________________
४८८
प्रश्नव्याकरणदशाङ्गसूत्रम् २/३/३८ 'बीय'ति द्वितीयं भावनावस्तु अनुज्ञातसंस्तारकग्रहणं नाम, तच्चैवम्-आरामोदम्पतिरमणस्थानभूतमाधवीलतादिगृहयुक्तः उद्यानं-पुष्पादिम क्षङ्कलादौ उत्सवादौ बहुजनभोग्यं काननं-सामान्यवृक्षोपेतंनगरासन्नंच वनं-नगरविप्रकृष्टं एतेषांप्रदेशरूपोयो भागः सतथा तत्र यत्किञ्चिदिति सामान्येनावग्रहणीयं वस्तु, तदेव विशेषेणाह-इक्कडं वा-ढंढणसशं तृणविशेषं एवं कठिनकंजन्तुकंच-जलाशयजंतृणविशेषमेवपर्णमित्यर्थः तथापरा-तृणविशेषः मेरा तु-मुञ्जसरिका कू! येन तृणविशेषेण कुविन्दाः कूर्चान् कुर्वन्ति कुश दर्भयोराकारकृतो विशेषः पलालं-कङ्गवादीनां मूयको-मेदपाटप्रसिद्धस्तृणविशेषः वल्वजः- तृणविशेषः पुष्पफलत्वक्प्रवालकन्दमूलतृणकाष्ठशर्कराःप्रतीतास्ततः परादीनांद्वन्द्वः पुनस्ताआदिर्यस्यतत्तथा तद् गृह्णाति-आदत्ते,
किमर्थं ? -य्योपधेः-संस्तारकरूपस्योपधेरथवा संस्तारकस्योपाधेश्वार्थाय-हेतवे, इह तदिति शेषोदृश्यः, ततस्तन्न कल्पते-न युज्यते अवग्रहे-उपाश्रयान्तर्वर्तिनि अवग्राह्ये वस्तुनि अदत्ते-अननुज्ञातेशय्यादायिना 'गिहिउंचे'त्तिग्रहीतुं-आदातुंजे इति निपातः, अयमभिप्रायःउपाश्रयमनुज्ञाप्य तन्मध्यगतंतृणाद्यप्यनुज्ञापनीयं, अन्यथा तदग्राह्यं स्यादिति, एतदेवाह-'हणि हणि त्ति अहनि २-प्रतिदिवसं, अयमभिप्रायः-उपाश्रयानुज्ञापनादिने 'उग्गहंति अवग्राह्यमिक्कडादि अनुज्ञाप्य ग्रहीतव्यमिति, ‘एव'मित्यादि निगमनंप्रथमभावनावदवसेयं, नवरमवग्रहसमितियोगेन-अवग्रहणीयतृणादिविषयसम्यक्प्रवृत्तिसम्बन्धेनेत्यर्थः २।। ___'तइयं ति तृतीयं भावनावस्तु शय्यापरिकर्मवर्जनं नाम, तच्चैवं-पीठफलकशय्यासंस्तारकार्थताय वृक्षान छेत्तव्याः न च छेदनेन तद्भूम्याश्रितवृक्षादीनां कर्त्तनेन भेदनेन च तेषां पाषाणादीनांवा शय्या-शयनीयंकारयितव्या, तथा यस्यैव गृहपतेरुपाश्रयेनिलयेवसेत्–निवासं करोतिशय्यांशयनीयंतत्रैव गवेषयेत्-मृगयेत्नचविषमांसतींसमांकुर्यात्ननिवातप्रवातोत्सुकत्वं कुर्यादिति वर्तते, न च दंशमशकेषु विषये क्षुभितव्यं-क्षोभः कार्यः, अतश्च दंशाद्यपनयनार्थं अग्निधूर्मो वा न कर्तव्यः, ____ एवमुक्तप्रकारेणसंयमबहुलः-पृथिव्यादिसंरक्षणप्रचुरः संवरबहुलः-प्राणातिपाताद्याश्रवद्वारनिरोधप्रचुरः संवृतबहुलः-कषायेन्द्रियसंवृतत्वप्रचुरः समाधिबहुलः-चित्तस्वास्थ्यप्रचुरः धीरो-बुद्धिमान् अक्षोभो वापरीषहेषु, कायेन स्पृशन्न मनोरथमात्रेण, तृतीयंसंवरमिति प्रक्रमगम्यं, सततं-सन्ततमध्यात्मनि-आत्मानमधिकृत्य आत्मालम्बनं ध्यानं-चित्तनिरोधस्तेन युक्तो यः स तथा, तत्रात्मध्यानं अमुकोऽहं अमुककुले अमुगसिस्से अमुगधम्मट्ठाणठिइए न य तब्बिराहणे त्यादिरूपं, ‘समिए'त्ति समितः समितिभिः एकः-ससहायोऽपि रागाद्यभावात् चरेद्-अनुतिष्ठेत् धर्म-चारित्रं, अथ तृतीयभावनांनिगमयन्नाह-एवं-अनन्तरोदितन्यायेन शय्यासमितियोगेनशयनीयविषयसम्यक्प्रवृत्तियोगेन शेषं पूर्ववत् ३।।
इह चतुर्थ भावनावस्तु अनुज्ञातभक्तादिभोजनलक्षणं, तच्चैवं-साधारणः-सङ्घाटिकादिसाधर्मिकस्यसामान्योयः पिण्डस्तस्यभक्तादे; पात्रस्यच-पतद्रहलक्षणस्य उपलक्षण-त्वादुपध्यन्तरस्य च पात्रेवा-अधिकरणे लाभो-दायकात्सकाशात्प्राप्तिः स साधारणपिण्डपात्र-लाभस्तत्र सति भोक्तव्यं-अभ्यवहर्तव्यं परिभोक्तव्यं च, केन कथमित्याह-संयतेन-साधुना ‘समियं'ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org