Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 480
________________ द्वारं-२, अध्ययनं-२, ४७७ जात्यादीनां समाहापरद्वन्द्वः, ततो जात्यादिना निन्दितेन परचित्तपीडाकारित्वाद्यद्भवेद्वर्जनीयं-परिहर्त्तव्यं तदेवंविधं सत्यमपि न वक्तव्यमिति वाक्यार्थः, तत्र जातिः-मातृकः पक्षः कुलं-पैतृकः पक्षः रूपं-आकृतिः व्याधिः-चिरस्थाता कुष्ठादिः रोगः-शीघ्रतरघाती ज्वरादिः वा विकल्पेअपिः समुच्चये 'दुहिलं ति द्रोहवत् पाठान्तरेण ‘दुहओ'त्तिद्रव्यतो भावतश्च उपचारंपूजामुपकारंवा अतिक्रान्तं, एवंविधंतु-एवंप्रकारंपुनः सत्यमपि सद्भूततामात्रेण आस्तामसत्यं न वक्तव्यं-न वाच्यं, ___'अथ केरिसगं'ति अथशब्दः परिप्रश्ने कीशकं ? -किंविधं 'पुणाईति इह पुनरपि पूर्ववाक्याथपिक्षयोत्तरवाक्यार्थस्य विशेषद्योतनार्थः आइन्तिवाक्यालङ्कारार्थः ‘सच्चंतु'त्ति सत्यमपि भाषितव्यं-वक्तव्यं यत्तद् द्रव्यैः-त्रिकालनुगतिलक्षणैः पुद्गलादिभिर्वस्तुभिः पर्यायैश्चनवपुराणादिभिः क्रमवर्त्तिभिर्धर्मेः गुणैः-वर्णादिभिः सहभाविभिर्द्धम्मैरेव कर्मभिः- कृष्यादिव्यापारैः बहुविधैः शिल्पैः-साचार्यकैश्चित्रकर्मादिभिः क्रियाविशेषैः आगमैश्च-सिद्धानताथैयुक्तमिति सम्बन्धः कार्यः, युक्तशब्दस्योत्तरत्र समस्तनिर्देशेऽपि प्राकृतशैलीवशात् द्रव्यादियुक्तत्वं वचनस्य तदभिधायकत्वाद्, अथवा द्रव्यादिषु विषये द्रव्यादिगोचरमित्यर्थः, तथा “नामाख्यातनिपातोपसर्गतद्धितसमाससन्धिपदहेतुयोगिकोणादिक्रियाविधानधातुस्वर विभक्तिवर्णयुक्त मिति तत्र नामेति पदशब्दसम्धान्नामपदमेवमुत्तरत्रापि, तच्चाव्युत्पन्नेतरभेदाद द्विधा, तत्रव्युत्पन्नं देवदत्तादिअव्युत्पन्नंडित्थेत्यादि, आख्यातपदंसाध्यक्रियापदं यथा अकरोत् करोति करिष्यति, तत्तदर्थद्योतनाय तेषु तेषु स्थानेषु निपतन्तीति निपाताः तत्पदं निपातपदं यथा च वा खल्चित्यादि, उपसृज्यन्ते-धातुसमीपे नियुज्यन्त इत्युपसर्गास्तद्रूपं पदमुसर्गपदं प्रपरा अपेत्यादिवत्, तस्मै हितं तद्धितमित्याद्यर्थाभिधायका ये प्रत्ययास्ते तद्धिताः तदन्तं पदं तद्धितपदं यथा गोभ्यो हितो गव्यो देशः नाभेरपत्यं नाभेय इत्यादि, समसनं समासःपदानामेकीकरणरूपः तत्पुरुषादिस्तत्पदं समासपदं यथा राजपुरुष इत्यादि, सन्धिः-सन्निकर्षस्तेन पदं यथा दधीदं तद्यथेत्यादि, तथा हेतुः-साध्याविनाभूतत्वलक्षणो यथाऽनित्यः शब्दः कृतकत्वादिति, यौगिकं-यदेतेषामेव व्यादिसंयोगवत्, यथा उपकरोति सेनयाऽ- भियाति अभिषेणयतीत्या, तथा उणादि-उणप्रभृतिप्रत्ययान्तं पदं यथा आशु स्वादु, तथा क्रियाविधानं-सिद्धक्रियाविधिः कान्तप्रत्ययान्तपदविधिरित्यर्थः, यथा पाचकः पाक इत्यादि, तथा धातवो-भ्वादयः क्रियाप्रतिपादकाः स्वरा-अकारादयः षड्जादयो वा सप्त, क्वचिद्रसा इति पाठः तत्र रसाः-श्रृङ्गारादयो नव, यथा॥१॥ "श्रृङ्गारहास्यकरुणा, रौद्रवीरभयानकाः । बीभत्साद्भुतशान्ताश्च, नव नाट्ये रसाः स्मृताः ॥" विभक्तयः-प्रथमाद्याः सप्त वर्णाः-ककारादिव्यञ्जनानि एभिर्युक्तं यत्तत्तथा, अथ सत्यं भेदत आह-त्रैकाल्यं-त्रिकालविषयं दशविधमपि सत्यं भवतीति योगः, दशविधत्वं च सत्यस्य जनपदसम्मतसत्यादिभेदात्, आह च॥१॥ “जनवय १ संमय २ ठवणा ३ नामे ४ रूवे ५ पडुच्चसच्चे य ६ । ववहार ७ भाव ८ जोगे ९ दसमे ओवम्मसच्चे य १०॥" त्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548