________________
४८९
द्वारं-२, अध्ययनं-३, सम्यक्यथाअदत्तादानंन भवतीत्यर्थः, सम्यकत्वमेवाह-नशाकसूपाधिकं साधारणस्य पिण्डस्य शाकसूपाधिके भोगे भुज्यमाने सङ्घाटिकादिसाधोरप्रतीरुत्पद्यते ततस्तददत्तं भवति,
तथा 'न खद्धं ति प्रचुरं प्रचुरभोजनेऽप्यप्रीतिरेव, प्रचुरभोजनता च साधारणेऽपि पिण्डे भोजनकान्तरापेक्षया वेगेन भुज्यमाने भवतीति तन्निषेधायाह
न वेगितं-ग्रासस्य गिलने वेगवत् न त्वरितं-मुखक्षेपे न चपलं-हस्तिग्रीवादिरूपकायचलनवत्न साहसं-अवितर्कितंअतएव नच परस्य पीडाकरंचतत्सावाचेति परपीडाकरसावा, किं बहुनोक्तेन ?, तथा भोक्तव्यं संयतेन नित्यं यथा 'से' तस्य संयतस्य तद्वा तृतीयव्रतं न सीगति-नभ्रश्यति, दूरक्षं चेदं सूक्ष्मत्वादित्यत आह-साधारणपिण्डपात्रलाभे विषयभूते सूक्ष्मसुनिपुणमतिरक्षणीयत्वादणु, किं तदित्याह-अदत्तादानविरमणलक्षणेन व्रतेन यन्नियमनं-आत्मनो नियन्त्रणं तत्तथा, पाठान्तरे अदत्तादानाद्वतमितिबुद्धया नियमेन–अवश्यंतया यद्विरमणंनिवृत्तिस्तत्तथा, एतन्निगमनायाह-एवमुक्तन्यायेन साधारणपिण्डपात्रलाभे विषयभूते समितियोगेन-सम्यक्प्रवृत्तिसम्बन्धेन भावितो भवत्यन्तरात्मा, किंभूत इत्याह- 'निच्च'मित्यादि तथैव ४।
‘पंचमगं'तिपञ्चमं भावनावस्तु, किंतदित्याह-साधर्मिकेषु विनयः प्रयोक्तव्यः, एतदेव विषयभेदेनाह-'उवकरणपारणासुत्तिआत्मनोऽन्यस्य वा उपकरणं-ग्लानाद्यवस्थाया-मन्येनोपकारकरणं तच्च पारणा च-तपसः श्रुतस्कन्धादिश्रुतस्य वा पारगमनं उपकारपारणे तयोविनयः प्रयोक्तव्यो, विनयश्चेच्छाकारादिदानेन बलात्कारपरिहारादिलक्षणः एकत्रान्यत्र च गुर्वनुज्ञया भोजनादिकृत्यकरणलक्षणः, तथा वाचना-सूत्रग्रहणं परिवर्तना-तस्यैव गुणनं तयोविनयः प्रयोक्तव्यो वन्दनादिदानलक्षणः
तथा दानंलब्धस्यान्नदेग्लानादिभ्यो वितरणं ग्रहणं-तस्यैव परेण दीयमानस्यादानं प्रच्छना-विस्मृतसूत्रार्थप्रश्नः एतासुविनयःप्रयोक्तव्यः, तत्रदानग्रहणयोर्गुर्वनुज्ञालक्षणःप्रच्छनायां तु वन्दनादिविनयः, तथा निष्क्रमणप्रवेशनयोर्विनयस्तु आवश्यकीनषेधिक्यादिकरणमथवा हस्तप्रसारणपूर्वकं भूप्रमार्जनान्तरपादनिक्षेपलक्षणः, किंबहुना?
प्रत्येकं विषयभणनेनेत्यत आह–अन्येषु चैवमादिकेषु बहुषु कारणशतेषु विनयः प्रयोक्तव्यः, कस्मादेवमित्याह-विनयोऽपि न केवलमनशनादि तपः अपि तु विनयोऽपि तपो वर्तत, अभ्यन्तरतपोभेदेषु पठितत्वात् तस्य, यद्येवं ततः किमत आह-तपोऽपि धर्मः, न केवलं संयमो धर्मस्तपोऽपि धर्मो वर्तते चारित्रांशत्वात् तस्य, यत एवं तस्माद्विनयः प्रयोक्तव्यः, केष्वित्याह-गुरुषु साधुषु तपस्विषु च–अष्टमादिकारिषु, विनयप्रयोगे हि तीर्थकराधुनुज्ञास्वरूपादत्तादानविरमणंपरिपालितं भवतीति, पञ्चमभावनानिगमनार्थमाह-एवमुक्तन्यायेन भावितो भवत्यन्तरात्मा, किंभूतः ? -नित्यमित्यादि पूर्ववत् ५।
अध्ययनार्थोपसंहारार्थमाह-‘एवमिणंसंवरस्सदारंसम्म संवरियं होइ सुप्पणिहियं इमेहिं पंचहिं कारणेहिं मणवयणकायपरिरक्खिएहिं निच्चं आमरणंतं च एस जोगो नेयव्वो धितिमया मतिमया अनासवो अकलुसो अच्छिद्दो अपरिस्साई आसंकिलिट्ठो सुद्धो सव्वजिणमणुनाओ, एवं तइयं संवरदारं फासियं पालियं सोहियं तीरिअं किट्टिअंसम्मं आराहियं आणाए अनुपालियं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org