Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 491
________________ ४८८ प्रश्नव्याकरणदशाङ्गसूत्रम् २/३/३८ 'बीय'ति द्वितीयं भावनावस्तु अनुज्ञातसंस्तारकग्रहणं नाम, तच्चैवम्-आरामोदम्पतिरमणस्थानभूतमाधवीलतादिगृहयुक्तः उद्यानं-पुष्पादिम क्षङ्कलादौ उत्सवादौ बहुजनभोग्यं काननं-सामान्यवृक्षोपेतंनगरासन्नंच वनं-नगरविप्रकृष्टं एतेषांप्रदेशरूपोयो भागः सतथा तत्र यत्किञ्चिदिति सामान्येनावग्रहणीयं वस्तु, तदेव विशेषेणाह-इक्कडं वा-ढंढणसशं तृणविशेषं एवं कठिनकंजन्तुकंच-जलाशयजंतृणविशेषमेवपर्णमित्यर्थः तथापरा-तृणविशेषः मेरा तु-मुञ्जसरिका कू! येन तृणविशेषेण कुविन्दाः कूर्चान् कुर्वन्ति कुश दर्भयोराकारकृतो विशेषः पलालं-कङ्गवादीनां मूयको-मेदपाटप्रसिद्धस्तृणविशेषः वल्वजः- तृणविशेषः पुष्पफलत्वक्प्रवालकन्दमूलतृणकाष्ठशर्कराःप्रतीतास्ततः परादीनांद्वन्द्वः पुनस्ताआदिर्यस्यतत्तथा तद् गृह्णाति-आदत्ते, किमर्थं ? -य्योपधेः-संस्तारकरूपस्योपधेरथवा संस्तारकस्योपाधेश्वार्थाय-हेतवे, इह तदिति शेषोदृश्यः, ततस्तन्न कल्पते-न युज्यते अवग्रहे-उपाश्रयान्तर्वर्तिनि अवग्राह्ये वस्तुनि अदत्ते-अननुज्ञातेशय्यादायिना 'गिहिउंचे'त्तिग्रहीतुं-आदातुंजे इति निपातः, अयमभिप्रायःउपाश्रयमनुज्ञाप्य तन्मध्यगतंतृणाद्यप्यनुज्ञापनीयं, अन्यथा तदग्राह्यं स्यादिति, एतदेवाह-'हणि हणि त्ति अहनि २-प्रतिदिवसं, अयमभिप्रायः-उपाश्रयानुज्ञापनादिने 'उग्गहंति अवग्राह्यमिक्कडादि अनुज्ञाप्य ग्रहीतव्यमिति, ‘एव'मित्यादि निगमनंप्रथमभावनावदवसेयं, नवरमवग्रहसमितियोगेन-अवग्रहणीयतृणादिविषयसम्यक्प्रवृत्तिसम्बन्धेनेत्यर्थः २।। ___'तइयं ति तृतीयं भावनावस्तु शय्यापरिकर्मवर्जनं नाम, तच्चैवं-पीठफलकशय्यासंस्तारकार्थताय वृक्षान छेत्तव्याः न च छेदनेन तद्भूम्याश्रितवृक्षादीनां कर्त्तनेन भेदनेन च तेषां पाषाणादीनांवा शय्या-शयनीयंकारयितव्या, तथा यस्यैव गृहपतेरुपाश्रयेनिलयेवसेत्–निवासं करोतिशय्यांशयनीयंतत्रैव गवेषयेत्-मृगयेत्नचविषमांसतींसमांकुर्यात्ननिवातप्रवातोत्सुकत्वं कुर्यादिति वर्तते, न च दंशमशकेषु विषये क्षुभितव्यं-क्षोभः कार्यः, अतश्च दंशाद्यपनयनार्थं अग्निधूर्मो वा न कर्तव्यः, ____ एवमुक्तप्रकारेणसंयमबहुलः-पृथिव्यादिसंरक्षणप्रचुरः संवरबहुलः-प्राणातिपाताद्याश्रवद्वारनिरोधप्रचुरः संवृतबहुलः-कषायेन्द्रियसंवृतत्वप्रचुरः समाधिबहुलः-चित्तस्वास्थ्यप्रचुरः धीरो-बुद्धिमान् अक्षोभो वापरीषहेषु, कायेन स्पृशन्न मनोरथमात्रेण, तृतीयंसंवरमिति प्रक्रमगम्यं, सततं-सन्ततमध्यात्मनि-आत्मानमधिकृत्य आत्मालम्बनं ध्यानं-चित्तनिरोधस्तेन युक्तो यः स तथा, तत्रात्मध्यानं अमुकोऽहं अमुककुले अमुगसिस्से अमुगधम्मट्ठाणठिइए न य तब्बिराहणे त्यादिरूपं, ‘समिए'त्ति समितः समितिभिः एकः-ससहायोऽपि रागाद्यभावात् चरेद्-अनुतिष्ठेत् धर्म-चारित्रं, अथ तृतीयभावनांनिगमयन्नाह-एवं-अनन्तरोदितन्यायेन शय्यासमितियोगेनशयनीयविषयसम्यक्प्रवृत्तियोगेन शेषं पूर्ववत् ३।। इह चतुर्थ भावनावस्तु अनुज्ञातभक्तादिभोजनलक्षणं, तच्चैवं-साधारणः-सङ्घाटिकादिसाधर्मिकस्यसामान्योयः पिण्डस्तस्यभक्तादे; पात्रस्यच-पतद्रहलक्षणस्य उपलक्षण-त्वादुपध्यन्तरस्य च पात्रेवा-अधिकरणे लाभो-दायकात्सकाशात्प्राप्तिः स साधारणपिण्डपात्र-लाभस्तत्र सति भोक्तव्यं-अभ्यवहर्तव्यं परिभोक्तव्यं च, केन कथमित्याह-संयतेन-साधुना ‘समियं'ति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548