Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 492
________________ ४८९ द्वारं-२, अध्ययनं-३, सम्यक्यथाअदत्तादानंन भवतीत्यर्थः, सम्यकत्वमेवाह-नशाकसूपाधिकं साधारणस्य पिण्डस्य शाकसूपाधिके भोगे भुज्यमाने सङ्घाटिकादिसाधोरप्रतीरुत्पद्यते ततस्तददत्तं भवति, तथा 'न खद्धं ति प्रचुरं प्रचुरभोजनेऽप्यप्रीतिरेव, प्रचुरभोजनता च साधारणेऽपि पिण्डे भोजनकान्तरापेक्षया वेगेन भुज्यमाने भवतीति तन्निषेधायाह न वेगितं-ग्रासस्य गिलने वेगवत् न त्वरितं-मुखक्षेपे न चपलं-हस्तिग्रीवादिरूपकायचलनवत्न साहसं-अवितर्कितंअतएव नच परस्य पीडाकरंचतत्सावाचेति परपीडाकरसावा, किं बहुनोक्तेन ?, तथा भोक्तव्यं संयतेन नित्यं यथा 'से' तस्य संयतस्य तद्वा तृतीयव्रतं न सीगति-नभ्रश्यति, दूरक्षं चेदं सूक्ष्मत्वादित्यत आह-साधारणपिण्डपात्रलाभे विषयभूते सूक्ष्मसुनिपुणमतिरक्षणीयत्वादणु, किं तदित्याह-अदत्तादानविरमणलक्षणेन व्रतेन यन्नियमनं-आत्मनो नियन्त्रणं तत्तथा, पाठान्तरे अदत्तादानाद्वतमितिबुद्धया नियमेन–अवश्यंतया यद्विरमणंनिवृत्तिस्तत्तथा, एतन्निगमनायाह-एवमुक्तन्यायेन साधारणपिण्डपात्रलाभे विषयभूते समितियोगेन-सम्यक्प्रवृत्तिसम्बन्धेन भावितो भवत्यन्तरात्मा, किंभूत इत्याह- 'निच्च'मित्यादि तथैव ४। ‘पंचमगं'तिपञ्चमं भावनावस्तु, किंतदित्याह-साधर्मिकेषु विनयः प्रयोक्तव्यः, एतदेव विषयभेदेनाह-'उवकरणपारणासुत्तिआत्मनोऽन्यस्य वा उपकरणं-ग्लानाद्यवस्थाया-मन्येनोपकारकरणं तच्च पारणा च-तपसः श्रुतस्कन्धादिश्रुतस्य वा पारगमनं उपकारपारणे तयोविनयः प्रयोक्तव्यो, विनयश्चेच्छाकारादिदानेन बलात्कारपरिहारादिलक्षणः एकत्रान्यत्र च गुर्वनुज्ञया भोजनादिकृत्यकरणलक्षणः, तथा वाचना-सूत्रग्रहणं परिवर्तना-तस्यैव गुणनं तयोविनयः प्रयोक्तव्यो वन्दनादिदानलक्षणः तथा दानंलब्धस्यान्नदेग्लानादिभ्यो वितरणं ग्रहणं-तस्यैव परेण दीयमानस्यादानं प्रच्छना-विस्मृतसूत्रार्थप्रश्नः एतासुविनयःप्रयोक्तव्यः, तत्रदानग्रहणयोर्गुर्वनुज्ञालक्षणःप्रच्छनायां तु वन्दनादिविनयः, तथा निष्क्रमणप्रवेशनयोर्विनयस्तु आवश्यकीनषेधिक्यादिकरणमथवा हस्तप्रसारणपूर्वकं भूप्रमार्जनान्तरपादनिक्षेपलक्षणः, किंबहुना? प्रत्येकं विषयभणनेनेत्यत आह–अन्येषु चैवमादिकेषु बहुषु कारणशतेषु विनयः प्रयोक्तव्यः, कस्मादेवमित्याह-विनयोऽपि न केवलमनशनादि तपः अपि तु विनयोऽपि तपो वर्तत, अभ्यन्तरतपोभेदेषु पठितत्वात् तस्य, यद्येवं ततः किमत आह-तपोऽपि धर्मः, न केवलं संयमो धर्मस्तपोऽपि धर्मो वर्तते चारित्रांशत्वात् तस्य, यत एवं तस्माद्विनयः प्रयोक्तव्यः, केष्वित्याह-गुरुषु साधुषु तपस्विषु च–अष्टमादिकारिषु, विनयप्रयोगे हि तीर्थकराधुनुज्ञास्वरूपादत्तादानविरमणंपरिपालितं भवतीति, पञ्चमभावनानिगमनार्थमाह-एवमुक्तन्यायेन भावितो भवत्यन्तरात्मा, किंभूतः ? -नित्यमित्यादि पूर्ववत् ५। अध्ययनार्थोपसंहारार्थमाह-‘एवमिणंसंवरस्सदारंसम्म संवरियं होइ सुप्पणिहियं इमेहिं पंचहिं कारणेहिं मणवयणकायपरिरक्खिएहिं निच्चं आमरणंतं च एस जोगो नेयव्वो धितिमया मतिमया अनासवो अकलुसो अच्छिद्दो अपरिस्साई आसंकिलिट्ठो सुद्धो सव्वजिणमणुनाओ, एवं तइयं संवरदारं फासियं पालियं सोहियं तीरिअं किट्टिअंसम्मं आराहियं आणाए अनुपालियं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548