं सर्वं-अखण्डं, तथा शीलं-समाधानंतपश्चविनयश्चसंयमश्च क्षान्तिर्गुप्तिर्मुक्तिः-निर्लोभता सिद्धिर्वा तथैवेति समुच्चये तथा एहिवालौकिकयशांसि च कीर्तयश्च प्रत्ययश्च आराधिता भवन्तीति प्रक्रमः तत्र यशः-पराक्रमकृतंकीर्तिः-दानपुण्यफलभूताअथवा सर्वदिग्गामिनी प्रसिद्धिर्यशः एकदिग्गामिनी कीर्तिः प्रत्ययः-साधुरयं इत्यादिरूपा जनप्रतीतिरिति, यत एवंभूतं तस्मान्निभृतेन-स्तिमितेन ब्रह्मचर्यं चरितव्यं-आसेवनीयं, किंभूतं? पर्वतो-मनःप्रभृतिकरणत्रययोगत्रयण विशुद्धं-निरवद्यं यावजीवया प्रतिज्ञया Jain Education International ational For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy