Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 496
________________ द्वारं-२, अध्ययनं-४, ४९३ बंभचारिं नमसंति दुक्करंजं करिति ते॥" “पउमसरतलागपालिभूयति सरः-स्वतः-सम्भवो जलाशयविशेषः तडागश्च स एव पुरुषादिकृत इति समाहारद्वन्द्वः पद्मप्रधानं सरस्तडागं पद्मसरस्तडागं पद्मसरस्तडागमिव. मनोहरत्वेनोपादेयत्वात् पद्मसरस्तडागं-धर्मस्तस्य पालिभूतं-रक्षकत्वेन पालिकल्पं यत्तत्तथा, तथामहाशकटारका इवमहाशकटारकाः-क्षान्तायादिगुणास्तेषांतुम्बभूतं-आधारसमाऱ्यांन्नाभिकल्पं यत्तत्तथा, महाविटपवृक्ष इव–अतिविस्तारभूरुह इव महाविटपवृक्षः-आश्रितानां परमोपकारत्वसाधाद्धर्मः तस्य स्कन्धभूतं-तस्मिन्सतिसर्वस्यधर्मशाखिन उपपधद्यामानत्वेन नालकल्पं यत्तत्तथा 'महानगरपागारकवाडफलिहभूयंति महानगरमिव महानगरं-विविधसुखहेतुत्वसाधाद्धर्मःतस्य प्राकार इव कपाराटमिव परिघमिव यत्तत्त महानगरकपाटपरिघभूतमिति, रज्जुपिनद्धइवइन्द्रकेतुः-रश्मिनियन्त्रितेवेन्द्रयष्टिः विशुद्धानेकगुणसंपिनद्धं-निर्मलबहुगुणपरिवृतं, यस्मिंश्च-यत्रचब्रह्मचर्येभग्ने विराधितेभवति सम्पद्यते सहसा-अकस्मात् सर्वं-सर्वथा सम्भग्नं घट इव मथितं-दधीव विलोडितं चूर्णितं-चणक इव पिष्टं कुशल्यितं-अन्तःप्रविष्टतोमरादिशल्यशरीरमिव सातदुष्टशल्यं 'पल्लट्ट'त्ति पर्वतशिखराद् गण्डशैल इव स्वाश्रयाचलितं पतितं-प्रासादशिखरादेः कलशादिरिवाधो निपतितं खण्डितं-दण्ड इव विभागेन छिन्ने परि शटितं-कुष्ठाधुपहताङ्गमिव विध्वस्तं विनाशितंच-भस्मीभूतपवनविकीर्णदार्विव निस्सत्ताकतां गतं एषां समाहारद्वन्द्वः कर्मधारयो वा, किमेवंविधंभवतीत्याह-विनयशीलतपोनियमगुणसमूह-विनयशीलतपोनियमलक्षणानां गुणानांवृन्दं, इह चसमूहशब्दस्यछान्दसत्वान्नपुंसकनिर्देशः, 'त'मिति तदेवंभूतंब्रह्मचर्यं भगवन्तंभट्टारकं, तथाग्रहगणनक्षत्रतारकाणां वा यथा उडुपतिः-चन्द्रः प्रवर इति योगस्तथेदंव्रतानामिति शेषः, वाशब्दः पूर्वविशेषणापेक्षया समुच्चये, तथामणयः-चन्द्रकान्ताद्याः मुक्ता-मुक्ताफलानि शिलाप्रवालानि-विद्रुमाणि रक्तरनानि-पद्मरागादीनि तेषामाकरा-उत्पत्तिभूमयो ये ते तथा तेषां वा यथा समुद्रः प्रवरस्तथेदं व्रतानामिति शेषः सर्वत्र दश्यः, वैडूर्यं चैव रत्नविशेषो यथा मणीनां यथा मुकुटं चैव भूषणानां वस्त्राणामिव क्षौमयुगलं काप्पासिकवस्त्रस्य प्रधानत्वात्, इह चेवशब्दो यथार्थो द्रष्टव्यः, अरविंदं चेव'त्ति अरविन्दं-पञतथा पुष्पज्येष्ठमेवमिदं व्रतानां, 'गोसीसंचेव'त्ति गोशीर्षाभिधानं चन्दनं यथा चन्दनानां 'हिमवंतं चेव'ति हिमवानिव औषधीनां, यथा हिमवान्-गिरिविशेषः औषधीनां-अद्भुतकार्यकारिवनस्पतिविशेषाणामुत्पत्तिस्थानमेवं ब्रह्मचर्यमौषधीनां-आम|शौषध्यादीनामागमप्रसिद्धानामुत्पत्तिस्थानमितिभावः, 'सीतोदाचेव'त्ति शीतोदेवनिम्नगानां-नदीनांयथा नदीनांशीतोदाप्रवरातथेदं व्रतानामित्यर्थः, उदधिषु यथा खयम्भूरमणः-अन्तिमसमुद्रो महत्त्वे प्रवरः एवमिदं व्रतानां प्रवरमिति ‘रुयगवरे चेव मंडलिए पव्वयाण पवरे'त्ति यथा माण्डलिकपर्वतानां-मानुषोत्तरकुण्डलवररुचकवराभिधानानां मध्ये रुचकवरः-त्रयोदशद्वीपवर्ती प्रवरः एवमिदं व्रतानां प्रवरमिति भावः, तथा ऐरावण इव-शक्रगजोयथा कुञ्जराणांप्रवरः एवमिदंव्रतानां, सिंहोवायथा मृगाणांआटव्यपशूनां प्रवरः-प्रधानः एवमिदं व्रतानां पवगाणं चेव'त्ति प्रवकाणामिव-प्रक्रमात् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548